याज्ञवल्क्यस्मृतिःव्यवहाराध्यायःउपनिधिप्रकरणम्

वासनस्थं अनाख्याय हस्तेऽन्यस्य यदर्प्यते ।

द्रव्यं तदौपनिधिकं प्रतिदेयं तथैव तत् । । २.६५ । ।


न दाप्योऽपहृतं तं तु राजदैविकतस्करैः ।
भ्रेषश्चेन्मार्गितेऽअदत्ते दाप्यो दण्डं च तत्समम् । । २.६६ । ।


आजीवन्स्वेच्छया दण्ड्यो दाप्यस्तं चापि सोदयम् ।
याचितान्वाहितन्यास निक्षेपादिष्वयं विधिः । । २.६७ । ।