याज्ञवल्क्यस्मृतिःव्यवहाराध्यायःविक्रीयासंप्रदानप्रकरणम्

गृहीतमूल्यं यः पण्यं क्रेतुर्नैव प्रयच्छति ।

सोदयं तस्य दाप्योऽसौ दिग्लाभं वा दिगागते । । २.२५४ । ।


विक्रीतं अपि विक्रेयं पूर्वक्रेतर्यगृह्णति ।
हानिश्चेत्क्रेतृदोषेण क्रेतुरेव हि सा भवेत् । । २.२५५ । ।


राजदैवोपघातेन पण्ये दोषं उपागते ।
हानिर्विक्रेतुरेवासौ याचितस्याप्रयच्छतः । । २.२५६ । ।


अन्यहस्ते च विक्रीय दुष्टं वादुष्टवद्यदि ।
विक्रीणीते दमस्तत्र मूल्यात्तु द्विगुणो भवेत् । । २.२५७ । ।


क्षयं वृद्धिं च वणिजा पण्यानां अविजानता ।
क्रीत्वा नानुशयः कार्यः कुर्वन्षड्भागदण्डभाक् । । २.२५८ । ।