अशीतिभागो वृद्धिः स्यान्मासि मासि सबन्धके । वर्णक्रमाच्छतं द्वित्रि चतुष्पञ्चकं अन्यथा । । २.३७ । । |
कान्तारगास्तु दशकं सामुद्रा विंशकं शतम् । दद्युर्वा स्वकृतां वृद्धिं सर्वे सर्वासु जातिषु । । २.३८ । । |
संततिस्तु पशुस्त्रीणां रसस्याष्टगुणा परा । वस्त्रधान्यहिरण्यानां चतुस्त्रिद्विगुणा परा । । २.३९ । । |
प्रपन्नं साधयन्नर्थं न वाच्यो नृपतेर्भवेत् । साध्यमानो नृपं गच्छन्दण्ड्यो दाप्यश्च तद्धनम् । । २.४० । । |
गृहीतानुक्रमाद्दाप्यो धनिनां अधमर्णिकः । दत्त्वा तु ब्राह्मणायैव नृपतेस्तदनन्तरम् । । २.४१ । । |
राज्ञाधमर्णिको दाप्यः साधिताद्दशकं शतम् । पञ्चकं च शतं दाप्यः प्राप्तार्थो ह्युत्तमर्णिकः । । २.४२ । । |
हीनजातिं परिक्षीणं ऋणार्थं कर्म कारयेत् । ब्राह्मणस्तु परिक्षीणः शनैर्दाप्यो यथोदयम् । । २.४३ । । |
दीयमानं न गृह्णाति प्रयुक्तं यः स्वकं धनम् । मध्यस्थस्थापितं चेत्स्याद्वर्धते न ततः परम् । । २.४४ । । |
अविभक्तैः कुटुम्बार्थे यदृणं तु कृतं भवेत् । दद्युस्तद्रिक्थिनः प्रेते प्रोषिते वा कुटुम्बिनि । । २.४५ । । |
न योषित्पतिपुत्राभ्यां न पुत्रेण कृतं पिता । दद्यादृते कुटुम्बार्थान्न पतिः स्त्रीकृतं तथा । । २.४६ । । |
सुराकामद्यूतकृतं दण्डशुल्कावशिष्टकम् । वृथादानं तथैवेह पुत्रो दद्यान्न पैतृकम् । । २.४७ । । |
गोपशौण्डिकशैलूष रजकव्याधयोषिताम् । ऋणं दद्यात्पतिस्तेषां यस्माद्वृत्तिस्तदाश्रया । । २.४८ । । |
प्रतिपन्नं स्त्रिया देयं पत्या वा सह यत्कृतम् । स्वयंकृतं वा यदृणं नान्यत्स्त्री दातुं अर्हति । । २.४९ । । |
पितरि प्रोषिते प्रेते व्यसनाभिप्लुतेऽपि वा । पुत्रपौत्रैरृणं देयं निह्नवे साक्षिभावितम् । । २.५० । । |
रिक्थग्राह ऋणं दाप्यो योषिद्ग्राहस्तथैव च । पुत्रोऽनन्याश्रितद्रव्यः पुत्रहीनस्य रिक्थिनः । । २.५१ । । |
भ्रातॄणां अथ दंपत्योः पितुः पुत्रस्य चैव हि । प्रातिभाव्यं ऋणं साक्ष्यं अविभक्ते न तु स्मृतम् । । २.५२ । । |
दर्शने प्रत्यये दाने प्रातिभाव्यं विधीयते । आद्यौ तु वितथे दाप्यावितरस्य सुता अपि । । २.५३ । । |
दर्शनप्रतिभूर्यत्र मृतः प्रात्ययिकोऽपि वा । न तत्पुत्रा ऋणं दद्युर्दद्युर्दानाय यः स्थितः । । २.५४ । । |
बहवः स्युर्यदि स्वांशैर्दद्युः प्रतिभुवो धनम् । एकच्छायाश्रितेष्वेषु धनिकस्य यथारुचि । । २.५५ । । |
प्रतिभूर्दापितो यत्तु प्रकाशं धनिनो धनम् । द्विगुणं प्रतिदातव्यं ऋणिकैस्तस्य तद्भवेत् । । २.५६ । । |
संततिः स्त्रीपशुष्वेव धान्यं त्रिगुणं एव च । वस्त्रं चतुर्गुणं प्रोक्तं रसश्चाष्टगुणस्तथा । । २.५७ । । |
आधिः प्रणश्येद्द्विगुणे धने यदि न मोक्ष्यते । काले कालकृतो नश्येत्फलभोग्यो न नश्यति । । २.५८ । । |
गोप्याधिभोगे नो वृद्धिः सोपकारे च हापिते । नष्टो देयो विनष्टश्च दैवराजकृतादृते । । २.५९ । । |
आधेः स्वीकरणात्सिद्धी रक्ष्यमाणोऽप्यसारताम् । यातश्चेदन्य आधेयो धनभाग्वा धनी भवेत् । । २.६० । । |
चरित्रबन्धककृतं स वृद्ध्या दापयेद्धनम् । सत्यंकारकृतं द्रव्यं द्विगुणं प्रतिदापयेत् । । २.६१ । । |
उपस्थितस्य मोक्तव्य आधिः स्तेनोऽन्यथा भवेत् । प्रयोजकेऽसति धनं कुले न्यस्याधिं आप्नुयात् । । २.६२ । । |
तत्कालकृतमूल्यो वा तत्र तिष्ठेदवृद्धिकः । विना धारणकाद्वापि विक्रीणीत ससाक्षिकम् । । २.६३ । । |
यदा तु द्विगुणीभूतं ऋणं आधौ तदा खलु । मोच्य आधिस्तदुत्पन्ने प्रविष्टे द्विगुणे धने । । २.६४ । । |