याज्ञवल्क्यस्मृतिःव्यवहाराध्यायःअभ्युपेत्याशुश्रूषाप्रकरणम् बलाद्दासीकृतश्चौरैर्विक्रीतश्चापि मुच्यते ।स्वामिप्राणप्रदो भक्त त्यागात्तन्निष्क्रयादपि । । २.१८२ । ।प्रव्रज्यावसितो राज्ञो दास आमरणान्तिकम् ।वर्णानां आनुलोम्येन दास्यं न प्रतिलोमतः । । २.१८३ । ।कृतशिल्पोऽपि निवसेत्कृतकालं गुरोर्गृहे ।अन्तेवासी गुरुप्राप्त भोजनस्तत्फलप्रदः । । २.१८४ । ।