अथ पुंनपुंसकाधिकारः

178 पुंनपुंसकयोः ।

179 घृत भूत मुस्त क्ष्वेलितैरावत पुस्तक बुस्त लोहिताः ।

180 शृङ्गार्घ निदाघोद्यम शल्य दृढाः ।

181 व्रज कुञ्ज कुथ कूर्च प्रस्थ दर्पार्मा(र्भा)र्धर्च दर्भ पुच्छाः ।

182 कबन्धौषधायुधान्ताः ।

183 दण्ड मण्ड खण्ड शव सैन्धव पाश्र्वाकाश कुश कीशाङ्कुश कुलिशाः ।

184 गृह मेह देह पट्ट पटहाष्टापदाम्बुद ककुदाश्च ।

इति पुंनपुंसकाधिकारः ।।


185 अवशिष्ट लिङ्गम् ।

186 अव्ययम् कति युष्मदस्मदः । ।

187 ष्णान्ता संख्या । (शिष्टा परवत् । ) ।

188 गुण वचनम् च । ।

189 कृत्याश्च । (3.3.171) ।

190 करणाधिकरणयोल्र्युट् च । (3.3.117) ।

191 सर्वादीनि सर्वनामानि ।।

इति लिङ्गानुशासनम् समाप्तम् ।।