चतुर्थः पादः
4-1 वातप्रमीः ॥ वातशब्दे उपपदे माधातोरीप्रत्ययः स च कित् । वातप्रमीः ॥ अयं स्त्रीपुंसयोः ।
4-2 ऋतन्यञ्जिवन्यञ्ज्यर्पिमद्यत्यङ्गिकुयुकृशिभ्यः कत्निच्यतुजलिजिष्ठुजिष्ठजिसन्स्यनिथिनुल्यसासानुकः ॥ द्वादशभ्यः क्रमात्स्युः । अर्तेः कत्निच् यण् । बद्धमुष्टिः करो रत्निः सोऽरत्निः प्रसृताङ्गुलिः । तनोतेर्यतुच् । तन्यतुर्वायू रात्रिश्च अञ्जेरलिच् । अञ्जलिः । वनेरिष्टुच् । वनिष्टु स्थविरान्त्रम् । अञ्जेरिष्टुच् । अञ्जिष्ठो भानुः । अर्पयतेरिसन् । अर्पिसोऽग्रमांसम् । मदेः स्यन् । मत्स्यः । अतेरिथिन् । अतिथिः । अङ्गेरुलिः । अङ्गुलिः । कौतेरसः । कवसः । अच इत्येके । कवचम् । यौतेरासः । यवासो दुरालभा । कृशेरानुक् । कृशानुः ।
4-3 श्रः करन् ॥ उत्तरसूत्रे किद्ग्रहणादिह ककारस्य नेत्वम् । शर्करा ।
4-4 पुषः कित् ॥ पुष्करम् ।
4-5 कलश्च ॥ पुष्कलम् ।
4-6 गमेरिनिः ॥ गमिष्यतीति गमी ।
4-7 आङि णित् ॥ आगामी ।
4-8 भुवश्च ॥ भावी ।
4-9 प्रे स्थः ॥ प्रस्थायी ।
4-10 परमे कित् ॥ परमेष्ठी ।
4-11 मन्थः ॥ मन्थतेरिनिः कित्स्यात् । कित्त्वान्नकारलोपः मन्थाः । मन्थानौ । मन्थानः ।
4-12 पतः स्थ च ॥ पन्थाः । पन्थानौ ।
4-13 खजेराकः ॥ खजाकः पक्षी ।
4-14 बलाकादयश्च ॥ बलाका । शलाका । पताका ।
4-15 पिनाकादयश्च ॥ पातेरित्वम् नुम् च । क्लीबपुंसोः पिनाकः स्याच्छूलशङ्करधन्वनोः । तड आघाते । तडाकः ।
4-16 कषिदूषिभ्यामीकन् ॥ कषिका पक्षिजातिः । दूषिका नेत्रयोर्मलम् ।
4-17 अनिहृषिभ्याम् किच्च ॥ अनीकम् । हृषीकम् ।
4-18 चङ्कणः कङ्कणश्च ॥ कण शब्दे । अस्माद्यङ्लुगन्तादीकन् धातोः कङ्कणादेशश्च । घन्टिकायां कङ्कणीका सैव प्रतिसरापि च ।
4-19 शॄपॄवृञां द्वेरुक् चाभ्यासश्च ॥ शर्करीको हिंस्रः । पर्परीको दिवाकरः । वर्वरीकः कुटिलकेशः ।
4-20 पर्फरीकादयश्च ॥ स्फुर स्फुरणे अस्मादीकन् धातोः पर्फरादेशः । पर्फरीकं किसलयम् । दर्दरीकं वादित्रम् । झर्झरीकं शरीरम् । तित्तिडीको वृषभेदः (ग) चरेर्नु च । चञ्चरीको भ्रमरः । मर्मरीको हीनजनः । कर्करीका गलन्तिका । पुणतेः । पुन्डरीकं वादित्रम् । पुन्डरीको व्याघ्रोऽग्निर्दिग्गजश्च ।
4-21 ईषः किद्ध्रस्वश्च ॥ इषीका शलाका ।
4-22 ऋजेश्च ॥ ऋजिकः उपहतः ।
4-23 सर्तेर्नुम् च ॥ सृणिका लाला ।
4-24 मृडः कीकच्कङ्कणौ ॥ मृडीको मृगः । मृडङ्कणः शिशुः ।
4-25 अलीकादयश्च ॥ कीकजन्ता निपात्यन्ते । अल भूषणादौ । अलीकं मिथ्या । विपूर्वाद्व्यलीकं विप्रियं खेदश्च । वलीकं पटलप्रान्ते इत्यादि ।
4-26 कॄतॄभ्यामीषन् ॥ करीषोऽस्त्री शुष्कगोमये । करीषः तरीता ।
4-27 शॄपॄभ्यां किच्च ॥ शिरीषः । पुरीषम् ।
4-28 अर्जेर्ऋज च ॥ ऋजीषं पिष्टपचनम् ।
4-29 अम्बरीषः ॥ अयं निपात्यते । अबि शब्दे । अम्बरीषः पुमान् भाष्ट्रम् ।
4-30 कॄशॄपॄकटिपटिशौटिभ्य ईरन् ॥ करीरो वंशाङ्कुरः । शरीरम् । परीरम् । फलम् । कटीरः कन्दरो जघनप्रदेशश्च । पटीरश्चन्दनः कन्टकः कामश्च । शौटीरस्त्यागिवीरयोः ब्राह्म्णादित्वात् ष्यञ् । शौटीर्यम् ।
4-31 वशेः कित् ॥ वशीरम् ।
4-32 कशेर्मुट् च ॥ काश्मीरो देशः ।
4-33 कृञ उच्च ॥ कुरीरं मैथुनम् ।
4-34 घसेः किश्च ॥ क्षीरम् ।
4-35 गभीरगम्भीरौ ॥ गभेर्भः पक्षे नुम् च ।
4-36 विषा विहा ॥ स्यतेर्जहातेश्च विपूर्वाभ्यामाप्रत्यः । विषा बुद्धिः । विहा स्वर्गः । अव्यये इमे ।
4-37 पच एलिमच् ॥ पचेलिमो वह्निरव्योः ।
4-38 शीङो धुक्लक्वलञ्वालनः ॥ चत्वारः प्रत्ययाः स्युः । शीधु मद्यम् । शीलं स्वभावः । शैवलः शेवालम् । बाहुलकाद्वस्य पोऽपि । शेवालं शैवलो न स्त्री शेपालो जलनीलिका ।
4-39 मॄकणिभ्यामूकोकणौ ॥ मरूंको मृगः । काणूकः काकः ।
4-40 वलेरूकः ॥ वलूकः पक्षी उत्पलमूलं च ।
4-41 उलूकादयश्च ॥ वलेः संप्रसारणमूकश्च । उलूकाविन्द्रपेचकौ । वावदूको वक्ता । भल्लूकः । (ग) शमेर्वुक्च ॥ शम्बूको जलशुक्तिः ।
4-42 शलिमन्डिभ्यामूकण् ॥ शालूकं कन्दविशेषः । मण्डूकः ।
4-43 नियो मिः ॥ नेमिः ।
4-44 अर्तेरूच्च ॥ ऊर्मिः ।
4-45 भुवः कित् ॥ भूमिः ।
4-46 अश्नोते रश् च ॥ रश्मिः किरणो रज्जुश्च ।
4-47 दल्मिः ॥ दल विशरणे । दल्मिरिन्द्रायुधम् ।
4-48 वीज्याज्यरिभ्यो निः ॥ बाहुलकाण्णत्वम् । वेणिः स्यात्केशविन्यासः प्रवेणी च स्त्रियामुभे । ज्यानिः । जूर्णिः ।
4-49 सृवृषिभ्यां कित् ॥ सृणिरङ्कुशः । वृष्णिः क्षत्रियमेषयोः ।
4-50 अङ्गेर्नलोपश्च ॥ अग्निः ।
4-51 वहिश्रिश्रुयुद्रुग्लाहात्वरिभ्यो नित् ॥ वह्निः । श्रेणिः । श्रोणिः । योनिः । द्रोणिः । ग्लानिः । हानिः । तूर्णिः । बाहुलकान्म्लानिः ।
4-52 घृणिपृश्निपार्ष्णिचूर्णिभूर्णि ॥ एते पञ्च निपात्यन्ते । घृणिः किरणः । स्पृशतेः सलोपः पृश्निरल्पशरीरः । पृषेर्वृद्धिश्च । पार्ष्णिः पादतलम् । चरेरुपधाया उत्वम् । चूर्णिः कपर्दकशतम् । बिभर्तेरुत्वम् । भूर्णिर्धरणी ।
4-53 वृदृभ्यां विन् ॥ वर्विर्घस्मरः । दर्विः ।
4-54 जॄशॄस्तॄजागृभ्यः क्विन् ॥ जीर्विः पर्शुः । शीर्विर्हिंस्रः । स्तीर्विरध्वर्युः । जागृविर्नृपः ।
4-55 दिवो द्वे दीर्घश्चाभ्यासस्य ॥ दीदिविः स्वर्गमोक्षयोः ।
4-56 कृविघृष्विछविस्थविकिकीदिवि ॥ कृविस्तन्तुवायद्रव्यम् । घृष्विर्वराहः । छास्थोर्ह्रस्वत्वं च । छविर्दीप्तिः । स्थविस्तन्तुवायः । दीव्यतेः किकीपूर्वात् किकीदिविश्चाषः । बाहुलकाद्ध्रस्वदीर्घयोर्विनिमयः । चाषेण किकीदीविना ।
4-57 पातेर्डतिः ॥ पतिः ।
4-58 शकेर्ऋतिन् ॥ शकृत् ।
4-59 अमेरतिः ॥ अमतिः कालः ।
4-60 वहिवस्यर्तिभ्यश्चित् ॥ वहतिः पवनः । वसतिर्गृहयामिन्योः । अरतिः क्रोधः ।
4-61 अञ्चेः को वा ॥ अङ्कतिः । अञ्चतिर्वातः ।
4-62 हन्तेरंह च ॥ हन्तेरतिः स्यादंहादेशश्च धातोः । हन्ति दुरितमनया अंहतिर्दानम् प्रादेशनं निर्वपणमपवर्जनमंहतिः ।
4-63 रमेर्नित् ॥ रमतिः कालकामयोः ।
4-64 सूङः क्रिः ॥ सूरिः ।
4-65 अदिशदिभूशुभिभ्यः क्रिन् ॥ अद्रिः । शद्रिः । शर्करा । भूरि प्रचुरम् । शुभ्रिर्ब्रह्मा ।
4-66 वङ्क्र्यादयश्च ॥ क्रिन्नन्ता निपात्यन्ते । वङ्क्रिर्वाद्यभेदो गृहदारु पार्श्वास्थि च । वप्रिः क्षेत्रम् । अंह्रिरङ्घ्रिश्च चरणः । तदिः सौत्रो धातुः । तन्द्रिर्मोहः बाहुलकाद्गुणः । भेरिः ।
4-67 राशदिभ्यां त्रिप् ॥ रात्रिः शन्त्रिः । कुञ्जरः ।
4-68 अदेस्त्रिनिश्च ॥ चात्त्रिप् । अन्त्री । अन्त्रिणौ । अन्त्रिणः । अन्त्रिः । अन्त्री । अन्त्रयः ।
4-69 पतेरत्रिन् ॥ पतत्रिः पक्षी ।
4-70 मृकणिभ्यामीचिः ॥ मरीचिः कणीचिः पल्लवो निनादश्च ।
4-71 श्वयतेश्चित् ॥ श्वयीचिर्व्याधिः ।
4-72 वेञो डिच्च ॥ वीचिस्तरङ्गः । नञ्समासे अवीचिर्नरकभेदः ।
4-73 ऋहनिभ्यामूषन् ॥ अरूषः सूर्यः । हनूषो राक्षसः ।
4-74 पुरः कुषन् ॥ पुर अग्रगमने । पुरुषः । ‘6-3-137 अन्येषामपि –’ इति दीर्घः । पूरुषः ।
4-75 पॄनहिकलिभ्य उषच् ॥ परुषम् । नहुषः । कलुषम् ।
4-76 पीयेरूषन् ॥ पीय इति सौत्रो धातुः । पीयूषम् । बाहुलकाद्गुणे पेयूषोऽभिनवं पयः ।
4-77 मस्जेर्नुम् च ॥ मञ्जूषा ।
4-78 गडेश्च ॥ गण्डूषः । गण्डूषा ।
4-79 अर्तेररुः ॥ अररुः शत्रुः । अररू । अररवः ।
4-80 कुटः किच्च ॥ कुटरुर्वस्त्रगृहम् । कित्वप्रयोजनं चिन्त्यम् ।
4-81 शकादिभ्योऽटन् ॥ शकटोऽस्त्रियाम् । शकिर्गत्यर्थः । कङ्कटः सन्नाहः । देवटः शिल्पी । करट इत्यादि ।
4-82 कृकदिकडिकटिभ्योऽम्बच् ॥ करम्बं व्यामिश्रम् । कदिकडी सौत्रौ । कदम्बो वृक्षभेदः । कडम्बोऽग्रभागः । कटम्बो वादित्रम् ।
4-83 कदेर्णित्पक्षिणि ॥ कादम्बः कलहंसः ।
4-84 कलिकर्द्योरमः ॥ कलमः । कर्दमः ।
4-85 कुणिपुल्योः किन्दच् ॥ कुण शब्दोपकरणयोः । कुणिन्दः शब्दः । पुलिन्दो जातिविशेषः ।
4-86 कुपेर्वा वश्च ॥ कुपिन्दकुविन्दौ तन्तुवाये ।
4-87 नौ षञ्जेर्घथिन् ॥ निषङ्गथिरालिङ्गकः ।
4-88 उद्यर्तेश्चित् ॥ उदरथिः समुद्रः ।
4-89 सर्तेर्णिच्च ॥ सारथिः ।
4-90 खर्जिपिञ्जादिभ्य ऊरोलचौ ॥ खर्जूरः । कर्पूरः । वल्लूरं शुष्कमांसम् । पिञ्जूलं कुशवर्तिः । लङ्गेर्वृद्धिश्च ॥ लाङ्गूलम् । कुसूलः । तमेर्बुग्वृद्धिश्च । ताम्बूलम् । शृणातेर्दुग्वृद्धिश्च । शार्दूलः । दुक्वोः कुक्च । दुकूलम् । कुकूलम् ।
4-91 कुवश्चट् दीर्घश्च ॥ कूची चित्रलेखनिका ।
4-92 समीणः ॥ समीचः समुद्रः । समीची हरिणी ।
4-93 सिवेष्टेरू च ॥ सूचो दर्भाङ्कुरः । सूची ।
4-94 शमेर्बन् ॥ शम्बो मुसलम् ।
4-95 उल्बादयश्च ॥ बन्नन्ता निपात्यन्ते । उच समवाये । चस्य लत्वं गुणाभावश्च । उल्बो गर्भाशयः । शुल्बं ताम्रम् । बिम्बम् ।
4-96 स्थः स्तोऽम्बजबकौ ॥ तिष्ठतेरम्बच् अबक एतौ स्तस्तादेशश्च । स्तम्बो गुच्छस्तृणादिनः । स्तबकः पुष्पगुच्छः ।
4-97 शाशपिभ्यां ददनौ ॥ शादो जम्बालशष्पयोः ।
4-98 अब्दादयश्च ॥ शब्दः । अवतीत्यशब्दः । (ग) कौतेर्नुम् ॥ कुन्दः ।
4-99 वलिमलितनिभ्यः कयन् ॥ वलयम् । मलयः । तनयः ।
4-100 वृह्रोः षुग्दुकौ च ॥ वृषयः आश्रयः । हृदयम् ।
4-101 मिपीभ्यां रुः ॥ मेरुः । पेरुः सूर्यः । बाहुलकात् पिबतेरपि । संवत्सरवपुः पारुः पेरुर्वासीर्दिनप्रणीः ।
4-102 जत्र्वादयश्च ॥ जत्रु जत्रुणी । अश्रु । अश्रुणी ।
4-103 रुशातिभ्यां क्रुन् ॥ रुरुर्मृगभेदः । शातयतीति शत्रुः । प्रज्ञादौ पाठाद्ध्रस्वत्वम् ।
4-104 जनिदाच्युसृवृमदिषमिनमिभृञ्भ्य इत्वन्त्वन्त्नण्क्निन्शक्स्यढडटाटचः ॥ जनित्वौ मातापितरौ । दात्वो दाता । च्यौत्नो गन्ता अण्डजः क्षीणपुण्यश्च । सृणिरङ्कुरशश्चन्द्रः सूर्यो वायुश्च । वृशः आर्द्रकं मूलकं च । मत्स्यः । षण्ढः । डित्वाट्टिलोपः । नमतीति नटः शैलूषः । बिभर्ति भरटः कुलालो भृतकश्च ।
4-105 अन्येभ्योऽपि दृश्यन्ते ॥ पेत्वममृतम् भृशम् ।
4-106 कुसेरुम्भोमेदेताः ॥ कुसुम्भम् । कुसुमम् । कुसीदम् । कुसितो जनपदः ।
4-107 सानसिवर्णसिपणसितण्डुलाङ्कुशचषालेल्वलपल्वलधिष्ण्यशल्याः ॥ सनोतेरसिप्रत्यय उपधावृद्धिः । सानसिर्हिरण्यम् । वृञो नुक् च । वर्णसिर्जलम् । पॄ पर्णसिर्जलग्रहणम् । तड आघाते तण्डुलाः । अकि लक्षणे उशच् । अङ्कुशः । चषेरालच् । चषालो यूपकटकः । इल्वलो दैत्यभेदः । पल्वलम् । ञिधृषा । ऋकारश्च इकारः । धिष्ण्यम् । शलेर्यः शल्यम् । वा पुंसि शल्यं शङ्कुर्ना ।
4-108 मूशक्यबिभ्यः क्लः ॥ मूलम् । शक्लः प्रियंवदे । अम्ब्लो रसः । बाहुलकादमेः । अम्लः ।
4-109 माछाससिभ्यो यः ॥ माया । छाया । सस्यम् । बाहुलकात्सुनोतेः । सव्यं दक्षिणवामयोः ।
4-110 जनेर्यक् ॥ ‘6-4-43 ये विभाषा’ । जन्यं युद्धम् । जाया भार्या ।
4-111 अघ्न्यादयश्च ॥ यगन्ता निपात्यन्ते । हन्तेर्युक् अडागम उपधालोपश्च । अघ्न्या माहेयी । अघ्न्यः प्रजापतिः । कनी दीप्तौ । कन्या । बवयोरैक्यम् । वन्ध्याः ।
4-112 स्नामदिपद्यर्तिपॄशकिभ्यो वनिप् ॥ स्नावा रसिकः । मद्वा शिवः । पद्वा पन्थाः । अर्वा तुरङ्गगर्ह्ययोः । पर्वा ग्रन्थिः प्रस्तावश्च । शक्का हस्ती । ङीब्रौ । शक्करी अङ्गुलिः ।
4-113 शीङ्क्रुशिरुहिजिक्षिसृधृभ्यः क्वनिप् ॥ शीवा अजगरः । क्रुश्वा सृगालः । रुह्वा वृक्षः । जित्वा जेता । क्षित्वा वायुः । सृत्वा प्रजापतिः । धृत्वा विष्णुः ।
4-114 ध्याप्योः संप्रसारणं च ॥ धीवा कर्मकरः । पीवा स्थूलः ।
4-115 अदेर्ध च ॥ अध्वा ।
4-116 प्र ईरशदोस्तुट् च ॥ प्रेर्त्वा प्रशत्वा च सागरः । प्रेत्वरी प्रशत्वरी च नदी ।
4-117 सर्वधातुभ्य इन् ॥ पचिरग्निः । तुडिः । तुण्डिः । वलिः । वटिः । यजिः । देवयजिः । काशत इति काशिः । यतिः । मल्लिः । केलिः । मसी परिणामे । मसिः । बाहुलकाद्गुणः । कोटिः । हेलिः । बोधिः । नन्दिः । कलिः ।
4-118 हृपिषिरुहिवृतिविदिछिदिकीर्तिभ्यश्च ॥ हरिर्विष्णावहाविन्द्रे भेके सिंहे हये रवौ । चन्द्रे कीले प्लवङ्गे च यमे वाते च कीर्तितः । पेषिर्वज्रम् । रोहिर्व्रती । वर्तिः । वेदिः । छदिश्छेत्ता । कीर्तिः ।
4-119 इगुपधात्कित् ॥ कृषिः । ऋषिः । शुचिः । लिपिः । बाहुलकाद्बत्वे लिबिः । तूल निष्कर्षे । तूलिः । तूली कूर्चिका ।
4-120 भ्रमेः संप्रसारणं च ॥ भृमिर्वातः । बाहुलकाद्भ्रमिः ।
4-121 क्रमितमिशतिस्तम्भामत इच्च ॥ क्रिमिः । संप्रसारणानुवृत्तेः कृमिरपि । तिमिर्मत्स्यभेदः । शितिर्मेचकशुक्लयोः । स्तिम्भिः समुद्रः ।
4-122 मनेरुच्च ॥ मुनिः ।
4-123 वर्णेर्बलिश्चाहिरण्ये ॥ वर्णिः सौत्रः । अस्य बलिरादेशः । करोपहारयोः पुंसि बलिः प्राण्यङ्गजे स्त्रियाम् । हिरण्ये तु वर्णिः सुवर्णम् ।
4-124 वसिवपियजिराजिव्रजिसदिहनिनाशिवाशिवारिभ्य इञ् ॥ वासिश्छेदनवस्तुनि । वापिः । वापी । याजिर्यष्टा । राजिः । राजी । व्राजिर्वातालिः । सादिः सारथिः । निघातिर्लोहघातिनी । वाशिरग्निः । वादिर्विद्वान् । वारिर्गजबन्धनी । जले तु क्लीबम् । बाहुलकाद्वारिः पथिकसंहतौ ।
4-125 नहो भश्च ॥ नाभिः स्यात्क्षत्रिये पुंसि । प्राण्यङ्गे तु स्त्रियाम् । पुंस्यपीति केचित् ।
4-126 कृषेर्वृद्धिश्छन्दसि ॥ कार्षिः ।
4-127 श्रः शकुनौ ॥ शारिः । शारिका ।
4-128 कृञ उदीचां कारुषु ॥ कारिः शिल्पी ।
4-129 जनिघसिभ्यामिण् ॥ जनिर्जननम् । घासिर्भक्ष्यमग्निश्च ।
4-130 अज्यतिभ्यां च ॥ आजिः संग्रामः । आतिः पक्षी ।
4-131 पादे च ॥ पदाजिः । पदातिः ।
4-132 अशिपणाय्यो रुडायलुकौ च ॥ अशे रुट् । राशिः पुञ्जः । पणायतेरायलुक् । पाणिः करः ।
4-133 वातेर्डिच्च ॥ विः पक्षी । स्त्रियां वीत्यपि ।
4-134 प्रे हरतेः कूपे ॥ प्रहिः कूपः ।
4-135 नौ व्यो यलोपः पूर्वस्य च दीर्घः ॥ व्येञ इण् स्याद् यलोपश्च नेर्दीर्घः । नीविः । नीवी वस्त्रग्रन्थौ मूलधने च ।
4-136 समाने ख्यः स चोदात्तः ॥ समानशब्दे उपपदे ख्या इत्यस्मादिण् स्यात्स च डिच्च यलोपश्च समानस्य तूदात्तः स इत्यादेशश्च । समानं ख्यायते जनैरिति सखा ।
4-137 आङि श्रिहनिभ्यां ह्रस्वश्च ॥ इण् स्यात्स च डित् आङो ह्रस्वश्च । स्त्रियः पाल्यश्रिकोटयः । सर्पे वृत्रासुरेऽप्यहिः ।
4-138 अच इः ॥ रविः । पविः । तरिः । कविः । अरिः । अलिः ।
4-139 खनिकष्यज्यसिवसिवनिसनिध्वनिग्रन्थिचरिभ्यश्च ॥ खनिः । कषिर्हिंस्रः । अजिः । असिः । वसिर्वस्त्रम् । वनिरग्निः । सनिर्भक्तिर्दानं च । ध्वनिः । ग्रन्थिः । चरिः पशुः ।
4-140 वृतेश्छन्दसि ॥ वर्तिः ।
4-141 भुजेः किच्च ॥ भुजिः ।
4-142 कॄगॄशॄपॄकुटिभिदिछिदिभ्यश्च ॥ इः कित्स्यात् । किरिर्वराहः । गिरिर्गोत्राक्षिरोगयोः । गिरिणा काणः गिरिकाणः । शिरिः शलभो हन्ता च । पुरिर्नगरं राजा नदी च । कुटिः शाला शरीरं च । भिदिर्वज्रम् । छिदिः परशुः ।
4-143 कुडिकम्प्योर्नलोपश्च ॥ कुडि दाहे । कुडिर्देहः । कपिः ।
4-144 सर्वधातुभ्यो मनिन् ॥ क्रियत इति कर्म । चर्म । भस्म । जन्म । शर्म । स्थाम बलम् । ‘6-4-97 इस्मन्-’ इति ह्रस्वः । छद्म । सुत्रामा ।
4-145 बृंहेर्नोच्च ॥ नकारस्याकारः । ब्रह्म तत्वं तपो वेदो ब्रह्मा विप्रः प्रजापतिः ।
4-146 अशिशकिभ्यां छन्दसि ॥ अश्मा । शक्मा ।
4-147 हृभृधृसृस्तृशॄभ्य इमनिच् ॥ हरिमा कालः । भरिमा कुटुम्बम् । धरिमा रूपम् । सरिमा वायुः । स्तरिमा तल्पम् । शरिमा प्रसवः ।
4-148 जनिमृङ्भ्यामिमनिन् ॥ जनिमा जन्म । मरिमा मृत्युः ।
4-149 वेञः सर्वत्र ॥ छन्दसि भाषायां चेत्यर्थः । वेमा तन्तुवायदण्डः । अर्धर्चादिः । सामनी वेमनी इति वृत्तिः ।
4-150 नामन् सीमन् व्योमन् रोमन् लोमन् पाप्मन् ध्यामन् ॥ सप्त अमी निपात्यन्ते । म्नायतेऽनेनेति नाम । सिनोतेर्दीर्घः । सीमा सीमानौ । सीमानः । पक्षे डाप् । सीमे सीमाः । व्येञोऽन्त्यस्योत्वं गुणः । व्योम । रौतेः । रोम । लोम । पाप्मा पापम् । ध्याम परिमाणं तेजश्च ।
4-151 मिथुने मनिः ॥ उपसर्गक्रियासंबन्धो मिथुनम् । स्वरार्थमिदम् । सुशर्मा ।
4-152 सातिभ्यां मनिन्मनिणौ ॥ स्यति । साम । सामनी । आत्मा ।
4-153 हनिमशिभ्यां सिकन् ॥ हंसिका हंसयोषिति । मक्षिका ।
4-154 कोररन् ॥ कवरः ।
4-155 गिर उडच् ॥ गरुडः ।
4-156 इन्देः कमिन्नलोपश्च ॥ इदम् ।
4-157 कायतेर्डिमिः ॥ किम् ।
4-158 सर्वधातुभ्यः ष्ट्रन् ॥ वस्त्रम् । अस्त्रम् । शस्त्रम् । ‘6-4-97 इस्मन्-’ इति ह्रस्वत्वम् । छादनाच्छत्रम् ।
4-159 भ्रस्जिगमिनमिहनिविश्यशां वृद्धिश्च ॥ भ्राष्ट्रः । गात्रं शकटम् । नान्त्रं स्तोत्रम् । हान्त्रं मरणम् । वैष्ट्रं विष्टपम् । आष्ट्रमाकाशम् ।
4-160 दिवेर्द् युच्च ॥ द्यौत्रम् ।
4-161 उषिखनिभ्यां कित् ॥ उष्ट्रः । खात्रं खनित्रं जलाधारश्च ।
4-162 सिविमुच्योष्टेरू च ॥ सूत्रम् । मूत्रम् ।
4-163 अमिचिमिदिशसिभ्यः क्त्रः ॥ आन्त्रम् । दित्रम् । मित्रम् । शस्त्रम् ।
4-164 पुवो ह्रस्वश्च ॥ पुत्रः ।
4-165 स्त्यायतेर्डट् ॥ स्त्री ।
4-166 गुधृवीपचिवचियमिसदिक्षदिभ्यस्त्रः ॥ गोत्रं स्यान्नामवंशयोः । गोत्रा प्रुथिवी । धर्त्रं गृहम् । वेत्रम् । पक्त्रम् । वक्त्रम् । यन्त्रम् । सन्त्रम् । क्षन्त्रम् ।
4-167 हुयामाश्रुभसिभ्यस्त्रन् ॥ होत्रम् । यात्रा । मात्रा । श्रोत्रम् । भस्त्रा ।
4-168 गमेरा च ॥ गात्रम् ।
4-169 दादिभ्यच्छन्दसि ॥ दात्रम् । पात्रम् ।
4-170 भूवादिगॄभ्यो णित्रन् ॥ भावित्रम् । वादित्रम् । गादित्रमोदनम् ।
4-171 चरेर्वृत्ते ॥ चारित्रम् ।
4-172 अशित्रादिभ्य इत्रोत्रौ ॥ अशित्रम् । वहित्रम् । धरित्री मही । त्रैङ् एवमादिभ्य उत्रः । तोत्रं प्रहरणम् । वृञ् वरुत्रं प्रावरणम् ।
4-173 अमेर्द्विषति चित् ॥ अमित्रः शत्रुः ।
4-174 आः समिण्निकशिभ्याम् ॥ संपूर्वादिणो निपूर्वात्कषेश्च आ स्यात् । स्वरादित्वादव्ययत्वम् । समया । निकषा ।
4-175 चित्तेः कणः कश्च ॥ बाहुलकादगुणः । चिक्कणं मसृणं स्निग्धम् ।
4-176 सूचेः स्मन् ॥ सूक्ष्मम् ।
4-177 पातेर्डुम्सुन् ॥ पुमान् ।
4-178 रुचिभुजिभ्यां किष्यन् ॥ रुचिष्यमिष्टम् । भुजिष्यो दासः ।
4-179 वसेस्तिः ॥ वस्तिर्नाभेरधो द्वयोः । वस्तयः स्युर्दशासूत्रे । बाहुलकात् शासः शास्तिः राजदण्डः । विन्ध्याख्यमगमस्यतीत्यगस्तिः । शकन्ध्वादिः ।
4-180 सावसेः ॥ स्वस्ति । स्वरादिपाठादव्ययत्वम् ।
4-181 वौ तसेः ॥ वितस्तिः ।
4-182 पदिप्रथिभ्यां नित् ॥ पत्तिः । प्रथितिः ।
4-183 तितुत्रेष्वग्रहादीनामितीट् दृणातेर्ह्रस्वश्च ॥ दृतिः ।
4-184 कॄतॄकृपिभ्यः कीटन् ॥ किरीटं शिरोवेष्टनम् । तिरीटं सुवर्णम् । कृपीटं कुक्षिवारिणोः ।
4-185 रुचिवचिकुचिकुटिभ्यः कितच् ॥ रुचितमिष्टम् । उचितम् । कुचितं परिमितम् ॥ कुटितं कुटिलम् ।
4-186 कुटिकुषिभ्यां क्मलन् ॥ कुड्मलम् । कुष्मलम् ।
4-187 कुषेर्लश्च ॥ कुल्मलं पापम् ।
4-188 सर्वधातुभ्योऽसुन् ॥ चेतः । सरः । पयः । सदः ।
4-189 रपेरत एच्च ॥ रेपोऽवद्यम् ।
4-190 अशेर्देवने युट् च ॥ देवने स्तुतौ । यशः ।
4-191 उब्जेर्बले बलोपश्च ॥ ओजः ।
4-192 श्वेः सम्प्रसारणं च ॥ शवः । शवसी । बालपर्यायोऽयम् ।
4-193 श्रयतेः स्वाङ्गे शिरः किच्च ॥ श्रयतेः शिरआदेशोऽसुन् किच्च । शिरः । शिरसी ।
4-194 अर्तेरुच्च ॥ उरः ।
4-195 व्याधौ शुट् ॥ अर्शो गुदव्याधिः ।
4-196 उदके नुट् च ॥ अर्तेरसुन् स्यात्तस्य च नुट् । अर्णः । अर्णसी ।
4-197 इण आगसि ॥ एनः ।
4-198 रिचेर्धने घिच्च ॥ चात्प्रत्ययस्य नुट् । घित्त्वात्कुत्वम् । रेक्णः सुवर्णम् ।
4-199 चायतेरन्ने ह्रस्वश्च ॥ चनो भक्तम् ।
4-200 वृङ्शीङ्भ्यां रूपस्वाङ्गयोः पुट् च ॥ वर्पो रूपम् । शेपो गुह्यम् ।
4-201 स्रुरीभ्यां तुट् च ॥ स्रोतः । रेतः ।
4-202 पातेर्बले जुट् च ॥ पाजः । पाजसी ।
4-203 उदके थुट् च ॥ पाथः ।
4-204 अन्ने च ॥ पाथो भक्तम् ।
4-205 अदेर्नुम् धौ च ॥ अदेर्भक्ते वाच्येऽसुन् नुमागमो धादेशश्च । अन्धोऽन्नम् ।
4-206 स्कन्देश्च स्वाङ्गे ॥ स्कन्दः । स्कन्दसी ।
4-207 आपः कर्माख्यायाम् ॥ कर्माख्यायां ह्रस्वो नुट् च वा । अप्नः । अपः । बाहुलकात् । आपः । आपसी ।
4-208 रूपे जुट् च ॥ अब्जो रूपम् ।
4-209 उदके नुम्भौ च ॥ अम्भः ।
4-210 नहेर्दिवि भश्च ॥ नभः ।
4-211 इण आग अपराधे च ॥ आगः पापापराधयोः ।
4-212 अमेर्हुक्च ॥ अंहः ।
4-213 रमेश्च ॥ रंहः ।
4-214 देशे ह च ॥ रमन्तेऽस्मिन् रहः ।
4-215 अञ्च्यञ्जियुजिभृजिभ्यः कुञ्च ॥ एभ्योऽसुन् कवर्गश्चान्तादेशः । अङ्कश्चिह्नशरीरयोः । अङ्गः पक्षी । योगः समाधिः । भर्गस्तेजः ।
4-216 भूरञ्जिभ्यां कित् ॥ भुवः । रजः ।
4-217 वसेर्णित् ॥ वासो वस्त्रम् ।
4-218 चन्देरादेश्च छः ॥ छन्दः ।
4-219 पचिवचिभ्यां सुट् च ॥ पक्षसी तु स्मृतौ पक्षौ । वक्षो हृदयम् ।
4-220 वहिहाधाञ्भ्यश्छन्दसि ॥ वक्षाः अनड्वान् । हासाश्चन्द्रः । धासाः पर्वत इति प्राञ्चः । वस्तुतस्तु णिदित्यनुवर्तते न तु सुट् । तेन वहेरुपधावृद्धिः । इतरयोः ’आतो युक् – ७-३-३३’ इति युक् । शोणा धृष्णू नृवाहसा । श्रोता हवं गृणतः स्तोमवाहाः । विश्वो विहायाः । वाजम्भरो विहायाः । देवो न यः पृथिवीं विश्वधायाः । अधारयत् पृथिवीं विश्वधायसम् । धर्णसिं भूरिधायसमित्यादिः ।
4-221 इण आसिः ॥ अयाः वह्निः । स्वरादिपाठादव्ययत्वम् ।
4-222 मिथुनेऽसिः पूर्ववच्च सर्वम् ॥ उपसर्गविशिष्टो धातुर्मिथुनं तन्नासुनोऽपवादोऽसिः । स्वरार्थः ।
4-223 नञि हन एह च ॥ अनेहाः । अनेहसौ ।
4-224 विधाञो वेध च ॥ विदधातीति वेधाः ।
4-225 नुवो धुट् च ॥ नोधाः ।
4-226 गतिकारकोपपदयोः पूर्वपदप्रकृतिस्वरत्वं च ॥ असिः स्यात् । सुतपाः । जातवेदाः । ’6-2-139 गतिकारकोपदात् कृत्’ इत्युत्तरपदप्रकृतिस्वरत्वे सति शेषस्यानुदात्तत्वे प्राप्ते तदपवादार्थमिदम् ।
4-227 चन्द्रे मो डित् ॥ चन्द्रोपपदान्माङोऽसिः स्यात्स च डित् । चन्द्रमाः ।
4-228 वयसि धाञः ॥ वयोधास्तरुणः ।
4-229 पयसि च ॥ पयोधाः समुद्रो मेघश्च ।
4-230 पुरसि च ॥ पुरोधाः ।
4-231 पुरूरवाः ॥ पुरुशब्दस्य दीर्घो रौतेरसिश्च निपात्यते ।
4-232 चक्षेर्बहुलं शिच्च ॥ नृचक्षाः ।
4-233 उषः कित् ॥ उषः ।
4-234 दमेरुनसिः ॥ सप्तार्चिर्दमुनाः ।
4-235 अङ्गतेरसिरि रुडागमश्च ॥ अङ्गिराः ।
4-236 सर्तेरप्पूर्वादसिः ॥ अप्सराः । प्रायेणायं भूम्नि । अप्सरसः ।
4-237 विदिभुजिभ्यां विश्वे ॥ विश्ववेदाः । विश्वभोजाः ।
4-238 वशेः कनसिः ॥ सम्प्रसारणम् । उशनाः ॥
॥ इत्युणादिषु चतुर्थः पादः ॥