विभागं चेत्पिता कुर्यादिच्छया विभजेत्सुतान् । ज्येष्ठं वा श्रेष्ठभागेन सर्वे वा स्युः समांशिनः । । २.११४ । ।
|
यदि कुर्यात्समानंशान्पत्न्यः कार्याः समांशिकाः । न दत्तं स्त्रीधनं यासां भर्त्रा वा श्वशुरेण वा । । २.११५ । ।
|
शक्तस्यानीहमानस्य किंचिद्दत्त्वा पृथक्क्रिया । न्यूनाधिकविभक्तानां धर्म्यः पितृकृतः स्मृतः । । २.११६ । ।
|
विभजेरन्सुताः पित्रोरूर्ध्वं रिक्थं ऋणं समम् । मातुर्दुहितरः शेषं ऋणात्ताभ्य ऋतेऽन्वयः । । २.११७ । ।
|
पितृद्रव्याविरोधेन यदन्यत्स्वयं अर्जितम् । मैत्रमौद्वाहिकं चैव दायादानां न तद्भवेत् । । २.११८ । ।
|
क्रमादभ्यागतं द्रव्यं हृतं अप्युद्धरेत्तु यः । दायादेभ्यो न तद्दद्याद्विद्यया लब्धं एव च । । २.११९ । ।
|
सामान्यार्थसमुत्थाने विभागस्तु समः स्मृतः । अनेकपितृकाणां तु पितृतो भागकल्पना । । २.१२० । ।
|
भूर्या पितामहोपात्ता निबन्धो द्रव्यं एव वा । तत्र स्यात्सदृशं स्वाम्यं पितुः पुत्रस्य चैव हि । । २.१२१ । ।
|
विभक्तेषु सुतो जातः सवर्णायां विभागभाक् । दृश्याद्वा तद्विभागः स्यादायव्ययविशोधितात् । । २.१२२ । ।
|
पितृभ्यां यस्य तद्दत्तं तत्तस्यैव धनं भवेत् । पितुरूर्ध्वं विभजतां माताप्यंशं समं हरेत् । । २.१२३ । ।
|
असंस्कृतास्तु संस्कार्या भ्रातृभिः पूर्वसंस्कृतैः । भगिन्यश्च निजादंशाद्दत्त्वांशं तु तुरीयकम् । । २.१२४ । ।
|
चतुस्त्रिद्व्येकभागाः स्युर्वर्णशो ब्राह्मणात्मजाः । क्षत्रजास्त्रिद्व्येकभागा विड्जास्तु द्व्येकभागिनः । । २.१२५ । ।
|
अन्योन्यापहृतं द्रव्यं विभक्ते यत्तु दृश्यते । तत्पुनस्ते समैरंशैर्विभजेरन्निति स्थितिः । । २.१२६ । ।
|
अपुत्रेण परक्षेत्रे नियोगोत्पादितः सुतः । उभयोरप्यसौ रिक्थी पिण्डदाता च धर्मतः । । २.१२७ । ।
|
औरसो धर्मपत्नीजस्तत्समः पुत्रिकासुतः । क्षेत्रजः क्षेत्रजातस्तु सगोत्रेणेतरेण वा । । २.१२८ । ।
|
गृहे प्रच्छन्न उत्पन्नो गूढजस्तु सुतः स्मृतः । कानीनः कन्यकाजातो मातामहसुतो मतः । । २.१२९ । ।
|
अक्षतायां क्षतायां वा जातः पौनर्भवः सुतः । दद्यान्माता पिता वा यं स पुत्रो दत्तको भवेत् । । २.१३० । ।
|
क्रीतश्च ताभ्यां विक्रीतः कृत्रिमः स्यात्स्वयंकृतः । दत्त्वात्मा तु स्वयंदत्तो गर्भे विन्नः सहोढजः । । २.१३१ । ।
|
उत्सृष्टो गृह्यते यस्तु सोऽपविद्धो भवेत्सुतः । पिण्डदोऽंशहरश्चैषां पूर्वाभावे परः परः । । २.१३२ । ।
|
सजातीयेष्वयं प्रोक्तस्तनयेषु मया विधिः । जातोऽपि दास्यां शूद्रेण कामतोऽंशहरो भवेत् । । २.१३३ । ।
|
मृते पितरि कुर्युस्तं भ्रातरस्त्वर्धभागिकम् । अभ्रातृको हरेत्सर्वं दुहितॄणां सुतादृते । । २.१३४ । ।
|
पत्नी दुहितरश्चैव पितरौ भ्रातरस्तथा । तत्सुता गोत्रजा बन्धु शिष्यसब्रह्मचारिणः । । २.१३५ । ।
|
एषां अभावे पूर्वस्य धनभागुत्तरोत्तरः । स्वर्यातस्य ह्यपुत्रस्य सर्ववर्णेष्वयं विधिः । । २.१३६ । ।
|
वानप्रस्थयतिब्रह्म चारिणां रिक्थभागिनः । क्रमेणाचार्यसच्छिष्य धर्मभ्रात्रेकतीर्थिनः । । २.१३७ । ।
|
संसृष्टिनस्तु संसृष्टी सोदरस्य तु सोदरः । दद्यादपहरेच्चांशं जातस्य च मृतस्य च । । २.१३८ । ।
|
अन्योदर्यस्तु संसृष्टी नान्योदर्यो धनं हरेत् । असंसृष्ट्यपि वादद्यात्संसृष्टो नान्यमातृजः । । २.१३९ । ।
|
क्लीबोऽथ पतितस्तज्जः पङ्गुरुन्मत्तको जडः । अन्धोऽचिकित्स्यरोगाद्या भर्तव्याः स्युर्निरंशकाः । । २.१४० । ।
|
औरसाः क्षेत्रजास्त्वेषां निर्दोषा भागहारिणः । सुताश्चैषां प्रभर्तव्या यावद्वै भर्तृसात्कृताः । । २.१४१ । ।
|
अपुत्रा योषितश्चैषां भर्तव्याः साधुवृत्तयः । निर्वास्या व्यभिचारिण्यः प्रतिकूलास्तथैव च । । २.१४२ । ।
|
पितृमातृपतिभ्रातृ दत्तं अध्यग्न्युपागतम् । आधिवेदनिकाद्यं च स्त्रीधनं परिकीर्तितम् । । २.१४३ । ।
|
बन्धुदत्तं तथा शुल्कं अन्वाधेयकं एव च । अतीतायां अप्रजसि बान्धवास्तदवाप्नुयुः । । २.१४४ । ।
|
अप्रजस्त्रीधनं भर्तुर्ब्राह्मादिषु चतुर्ष्वपि । दुहितॄणां प्रसूता चेच्छेषेषु पितृगामि तत् । । २.१४५ । ।
|
दत्त्वा कन्यां हरन्दण्ड्यो व्ययं दद्याच्च सोदयम् । मृतायां दत्तं आदद्यात्परिशोध्योभयव्ययम् । । २.१४६ । ।
|
दुर्भिक्षे धर्मकार्ये च व्याधौ संप्रतिरोधके । गृहीतं स्त्रीधनं भर्ता न स्त्रियै दातुं अर्हति । । २.१४७ । ।
|
अधिविन्नस्त्रियै दद्यादाधिवेदनिकं समम् । न दत्तं स्त्रीधनं यस्यै दत्ते त्वर्धं प्रकल्पयेत् । । २.१४८ । ।
|
विभागनिह्नवे ज्ञाति बन्धुसाक्ष्यभिलेखितैः । विभागभावना ज्ञेया गृहक्षेत्रैश्च यौतकैः । । २.१४९ । ।
|