अव उपसर्ग
अव । विज्ञानावलंबने शुद्धीषदर्थव्याप्तिपरिभववियोगेषु अवेत्ययमुपसर्ग एतेष्वर्थेषु वर्तते ।
विज्ञाने अवगतोऽर्थः ।अवलंबने अवष्टभ्य यष्टिं गच्छति ।
शुद्धौ अवदात्तं मुखम् ।
ईषदर्थे अवभुक्तम् ।
व्याप्तौ अवकीर्णं पांशुभिः ।
परिभवे अवहसति ।
वियोगे अवमुक्ता कान्ता ॥ ६ ॥