ब्रह्मक्षत्रियविट्शूद्रा वर्णास्त्वाद्यास्त्रयो द्विजाः । निषेकाद्याः श्मशानान्तास्तेषां वै मन्त्रतः क्रियाः । । १.१० । । |
गर्भाधानं ऋतौ पुंसः सवनं स्पन्दनात्पुरा । षष्ठेऽष्टमे वा सीमन्तो मास्येते जातकर्म च । । १.११ । । |
अहन्येकादशे नाम चतुर्थे मासि निष्क्रमः । षष्ठेऽन्नप्राशनं मासि चूडा कार्या यथाकुलम् । । १.१२ । । |
एवं एनः शमं याति बीजगर्भसमुद्भवम् । तूष्णीं एताः क्रियाः स्त्रीणां विवाहस्तु समन्त्रकः । । १.१३ । । |
गर्भाष्टमेऽष्टमे वाब्दे ब्राह्मणस्योपनायनम् । राज्ञां एकादशे सैके विशां एके यथाकुलम् । । १.१४ । । |
उपनीय गुरुः शिष्यं महाव्याहृतिपूर्वकम् । वेदं अध्यापयेदेनं शौचाचारांश्च शिक्षयेत् । । १.१५ । । |
दिवासंध्यासु कर्णस्थ ब्रह्मसूत्रोदङ्मुखः । कुर्यान्मूत्रपुरीषे च रात्रौ चेद्दक्षिणामुखः । । १.१६ । । |
गृहीतशिश्नश्चोत्थाय मृद्भिरभ्युद्धृतैर्जलैः । गन्धलेपक्षयकरं शौचं कुर्यादतन्द्रितः । । १.१७ । । |
अन्तर्जानु शुचौ देश उपविष्ट उदङ्मुखः । प्राग्वा ब्राह्मेण तीर्थेन द्विजो नित्यं उपस्पृशेत् । । १.१८ । । |
कनिष्ठादेशिन्यङ्गुष्ठ मूलान्यग्रं करस्य च । प्रजापतिपितृब्रह्म देवतीर्थान्यनुक्रमात् । । १.१९ । । |
त्रिः प्राश्यापो द्विरुन्मृज्य खान्यद्भिः समुपस्पृशेत् । अद्भिस्तु प्रकृतिस्थाभिर्हीनाभिः फेनबुद्बुदैः । । १.२० । । |
हृत्कण्ठतालुगाभिस्तु यथासंख्यं द्विजातयः । शुध्येरन्स्त्री च शूद्रश्च सकृत्स्पृष्टाभिरन्ततः । । १.२१ । । |
स्नानं अब्दैवतैर्मन्त्रैर्मार्जनं प्राणसंयमः । सूर्यस्य चाप्युपस्थानं गायत्र्याः प्रत्यहं जपः । । १.२२ । । |
गायत्रीं शिरसा सार्धं जपेद्व्याहृतिपूर्विकाम् । प्रतिप्रणवसंयुक्तां त्रिरयं प्राणसंयमः । । १.२३ । । |
प्राणानायम्य संप्रोक्ष्य तृचेनाब्दैवतेन तु । जपन्नासीत सावित्रीं प्रत्यगातारकोदयात् । । १.२४ । । |
संध्यां प्राक्प्रातरेवं हि तिष्ठेदासूर्यदर्शनात् । अग्निकार्यं ततः कुर्यात्संध्ययोरुभयोरपि । । १.२५ । । |
ततोऽभिवादयेद्वृद्धानसावहं इति ब्रुवन् । गुरुं चैवाप्युपासीत स्वाध्यायार्थं समाहितः । । १.२६ । । |
आहूतश्चाप्यधीयीत लब्धं चास्मै निवेदयेत् । हितं तस्याचरेन्नित्यं मनोवाक्कायकर्मभिः । । १.२७ । । |
कृतज्ञाद्रोहिमेधावि शुचिकल्यानसूयकाः । अध्याप्या धर्मतः साधु शक्ताप्तज्ञानवित्तदाः । । १.२८ । । |
दण्डाजिनोपवीतानि मेखलां चैव धारयेत् । ब्राह्मणेषु चरेद्भैक्षं अनिन्द्येष्वात्मवृत्तये । । १.२९ । । |
आदिमध्यावसानेषु भवच्छब्दोपलक्षिता । ब्राह्मणक्षत्रियविशां भैक्षचर्या यथाक्रमम् । । १.३० । । |
कृताग्निकार्यो भुञ्जीत वाग्यतो गुर्वनुज्ञया । आपोशानक्रियापूर्वं सत्कृत्यान्नं अकुत्सयन् । । १.३१ । । |
ब्रह्मचर्ये स्थितो नैकं अन्नं अद्यादनापदि । ब्राह्मणः कामं अश्नीयाच्छ्राद्धे व्रतं अपीडयन् । । १.३२ । । |
मधुमांसाञ्जनोच्छिष्ट शुक्तस्त्रीप्राणिहिंसनम् । भास्करालोकनाश्लील परिवादादि वर्जयेत् । । १.३३ । । |
स गुरुर्यः क्रियाः कृत्वा वेदं अस्मै प्रयच्छति । उपनीय ददद्वेदं आचार्यः स उदाहृतः । । १.३४ । । |
एकदेशं उपाध्याय ऋत्विग्यज्ञकृदुच्यते । एते मान्या यथापूर्वं एभ्यो माता गरीयसी । । १.३५ । । |
प्रतिवेदं ब्रह्मचर्यं द्वादशाब्दानि पञ्च वा । ग्रहणान्तिकं इत्येके केशान्तश्चैव षोडशे । । १.३६ । । |
आषोडशादाद्वाविंशाच्चतुर्विंशाच्च वत्सरात् । ब्रह्मक्षत्रविशां कालौपनायनिकः परः । । १.३७ । । |
अत ऊर्ध्वं पतन्त्येते सर्वधर्मबहिष्कृताः । सावित्रीपतिता व्रात्या व्रात्यस्तोमादृते क्रतोः । । १.३८ । । |
मातुर्यदग्रे जायन्ते द्वितीयं मौञ्जिबन्धनात् । ब्राह्मणक्षत्रियविशस्तस्मादेते द्विजाः स्मृताः । । १.३९ । । |
यज्ञानां तपसां चैव शुभानां चैव कर्मणाम् । वेद एव द्विजातीनां निःश्रेयसकरः परः । । १.४० । । |
मधुना पयसा चैव स देवांस्तर्पयेद्द्विजः । पितॄन्मधुघृताभ्यां च ऋचोऽधीते च योऽन्वहम् । । १.४१ । । |
यजूंषि शक्तितोऽधीते योऽन्वहं स घृतामृतैः । प्रीणाति देवानाज्येन मधुना च पितॄंस्तथा । । १.४२ । । |
स तु सोमघृतैर्देवांस्तर्पयेद्योऽन्वहं पठेत् । सामानि तृप्तिं कुर्याच्च पितॄणां मधुसर्पिषा । । १.४३ । । |
मेदसा तर्पयेद्देवानथर्वाङ्गिरसः पठन् । पितॄंश्च मधुसर्पिर्भ्यां अन्वहं शक्तितो द्विजः । । १.४४ । । |
वाकोवाक्यं पुराणं च नाराशंसीश्च गाथिकाः । इतिहासांस्तथा विद्याः शक्त्याधीते हि योऽन्वहम् । । १.४५ । । |
मांसक्षीरौदनमधु तर्पणं स दिवौकसाम् । करोति तृप्तिं कुर्याच्च पितॄणां मधुसर्पिषा । । १.४६ । । |
ते तृप्तास्तर्पयन्त्येनं सर्वकामफलैः शुभैः । यं यं क्रतुं अधीते च तस्य तस्याप्नुयात्फलम् । । १.४७ । । |
त्रिर्वित्तपूर्णपृथिवी दानस्य फलं अश्नुते । तपसश्च परस्येह नित्यं स्वाध्यायवान्द्विजः । । १.४८ । । |
नैष्ठिको ब्रह्मचारी तु वसेदाचार्यसंनिधौ । तदभावेऽस्य तनये पत्न्यां वैश्वानरेऽपि वा । । १.४९ । । |
अनेन विधिना देहं सादयन्विजितेन्द्रियः । ब्रह्मलोकं अवाप्नोति न चेहाजायते पुनः । । १.५० । । |