तुलाग्न्यापो विषं कोशो दिव्यानीह विशुद्धये । महाभियोगेष्वेतानि शीर्षकस्थेऽभियोक्तरि । । २.९५ । । |
रुच्या वान्यतरः कुर्यादितरो वर्तयेच्छिरः । विनापि शीर्षकात्कुर्यान्नृपद्रोहेऽथ पातके । । २.९६ । । |
सचैलं स्नातं आहूय सूर्योदय उपोषितम् । कारयेत्सर्वदिव्यानि नृपब्राह्मणसंनिधौ । । २.९७ । । |
तुला स्त्रीबालवृद्धान्ध पङ्गुब्राह्मणरोगिणाम् । अग्निर्जलं वा शूद्रस्य यवाः सप्त विषस्य वा । । २.९८ । । |
नासहस्राद्धरेत्फालं न विषं न तुलां तथा । नृपार्थेष्वभिशापे च वहेयुः शुचयः सदा । । २.९९ । । |
तुलाधारणविद्वद्भिरभियुक्तस्तुलाश्रितः । प्रतिमानसमीभूतो रेखां कृत्वावतारितः । । २.१०० । । |
त्वं तुले सत्यधामासि पुरा देवैर्विनिर्मिता । तत्सत्यं वद कल्याणि संशयान्मां विमोचय । । २.१०१ । । |
यद्यस्मि पापकृन्मातस्ततो मां त्वं अधो नय । शुद्धश्चेद्गमयोर्ध्वं मां तुलां इत्यभिमन्त्रयेत् । । २.१०२ । । |
करौ विमृदितव्रीहेर्लक्षयित्वा ततो न्यसेत् । सप्ताश्वत्थस्य पत्राणि तावत्सूत्रेण वेष्टयेत् । । २.१०३ । । |
त्वं अग्ने सर्वभूतानां अन्तश्चरसि पावक । साक्षिवत्पुण्यपापेभ्यो ब्रूहि सत्यं कवे मम । । २.१०४ । । |
तस्येत्युक्तवतो लौहं पञ्चाशत्पलिकं समम् । अग्निवर्णं न्यसेत्पिण्डं हस्तयोरुभयोरपि । । २.१०५ । । |
स तं आदाय सप्तैव मण्डलानि शनैर्व्रजेत् । षोडशाङ्गुलकं ज्ञेयं मण्डलं तावदन्तरम् । । २.१०६ । । |
मुक्त्वाग्निं मृदितव्रीहिरदग्धः शुद्धिं आप्नुयात् । अन्तरा पतिते पिण्डे संदेहे वा पुनर्हरेत् । । २.१०७ । । |
सत्येन माभिरक्ष त्वं वरुणेत्यभिशाप्य कम् । नाभिदघ्नोदकस्थस्य गृहीत्वोरू जलं वशेत् । । २.१०८ । । |
समकालं इषुं मुक्तं आनीयान्यो जवी नरः । गते तस्मिन्निमग्नाङ्गं पश्येच्चेच्छुद्धिं आप्नुयात् । । २.१०९ । । |
त्वं विष ब्रह्मणः पुत्रः सत्यधर्मे व्यवस्थितः । त्रायस्वास्मादभीशापात्सत्येन भव मेऽमृतम् । । २.११० । । |
एवं उक्त्वा विषं शार्ङ्गं भक्षयेद्धिमशैलजम् । यस्य वेगैर्विना जीर्येच्छुद्धिं तस्य विनिर्दिशेत् । । २.१११ । । |
देवानुग्रान्समभ्यर्च्य तत्स्नानोदकं आहरेत् । संस्राव्य पाययेत्तस्माज्जलं तु प्रसृतित्रयम् । । २.११२ । । |
अर्वाक्चतुर्दशादह्नो यस्य नो राजदैविकम् । व्यसनं जायते घोरं स शुद्धः स्यान्न संशयः । । २.११३ । । |