गुरवे तु वरं दत्त्वा स्नायाद्वा तदनुज्ञया । वेदं व्रतानि वा पारं नीत्वा ह्युभयं एव वा । । १.५१ । । |
अविप्लुतब्रह्मचर्यो लक्षण्यां स्त्रियं उद्वहेत् । अनन्यपूर्विकां कान्तां असपिण्डां यवीयसीम् । । १.५२ । । |
अरोगिणीं भ्रातृमतीं असमानार्षगोत्रजान् । पञ्चमात्सप्तमादूर्ध्वं मातृतः पितृतस्तथा । । १.५३ । । |
दशपूरुषविख्याताच्छ्रोत्रियाणां महाकुलात् । स्फीतादपि न संचारि रोगदोषसमन्वितात् । । १.५४ । । |
एतैरेव गुणैर्युक्तः सवर्णः श्रोत्रियो वरः । यत्नात्परीक्षितः पुंस्त्वे युवा धीमान्जनप्रियः । । १.५५ । । |
यदुच्यते द्विजातीनां शूद्राद्दारोपसंग्रहः । नैतन्मम मतं यस्मात्तत्रायं जायते स्वयम् । । १.५६ । । |
तिस्रो वर्णानुपूर्व्येण द्वे तथैका यथाक्रमम् । ब्राह्मणक्षत्रियविशां भार्या स्वा शूद्रजन्मनः । । १.५७ । । |
ब्राह्मो विवाह आहूय दीयते शक्त्यलंकृता । तज्जः पुनात्युभयतः पुरुषानेकविंशतिम् । । १.५८ । । |
यज्ञस्थ ऋत्विजे दैव आदायार्षस्तु गोद्वयम् । चतुर्दश प्रथमजः पुनात्युत्तरजश्च षट् । । १.५९ । । |
इत्युक्त्वा चरतां धर्मं सह या दीयतेऽर्थिने । स कायः पावयेत्तज्जः षट्षड्वंश्यान्सहात्मना । । १.६० । । |
आसुरो द्रविणादानाद्गान्धर्वः समयान्मिथः । राक्षसो युद्धहरणात्पैशाचः कन्यकाछलात् । । १.६१ । । |
पाणिर्ग्राह्यः सवर्णासु गृह्णीयात्क्षत्रिया शरम् । वैश्या प्रतोदं आदद्याद्वेदने त्वग्रजन्मनः । । १.६२ । । |
पिता पितामहो भ्राता सकुल्यो जननी तथा । कन्याप्रदः पूर्वनाशे प्रकृतिस्थः परः परः । । १.६३ । । |
अप्रयच्छन्समाप्नोति भ्रूणहत्यां ऋतावृतौ । गम्यं त्वभावे दातॄणां कन्या कुर्यात्स्वयंवरम् । । १.६४ । । |
सकृत्प्रदीयते कन्या हरंस्तां चोरदण्डभाक् । दत्तां अपि हरेत्पूर्वाच्छ्रेयांश्चेद्वर आव्रजेत् । । १.६५ । । |
अनाख्याय ददद्दोषं दण्ड्य उत्तमसाहसम् । अदुष्टां तु त्यजन्दण्ड्यो दूषयंस्तु मृषा शतम् । । १.६६ । । |
अक्षता च क्षता चैव पुनर्भूः संस्कृता पुनः । स्वैरिणी या पतिं हित्वा सवर्णं कामतः श्रयेत् । । १.६७ । । |
अपुत्रां गुर्वनुज्ञातो देवरः पुत्रकाम्यया । सपिण्डो वा सगोत्रो वा घृताभ्यक्त ऋतावियात् । । १.६८ । । |
आगर्भसंभवाद्गच्छेत्पतितस्त्वन्यथा भवेत् । अनेन विधिना जातः क्षेत्रजोऽस्य भवेत्सुतः । । १.६९ । । |
हृताधिकारां मलिनां पिण्डमात्रोपजीविनाम् । परिभूतां अधःशय्यां वासयेद्व्यभिचारिणीम् । । १.७० । । |
सोमः शौचं ददावासां गन्धर्वश्च शुभां गिरम् । पावकः सर्वमेध्यत्वं मेध्या वै योषितो ह्यतः । । १.७१ । । |
व्यभिचारादृतौ शुद्धिर्गर्भे त्यागो विधीयते । गर्भभर्तृवधादौ च तथा महति पातके । । १.७२ । । |
सुरापी व्याधिता धूर्ता वन्ध्यार्थघ्न्यप्रियंवदा । स्त्रीप्रसूश्चाधिवेत्तव्या पुरुषद्वेषिणी तथा । । १.७३ । । |
अधिविन्ना तु भर्तव्या महदेनोऽन्यथा भवेत् । यत्रानुकूल्यं दंपत्योस्त्रिवर्गस्तत्र वर्धते । । १.७४ । । |
मृते जीवति वा पत्यौ या नान्यं उपगच्छति । सेह कीर्तिं अवाप्नोति मोदते चोमया सह । । १.७५ । । |
आज्ञासंपादिनीं दक्षां वीरसूं प्रियवादिनीम् । त्यजन्दाप्यस्तृतीयांशं अद्रव्यो भरणं स्त्रियाः । । १.७६ । । |
स्त्रीभिर्भर्तृवचः कार्यं एष धर्मः परः स्त्रियाः । आशुद्धेः संप्रतीक्ष्यो हि महापातकदूषितः । । १.७७ । । |
लोकानन्त्यं दिवः प्राप्तिः पुत्रपौत्रप्रपौत्रकैः । यस्मात्तस्मात्स्त्रियः सेव्याः कर्तव्याश्च सुरक्षिताः । । १.७८ । । |
षोडशर्तुनिशाः स्त्रीणां तस्मिन्युग्मासु संविशेत् । ब्रह्मचार्येव पर्वाण्याद्याश्चतस्रस्तु वर्जयेत् । । १.७९ । । |
एवं गच्छन्स्त्रियं क्षामां मघां मूलं च वर्जयेत् । सुस्थ इन्दौ सकृत्पुत्रं लक्षण्यं जनयेत्पुमान् । । १.८० । । |
यथाकामी भवेद्वापि स्त्रीणां वरं अनुस्मरन् । स्वदारनिरतश्चैव स्त्रियो रक्ष्या यतः स्मृताः । । १.८१ । । |
भर्तृभ्रातृपितृज्ञाति श्वश्रूश्वशुरदेवरैः । बन्धुभिश्च स्त्रियः पूज्या भूषणाच्छादनाशनैः । । १.८२ । । |
संयतोपस्करा दक्षा हृष्टा व्ययपराङ्मुखी । कुर्याच्छ्वशुरयोः पाद वन्दनं भर्तृतत्परा । । १.८३ । । |
क्रीडां शरीरसंस्कारं समाजोत्सवदर्शनम् । हास्यं परगृहे यानं त्यजेत्प्रोषितभर्तृका । । १.८४ । । |
रक्षेत्कन्यां पिता विन्नां पतिः पुत्रास्तु वार्धके । अभावे ज्ञातयस्तेषां न स्वातन्त्र्यं क्वचित्स्त्रियाः । । १.८५ । । |
पितृमातृसुतभ्रातृ श्वश्रूश्वशुरमातुलैः । हीना न स्याद्विना भर्त्रा गर्हणीयान्यथा भवेत् । । १.८६ । । |
पतिप्रियहिते युक्ता स्वाचारा विजितेन्द्रिया । सेह कीर्तिं अवाप्नोति प्रेत्य चानुत्तमां गतिम् । । १.८७ । । |
सत्यां अन्यां सवर्णायां धर्मकार्यं न कारयेत् । सवर्णासु विधौ धर्म्ये ज्येष्ठया न विनेतरा । । १.८८ । । |
दाहयित्वाग्निहोत्रेण स्त्रियं वृत्तवतीं पतिः । आहरेद्विधिवद्दारानग्नींश्चैवाविलम्बयन् । । १.८९ । । |