याज्ञवल्क्यस्मृतिःव्यवहाराध्यायःदत्ताप्रदानिकप्रकरणम्

 

स्वं कुटुम्बाविरोधेन देयं दारसुतादृते ।
नान्वये सति सर्वस्वं यच्चान्यस्मै प्रतिश्रुतम् । । २.१७५ । ।

प्रतिग्रहः प्रकाशः स्यात्स्थावरस्य विशेषतः ।
देयं प्रतिश्रुतं चैव दत्त्वा नापहरेत्पुनः । । २.१७६ । ।