ऊनं वाभ्यधिकं वापि लिखेद्यो राजशासनम् । पारदारिकचौरं वा मुञ्चतो दण्ड उत्तमः । । २.२९५ । । |
अभक्ष्येण द्विजं दूष्यो दण्ड्य उत्तमसाहसम् । मध्यमं क्षत्रियं वैश्यं प्रथमं शूद्रं अर्धिकम् । । २.२९६ । । |
कूटस्वर्णव्यवहारी विमांसस्य च विक्रयी । त्र्यङ्गहीनस्तु कर्तव्यो दाप्यश्चोत्तमसाहसम् । । २.२९७ । । |
चतुष्पादकृतो दोषो नापेहीति प्रजल्पतः । काष्ठलोष्टेषुपाषाण बाहुयुग्यकृतस्तथा । । २.२९८ । । |
छिन्ननस्येन यानेन तथा भग्नयुगादिना । पश्चाच्चैवापसरता हिंसने स्वाम्यदोषभाक् । । २.२९९ । । |
शक्तोऽप्यमोक्षयन्स्वामी दंष्ट्रिणां शृङ्गिणां तथा । प्रथमं साहसं दद्याद्विक्रुष्टे द्विगुणं तथा । । २.३०० । । |
जारं चौरेत्यभिवदन्दाप्यः पञ्चशतं दमम् । उपजीव्य धनं मुञ्चंस्तदेवाष्टगुणीकृतम् । । २.३०१ । । |
राज्ञोऽनिष्टप्रवक्तारं तस्यैवाक्रोशकारिणम् । तन्मन्त्रस्य च भेत्तारं छित्त्वा जिह्वां प्रवासयेत् । । २.३०२ । । |
मृताङ्गलग्नविक्रेतुर्गुरोस्ताडयितुस्तथा । राजयानासनारोढुर्दण्ड उत्तमसाहसः । । २.३०३ । । |
द्विनेत्रभेदिनो राज द्विष्टादेशकृतस्तथा । विप्रत्वेन च शूद्रस्य जीवतोऽष्टशतो दमः । । २.३०४ । । |
दुर्दृष्टांस्तु पुनर्दृष्ट्वा व्यवहारान्नृपेण तु । सभ्याः सजयिनो दण्ड्या विवादाद्द्विगुणं दमम् । । २.३०५ । । |
यो मन्येताजितोऽस्मीति न्यायेनापि पराजितः । तं आयान्तं पुनर्जित्वा दापयेद्द्विगुणं दमम् । । २.३०६ । । |
राज्ञान्यायेन यो दण्डो गृहीतो वरुणाय तम् । निवेद्य दद्याद्विप्रेभ्यः स्वयं त्रिंशद्गुणीकृतम् । । २.३०७ । । |