प्रथमो पादः

1-1 कृवापाजिमिस्वदिसाध्यशूभ्य उण् ॥ करोतीति कारुः शिल्पी कारकश्च । ’7-3-33 आतो युक्…’ वातीति वायुः । पायुर्गुदम् । जयत्यभिभवति रोगान् जायुरौषधम् । मिनोति प्रक्षिपति देहे ऊष्माणमिति मायुः पित्तम् । स्वादुः । साध्नोति परकार्यं साधुः । अश्नुते आशु शीघ्रम् । आशुर्व्रीहिः पाटलः स्यात् ।

1-2 छन्दसीणः ॥ मा न आयौ ।

1-3 दॄसनिजनिचरिचटिभ्यो ञुण् ॥ दीर्यत इति दारु । स्नुः प्रस्थः सानुरस्त्रियाम् । जानु । जानुनी । इह ’7-3-35 जनिवध्योश्च’ इति न निषेधः । अनुबन्धद्वयसामर्थ्यात् । चारु रम्यम् । चाटु प्रियं वाक्यम् । मृगय्वादित्वात्कुप्रत्यये चटु इत्यपि ।

1-4 किञ्जरयोः श्रिणः ॥ किं शृणोतीति किंशारुः सस्यशूकं बाणश्च । जरामेति जरायुर्गर्भाशयः । गर्भाशयो जरायुः स्यात् ।

1-5 त्रो रश्च लः ॥ तरन्त्यनेन वर्णा इति तालुः ।

1-6 कृके वचः कश्च ॥ कृकेन गलेन वक्तीति कृकवाकुः । ’कृकवाकुर्मयूरे च सरटे चरणायुधे’ इति विश्वः ।

1-7 भृमृशीतॄचरित्सरितनिधनिमिमस्जिभ्य उः ॥ भरति बिभर्ति वा भरुः, स्वामी हरश्च । म्रियन्तेऽस्मिन्भूतानि मरुर्निर्जलदेशः । शेते शयुरजगरः । तरुर्वृक्षः । चरन्ति भक्षयन्ति देवता इममिति चरुः । त्सरुः खड्गादिमुष्टिः । तनु स्वल्पम् । तन्यते कर्मपाशोऽनया इति तनुः, शरीरं च । स्त्रियां मूर्तिस्तनुस्तनूः । धनुः शस्त्रविशेषः । धनुषा च धनुं विदुः । धनुरिवाजनि वक्र इति श्रीहर्षः । मयुः किंनरः । मद्गुः पानीयकाकिकेति रभसः । न्यङ्क्वादित्वात्कुत्वम् जश्त्वेन सस्य दः ।

1-8 अणश्च ॥ लवलेशकणाणवः । चात्कटिवटिभ्याम् । कटति रसनां कटुः । वटतीति वटुः ।

1-9 धान्ये नित् ॥ धान्ये वाच्येऽण उप्रत्ययः स्यात् स च नित् । नित्त्वादाद्युदात्तः । प्रियङ्गवश्च मेऽणवश्च मे । व्रीहिभेदस्त्वणुः पुमान् । निद्ग्रहणं फलिपाटीत्यादिसूत्रमभिव्याप्य संबध्यते ।

1-10 शॄस्वृस्निहित्रप्यसिवसिहनिक्लिदिबन्धिमनिभ्यश्च ॥ शृणातीति शरुः । शरुरायुधकोपयोः । स्वर्यन्ते प्राणा अनेन स्वरुर्वज्रम् । स्नेहुर्व्याधिः । चन्द्र इत्यन्ये । त्रपु सीसम् । पुंसि भूम्न्यसवः प्राणाः । वसुर्ह्रदेऽग्नौ योक्त्रेंऽशौ वसु तोये धने मणौ । हनुर्वक्त्रैकदेशः । क्लेदुश्चन्द्रः । बन्धुः । मनुः । चात् बिदि अवयवे । बिन्दुः ।

1-11 स्यन्देः संप्रसारणं धश्च ॥ देशे नदविशेषेऽब्धौ सिन्धुर्ना सरिति स्त्रियामित्यमरः ।

1-12 उन्देरिच्चादेः ॥ उनत्ति इन्दुः ।

1-13 । ईषेः किच्च ॥ ईषेरुः स्यात्स च कित् आदेरिकारादेशश्च । ईषते हिनस्ति इषुः शरः । इषुर्द्वयोः ।

1-14 स्कन्देः सलोपश्च ॥ कन्दुः ।

1-15 सृजेरसुम् च ॥ चात्सलोप उप्रत्ययश्च । रज्जुः ।

1-16 कृतेराद्यन्तविपर्ययश्च ॥ ककारतकारयोर्विनिमयः । तर्कुः सूत्रवेष्टनम् ।

1-17 नावञ्चेः ॥ न्यङ्क्वादित्वात्कुत्वम् । नियतमञ्चति न्यङ्कुर्मृगः ।

1-18 फलिपाटिनमिमनिजनां गुक्पटिनाकिधतश्च ॥ फलेर्गुक् । फल्गु । पाटेः पटिः । पाटयतीति पटुः । नम्यतेऽनेन नाकुर्वल्मीकम् । मन्यते इति मधु । जायते इति जतु ।

1-19 वलेर्गुक्च ॥ वल संवरणे ।

1-20 शः कित्सन्वच्च ॥ श्यतेरुः स्यात्स च कित्सन्वच्च । शिशुर्बालः ।

1-21 यो द्वे च ॥ ययुरश्वोऽश्वमेधीयः । सन्वदिति प्रकृते द्वेग्रहणमित्वनिवृत्त्यर्थम् ।

1-22 कुर्भ्रश्च ॥ बभ्रुर्मुन्यन्तरे विष्णौ बभ्रू नकुलपिङ्गलौ । चादन्यतोऽपि । चक्रुः कर्ता । जघ्नुर्हन्ता । पपुः पालकः ।

1-23 पॄभिदिव्यधिगृधिधृषिभ्यः ॥ कुः स्यात् । पुरुः । भिनत्ति भिदुर्वज्रम् । ’6-1-16 ग्रहिज्या- ‘ इति संप्रसारणम् । विरहिणं विध्यति विधुः । विधुः शशाङ्के कर्पूरे हृषीकेशे च राक्षसे । गृधुः कामः । धृषुर्दक्षः ।

1-24 कृग्रोरुच्च ॥ करोतीति कुरुः । गृणाति गुरुः ।

1-25 । अपदुःसुषु स्थः ॥ ’8-3-98 सुषामादिषु च- ‘ इति षत्वम् । अपष्ठु प्रतिकूलम् । दुष्ठु । सुष्ठु ।

1-26 रपेरिच्चोपधायाः ॥ अनिष्टं रपतीति रिपुः ।

1-27 अर्जिदृशिकम्यमिपशियाधामृजिपसितुक्धुक्दीर्घहकाराश्च ॥ अर्जयति गुणान् ऋजुः । सर्वानविशेषेण पश्यतीति पशुः । कन्तुः । अन्धुः कूपः । पांशुर्ना न द्वयो रजः । तालव्या अपि दन्त्याश्च सम्बसूकरपांसवः । बाधते इति बाहुः । बाहुः स्त्रीपुंसयोर्भुजः ।

1-28 प्रथिम्रदिभ्रस्जां संप्रसारणं सलोपश्च ॥ त्रयाणां कुः संप्रसारणं भ्रस्जेः सलोपश्च । पृथुः । मृदुः । न्यङ्क्वादित्वात्कुत्वम् । भृज्जति तपसा भृगुः ।

1-29 लङ्घिबंह्योर्नलोपश्च ॥ लघुः । वालमूललघ्वलमङ्गुलीनां वा लो रत्वमापद्यते ॥ रघुर्नृपभेदः । बहुः ।

1-30 ऊर्णोतेर्नुलोपश्च ॥ ऊरुः सक्थि ।

1-31 महति ह्रस्वश्च ॥ उरु महत् ।

1-32 । श्लिषेः कश्च ॥ श्लिष्यतीति श्लिकुर्भृत्यः । उद्यतो ज्योतिश्च ।

1-33 आङ्परयोः खनिशॄभ्यां डिच्च ॥ आखनतीत्याखुः । परं शृणातीति परशुः । पृषोदरादित्वादकारलोपात्पर्शुरपि ।

1-34 हरिमितयोर्द्रुवः ॥ द्रु गतौ अस्मात् हरिमितयोरुपपदयोः कुः स च डित् । हरिभिर्द्रूयते हरिद्रुर्वृक्षः । मितं द्रवति मितद्रुः समुद्रः ।

1-35 शते च ॥ शतधा द्रवति शतद्रुः । बाहुलकात्केवलादपि । द्रवत्यूर्ध्वमिति द्रुर्वृक्षः शाखा च तद्वान् द्रुमः ।

1-36 खरु शङ्कु पीयु नीलङ्गु लिगु ॥ पञ्चैते कुप्रत्ययान्ता निपात्यन्ते । खनते रेफश्चान्तादेशः । खरुः कामः क्रूरो मूर्खः अश्वश्च । शङ्कुर्ना कीलशल्ययोः । पिबतेरित्वं युगागमश्च ॥ पीयुर्वायसः कालः सुवर्णं च । निपूर्वाल्लगि गतावस्मात्कुत्वं नेर्दीर्घश्च । नीलङ्गुः क्रिमिविशेषः शृगालश्च । नीलाङ्गुरिति पाठान्तरम् । तत्र धातोरपि दीर्घः । लगे सङ्गे अस्य अत इत्वं च । लगतीति लिगु चित्तम् । लिगुर्मूर्खः ।

1-37 मृगय्वादयश्च ॥ एते कुप्रत्ययान्ता निपात्यन्ते । मृगं यातीति मृगयुर्व्याधः । देवयुर्धार्मिकः । मित्रयुर्लोकयात्राभिज्ञः । आकृतिगणोऽयम् ।

1-38 मन्दिवाशिमथिचतिचङ्क्यङ्किभ्य उरच् ॥ मन्दुरा वाजिशाला । वाशुरा रात्रिः । मथुरा । चतुरः । चङ्कुरो रथः । अङ्कुरः । खर्जूरादित्वादङ्कूरोऽपि ।

1-39 व्यथेः संप्रसारणं किच्च ॥ विथुरश्चोररक्षसोः ।

1-40 मुकुरदर्दुरौ ॥ मुकुरो दर्पणः । बाहुलकान्मकुरोऽपि । दॄ विदारणे । धातोर्द्विर्वचनमभ्यासस्य रुक् टिलोपश्च । दर्दुरस्तोयदे भेके वाद्यभाण्डाद्रिभेदयोः । दर्दुरा चण्डिकायां स्याद्ग्रामजाले च दर्दुरमिति विश्वः ।

1-41 मद्गुरादयश्च ॥ उरजन्ता निपात्यन्ते । माद्यतेर्गुक् । मद्गुरो मत्स्यभेदः । कबृ वर्णे । रुगागमः । कर्बुरः श्वेतरक्षसोः । बध्नातेः खर्जूरादित्वादूरोऽपि । बन्धूरबन्धुरौ स्यातां नम्रसुन्दरयोस्त्रिषु इति रन्तिदेवः । (ग) कोकतेर्वा कुक् ॥ कुक्कुरः । कुकुरः ।

1-42 असेरुरन् ॥ असुरः । प्रज्ञाद्यण् । आसुरः ।

1-43 मसेश्च ॥ पञ्चमे पादे मसेरूरन्निति वक्ष्यते । मसूरा मसुरा व्रीहिप्रभेदे पण्ययोषिति । मसूरा मसुरा वा ना वेश्याव्रीहिप्रभेदयोः । मसूरी पादरोगे स्यादुपधाने पुनः पुमान् । मसूरमसुरौ च द्वाविति विश्वः ।

1-44 शावशेराप्तौ ॥ शु इति आश्वर्थे । श्वशुरः । पतिपत्न्योः प्रसूः श्वश्रूः श्वशुरस्तु पिता तयोरित्यमरः ।

1-45 अविमह्योष्टिषच् ॥ अविषः । महिषः ।

1-46 अमेर्दीर्घश्च ॥ आमिषं त्वस्त्रियां मांसे तथा स्याद्भोग्यवस्तुनि ।

1-47 रुहेर्वृद्धिश्च ॥ रङ्कुशम्बररौहिषाः । रौहिषो मृगभेदे स्याद्रौहिषं च तृणं मतमिति संसारावर्तः ।

1-48 तवेर्णिद्वा ॥ तवेति सौत्रो धातुः । तविपताविषावब्धौ स्वर्गे च । स्त्रियां तविषी ताविषी नदी देवकन्या भूमिश्च । तविषी बलमिति वेदभाष्यम् ।

1-49 नञि व्यथेः ॥ अव्यथिषोऽब्धिसूर्ययोः । अव्यथिषी धरारात्र्योः ।

1-50 किलेर्बुक् च ॥ किल्बिषम् ।

1-51 इषिमदिमुदिखिदिच्छिदिभिदिमन्दिचन्दितिमिमिहिमुहिमुचिरुचिरुधिबन्धिशुषिभ्यः किरच् ॥ इषिरोऽग्निः । मदिरा सुरा । मुदिरः कामुकाभ्रयोरिति विश्वमेदिन्यौ । खिदिरश्चन्द्रः । छिदिरोऽसिकुठारयोः । भिदिरं वज्रम् । मन्दिरं गृहम् । स्त्रियामपि । मन्दिरं मदिरापि स्यादिति विश्वः । चन्दिरौ चन्द्रहस्तिनौ । तिमिरं तमोऽक्षिरोगश्च । मिहिरः सूर्यः मुहिरः काम्यसभ्ययोः । मुचिरो दाता । रुचिरम् । रुधिरम् । बधिरः । शुष शोषणे । शुषिरं छिद्रम् । शुष्कमित्यन्ये ।

1-52 अशेर्णित् ॥ आशिरो वह्निरक्षसोः ।

1-53 अजिरशिशिरशिथिलस्थिरस्फिरस्थविरखदिराः ॥ अजेर्वीभावाभावः । अजिरमङ्गणम् शशेरुपधाया इत्वम् । शिशिरं स्यादृतोर्भेदे तुषारे शीतलेऽन्यवत् । श्रथ मोचने उपधाया इत्वं रेफलोपः । प्रत्ययरेफश्च लत्वम् । शिथिलम् । स्थास्फाय्योष्टिलोपः । स्थिरं निश्चलम् । स्फिरं प्रभूतम् । तिष्ठतेर्वुक् ह्रस्वत्वं च । स्थविरः । खदिरः । बाहुलकात् शीङो बुक् ह्रस्वत्वं च । शिबिरम् ।

1-54 सलिकल्यनिमहिभडिभण्डिशण्डिपिण्डितुण्डिकुकिभूभ्य इलच् ॥ सलति गच्छति निम्नमिति सलिलम् । कलिलः । अनिलः । महिला । पृषोदरादित्वान्महेलापि । भड इति सौत्रो धातुः । भडिलौ शूरसेवकौ । भण्डिलो दूतः कल्याणं च । शण्डिलो मुनिः । पिण्डिलो गणकः । तुण्डिलो मुखरः । कोकिलः । भविलो भव्यः । बाहुलकात्कुटिलः ।

1-55 कमेः पश्च ॥ कपिलः ।

1-56 गुपादिभ्यः कित् ॥ गुपिलो राजा । तिजिलो निशाकरः । गुहिलं वनम् ।

1-57 मिथिलादयश्च ॥ मथ्यन्तेऽत्र रिपवो मिथिला नगरी । पथिलः । पथिकः ।

1-58 पतिकठिकुठिगडिगुडिदंशिभ्य एरक् ॥ पतेरः पक्षी गन्ता च । छठेरः कृच्छ्रजीवी । कुठेरः पर्णाशः । बाहुलकान्नुम्न । गडेरो मेघः । गुडेरो गुडकः । दंशेरो हिंस्रः ।

1-59 कुम्बेर्नलोपश्च ॥ कुबेरः ।

1-60 शदेस्त च ॥ शतेरः शत्रुः ।

1-61 मूलेरादयः ॥ एरगन्ता निपात्यन्ते । मूलेरो जटा । गुधेरो गोप्ता । गुहेरो लोहघातकः । मुहेरो मूर्खः ।

1-62 कबेरोतच् पश्च ॥ कपोतः पक्षी ।

1-63 भातेर्डवतुः ॥ भातीति भवान् ।

1-64 कठिचकिभ्यामोरन् ॥ कठोरः । चकोरः ।

1-65 किशोरादयश्च ॥ किंपूर्वस्य शृणातेष्टिलोपः किमोऽन्त्यलोपः किशोरोऽश्वशावः । सहोरः साधुः ।

1-66 कपिगडिगण्डिकटिपटिभ्य ओलच् ॥ कपीति निर्देशान्नलोपः । कपोलः । गडोलगण्डोलौ गुडकपर्यायौ । कटोलः कटुः । पटोलः ।

1-67 मीनातेरूरन् ॥ मयूरः ।

1-68 स्यन्देः संप्रसारणं च ॥ सिन्दूरम् ।

1-69 सितनिगमिमसिसच्यविधाञ्क्रुशिभ्यस्तुन् ॥ सिनोतीति सेतुः । ’7-2-9 तितुत्र-’ इति नेट् । तन्तुः । गन्तुः । मस्तु दधिमण्डम् । सच्यत इति सक्तुः । अर्धर्चादिः । ’6-4-20 ज्वरत्वर-’ इत्यूठ् । तत्र क्ङितीत्यनुवर्तते इति मते तु बाहुलकात् । ओतुर्बिडालः । धातुः क्रोष्टा ।

1-70 पः किच्च ॥ पिबतीति पितुर्वह्नौ दिवाकरे ।

1-71 अर्तेश्च तुः ॥ अर्तेस्तुः स्यात्स च कित् । ऋतुः स्त्रीपुष्पकालयोः ।

1-72 कमिमनिजनिगाभायाहिभ्यश्च ॥ एभ्यस्तुः स्यात् । कन्तुः कन्दर्पचित्तयोः । मन्तुरपराधः । जन्तुः प्राणी । गातुः पुंस्कोकिले भृङ्गे गन्धर्वे गायनेऽपि च । भानुरादित्यः । यातुरध्वगकालयोः । रक्षसि क्लीबे । हेतुः कारणम् ।

1-73 चायः किः ॥ केतुर्ग्रहपताकयोः ।

1-74 आप्नोतेर्ह्रस्वश्च ॥ अप्तुः शरीरम् ।

1-75 वसेस्तुन् ॥ वस्तु ।

1-76 अगारे णिच्च ॥ वेश्मभूर्वास्तुरस्त्रियाम् ।

1-77 कृञः कतुः ॥ क्रतुर्यज्ञः ।

1-78 एधिवह्योश्च तुः ॥ एधतुः पुरुषः । वहतुरनड्वान् ।

1-79 जीवेरातुः ॥ जीवातुरस्त्रियां भक्ते जीविते जीवनौषधे ।

1-80 आतृकन् वृद्धिश्च ॥ जीवेरित्येव । जैवातृकस्त्विन्दुभिषगायुष्मत्सु कृषीवले ।

1-81 कृषिचमितनिधनिसर्जिखर्जिभ्य ऊः ॥ कर्षूः पुंसि करीषाग्नौ कर्षूर्नद्यां स्त्रियां मता । चमूः । तनूः । धनूः शस्त्रम् । सर्ज सर्जने । सर्जूर्वणिक् । खर्ज व्यथने । खर्जूः पामा ।

1-82 मृजेर्गुणश्च ॥ मर्जूः शुद्धिकृत् ।

1-83 वहो धश्च ॥ वधूर्जायास्नुषास्त्रीषु ।

1-84 कषेश्छश्च ॥ कच्छूः पामा ।

1-85 णित्कसिपद्यर्तेः ॥ कासूः शक्तिः । पादूश्चरणधारिणी । आरूः पिङ्गलः ।

1-86 अणो डश्च ॥ आडूर्जलप्लवद्रव्यम् ।

1-87 नञि लम्बेर्नलोपश्च ॥ तुम्ब्यलाबूरुभे समे इत्यमरः ।

1-88 के श्र एरङ् चास्य ॥ कशब्दे उपपदे शृणातेरूः स्यादेरङ् आदेशः । कशेरूस्तृणकन्दे स्त्री । बाहुलकादुप्रत्यये कशेरुः क्लीबे पुंसि च ।

1-89 त्रो दुट् च ॥ तरतेरूः स्यात्तस्य दुट् । तर्दूः स्याद्दारुहस्तकः ।

1-90 दरिद्रातेर्यालोपश्च ॥ इश्च आश्च यौ तयोर्लोपः । दर्द्रूः कुष्ठप्रभेदः ।

1-91 नृतिशृध्योः कूः ॥ नृतूर्नर्तकः । शृधूरपानम् ।

1-92 ऋतेरम् च ॥ ऋतिः सौत्रो धातुः । ततः कूरमागमश्च । रन्तूर्देवनदी सत्यवाक् च ।

1-93 अन्दूदृम्भूजम्बूकफेलूकर्कन्धूदिधिषूः ॥ एते कूप्रत्ययान्ता निपात्यन्ते । अन्दूर्बन्धनम् । दृभी ग्रन्थे । निपातनान्नुम् । दृम्भूः । अनुस्वाराभावोऽपि निपातनादित्येके । दृन्भूः । जनेर्बुक् ॥ जम्बूः । जमु अदने अस्येत्येके बाहुलकाद्ध्रस्वोऽपि । जम्बुः । कफं लाति कफेलूः श्लेष्मातकः । निपातनादेत्वम् । कर्कं दधाति कर्कन्धूर्बदरी । निपातनान्नुम् । दिधिं धैर्यं स्यति त्यजतीति दिधिषूः पुनर्भूः । केचित्तु अन्दूदृम्फूजम्बूकम्बू इति पठन्ति । दृम्फ उत्क्लेशे । दृम्फूः सर्पजातिः । कमेर्बुक् ॥ कम्बूः परद्रव्यापहारी ।

1-94 मृग्रोरुतिः ॥ मरुत् । गरुत्पक्षः ।

1-95 ग्रो मुट् च ॥ गिरतेरुतिस्तस्य च मुट् । गर्मुत्सुवर्णं तृणविशेषश्च ।

1-96 हृषेरुलच् ॥ हर्षुलो मृगकामिनोः । बाहुलकाच्चटतेः । चटुलं शोभनम् ।

1-97 हृसृरुहियुषिभ्य इतिः ॥ हरित्ककुभि वर्णे च तृणवाचिविशेषयोः । सरिन्नदी । रोहित् मृगविशेषस्य स्त्री । युष इति सौत्रो धातुः । ऋश्यस्य रोहित् । पुरुषस्य योषित् इति भाष्यम् ।

1-98 ताडेर्णिलुक् च ॥ ताडयतीति तडित् ।

1-99 शमेर्डः ॥ बाहुलकादिसंज्ञा एयादेश इट् च न । शण्ढः स्यात्पुंसि गोपतौ । शण्ढः क्लीबः ।

1-100 कमेरठः ॥ कमठः । कमठः कच्छपे पुंसि भाण्डभेदे नपुंसकमिति मेदिनी । बाहुलकाज्जरठः ।

1-101 रमेर्वृद्धिश्च ॥ रामठं हिङ्गु ।

1-102 शमेः खः ॥ शङ्खः ।

1-103 कणेष्ठः ॥ कण्ठः ।

1-104 कलस्तृपश्च ॥ तृपतेः कलप्रत्ययः चात्तृफतेः । तृपला लता । त्रिफला तु फलत्रिके ।

1-105 शपेर्बश्च ॥ शबलः ।

1-106 वृषादिभ्यश्चित् ॥ वृषलः । पललम् । बाहुलकाद्गुणः । सरलः । तरलः । (ग) कमेर्बुक् ॥ कम्बलः । मुस खण्डने । मुसलम् । (ग) लङ्गेर्वृद्धिश्च ॥ लाङ्गलम् । (ग) कुटिकशिकौतिभ्यः प्रत्ययस्य मुट् ॥ कुट्मलः । कुडेरपि । कुड्मलः । कश्मलम् । बाहुलकाद्गुणः । कोमलम् ।

1-107 मृजेष्टिलोपश्च ॥ मलम् ।

1-108 चुपेरच्चोपधायाः ॥ चपलम् ।

1-109 शकिशम्योर्नित् ॥ शकलम् । शमलम् ।

1-110 छो गुक् ह्रस्वश्च ॥ छगलः । प्रज्ञादित्वाच्छागलः ।

1-111 ञमन्ताड्डः ॥ दण्डः । रण्डा । खण्डः । भण्डः । वण्डश्छिन्नहस्तः । अण्डः । बाहुलकात्सभावः । षण्डः सङ्घातः । तालव्यादिरित्यपरे । शण्डः। गण्डः । चण्डः । पण्डः क्लीबः । पण्डा बुद्धिः ।

1-112 क्वादिभ्यः कित् ॥ कवर्गादिभ्यो डः कित्स्यात् । कुण्डम् । काण्डम् । गुङ् । गुडः । घुण भ्रमणे । घुण्डो भ्रमरः ।

1-113 स्थाचतिमृजेरालज्वालजालीयचः ॥ तिष्ठतेरालच् । स्थालम् स्थाली । चतेर्वालच् । चत्वालः । मृजेरालीयच् । मार्जालीयो बिडालः ।

1-114 पतिचण्डिभ्यामालञ् ॥ पातालम् । चण्डालः । प्रज्ञादित्वादणि चाण्डालोऽपीत्येके ।

1-115 तमिविशिबिडिमृणिकुलिकपिपलिपञ्चिभ्यः कालन् ॥ तमालः । विशालः । बिडालः । मृणालम् । कुलालः । कपालम् । पलालम् । पञ्चालाः ।

1-116 पतेरङ्गच् पक्षिणि ॥ पतङ्गः ।

1-117 तरत्यादिभ्यश्च ॥ तरङ्गः । लवङ्गम् ।

1-118 विडादिभ्यः कित् ॥ विडङ्गः । मृदङ्गः । कुरङ्गः । बाहुलकादुत्वं च ।

1-119 सृवृञोर्वृद्धिश्च ॥ सारङ्गः । वारङ्गः खड्गादिमुष्टिः ।

1-120 गन् गम्यद्योः ॥ गङ्गा । अद्गः पुरोडाशः ।

1-121 छापूखडिभ्यः कित् ॥ छागः । पूगः । खड्गः । बाहुलकात् षिट अनादरे गन्सत्वाभावश्च । षिड्गः तरलः । षिड्गैरगद्यत ससंभ्रममेवमेकेति माघः ।

1-122 भृञः किन्नुट् च ॥ भृञः गन् कित्स्यात्तस्य नुत् च । भृङ्गाः षिड्गालिधूम्याटाः ।

1-123 शृणातेर्ह्रस्वश्च ॥ शृङ्गम् ।

1-124 गण् शकुनौ ॥ नुट् चेत्यनुवर्तते । शार्ङ्गः ।

1-125 मुदिग्रोर्गग्गौ ॥ मुद्गः । गर्गः ।

1-126 अण्डन्कृसृभृवृञः ॥ करण्डः । सरण्डः पक्षी । भरण्डः स्वामी । वरण्डो मुखरोगः ।

1-127 शॄदॄभसोऽदिः ॥ शरत् । दरद्धृदयकूलयोः । भसज्जघनम् ।

1-128 दृणातेर्दृग् ह्रस्वश्च ॥ दृषत् ।

1-129 त्यजितनियजिभ्यो डित् ॥ त्यद् । तद् । यद् । सर्वादयः ।

1-130 एतेस्तुट् च ॥ एतद् ।

1-131 सर्तेरटिः ॥ सरट् स्याद्वातमेघयोः । वेदभाष्ये तु याभिः कृशानुमिति मन्त्रे सरट्भ्यो मधुमक्षिकाभ्य इति व्याख्यातम् ।

1-132 लङ्घेर्नलोपश्च ॥ लघट् वायुः ।

1-133 पारयतेरजिः ॥ पारक् सुवर्णम् ।

1-134 प्रथः कित्संप्रसारणं च ॥ पृथक् । स्वरादिपाठादव्ययत्वम् ।

1-135 भियः षुक् ह्रस्वश्च ॥ भिषक् ।

1-136 युष्यसिभ्यां मदिक् ॥ युष् सौत्रो धातुः । युष्मद् । अस्मद् । त्वम् । अहम् ।

1-137 अर्तिस्तुसुहुसृधृभिक्षुभायावापदियक्षिनीभ्यो मन् ॥ एभ्यश्चतुर्दशभ्यो मन् । अर्मश्चक्षूरोगः । स्तोमः सङ्घातः । सोमः । होमः । सर्मो गमनम् । धर्मः क्षेमं कुशलम् । क्षोमम् । प्रज्ञाद्यणि क्षौमं च । भाम आदित्यः । यामः । वामः शोभनदुष्टयोः । पद्मम् । यक्ष पूजायाम् । यक्ष्मो रोगराजः । नेमः ।

1-138 जहातेः सन्वदालोपश्च ॥ जिह्मः कुटिलमन्दयोः ।

1-139 अवतेष्टिलोपश्च ॥ मन्प्रत्ययस्यायं टिलोपो न प्रकृतेः । अन्यथा डिदित्येव ब्रूयात् । ’6-4-20 ज्वरत्वर-’ इति ऊठौ । तयोर्दीर्घे कृते गुणः । चादिपाठादव्ययत्वमित्युज्ज्वलदत्तस्तन्न । तेषामसत्त्वार्थत्वात् । वस्तुतस्तु स्वरादिपाठादव्ययत्वम् । अवतीति ओम् ।

1-140 ग्रसेरा च ॥ ग्रामः ।

1-141 अविसिविसिशुषिभ्यः कित् ॥ ऊमं नगरम् । स्यूमो रश्मिः । सिमः सर्वः । शुष्ममग्निसमीपयोः ।

1-142 इषियुधीन्धिदसिश्याधूसूभ्यो मक् ॥ इष्मः कामवसन्तयोः । ईषीति पाठे दीर्घादिः । युध्मः शरो योद्धा च । इध्मः समित् । दस्मो यजमानः । श्यामः धूमः । सूमोऽन्तरिक्षम् । बाहुलकादीर्मं व्रणः ।

1-143 युजिरुचितिजां कुश्च ॥ युग्मम् । रुक्मम् । तिग्मम् ।

1-144 हन्तेर्हि च ॥ हिमम् ।

1-145 भियः षुग्वा ॥ भीमः । भीष्मः ।

1-146 घर्मः ॥ घृधातोर्मग्गुणश्च निपात्यते ।

1-147 ग्रीष्मः ॥ ग्रसतेर्निपातोऽयम् ।

1-148 प्रथेः षिवन् संप्रसारणं च ॥ पृथिवी । पवन्नित्येके । पृथवी पृथिवी पृथ्वी इति शब्दार्णवः ।

1-149 अशूप्रुषिलटिकणिखटिविशिभ्यः क्वन् ॥ अश्वः । प्रुष स्नेहनादौ । प्रुष्वः स्यादृतुसूर्ययोः । प्रुष्वा जलकणिका । लट्वा पक्षिभेदः फलं च । कण्वं पापम् । बाहुलकादित्वे किण्वमपि । खट्वा । विश्वम् ।

1-150 इण्शीभ्यां वण् ॥ एवो गन्ता । ये च एवा मरुतः । असत्वे निपातोऽयम् । शेवं मित्राय वरुणाय ।

1-151 सर्वनीघृष्वरिष्वलष्वशिवपट्वप्रह्वेष्वा अस्वतन्त्रे ॥ अकर्तर्येते निपात्यन्ते । सृतमनेन विश्वमिति सर्वम् । निपूर्वाद्घृषेर्गुणाभावोऽपि । निघृष्यतेऽनेन निघृष्वः खुरः । रिष्वो हिंस्रः । लष्वो नर्तकः । लिष्व इत्यन्ये । तत्रोपधाया इत्वमपि । शेतेऽस्मिन् सर्वमिति शिवः शम्भुः । शीङो ह्रस्वत्वम् । पट्वो रथो भूलोकश्च । प्रहूयते इति प्रह्वः । ह्वेञ आकारवकारलोपः । जहातेरालोपो वा । ईषेर्वन् । ईष्व आचार्यः । इष्व इत्यन्ये । अस्वतन्त्रे किम् । सर्ता सारकः । बाहुलकाद् ह्रसतेः ह्रस्वः ।


1-152 शेवयह्वजिह्वाग्रीवाप्वामीवाः ॥ शेव इत्यन्तोदात्तार्थम् । यान्त्यनेन वह्वः । ह्रस्वो हुगागमश्च । लिहन्त्यनया जिह्वा । लकारस्य जः गुणाभावश्च । गिरन्त्यनया ग्रीवा । ईडागमश्च । अप्नोतीत्याप्वा वायुः । मीवा उदरकृमिः । वायुरित्यन्ये ।

1-153 कॄगॄशॄदॄभ्यो वः ॥ कर्वः काम आखुश्च । गर्वः । शर्वः । दर्वो राक्षसः ।

1-154 कनिन् युवृषितक्षिराजिधन्विद्युप्रतिदिवः ॥ यौतीति युवा । वृषा इन्द्रः । तक्षा । राजा । धन्वा मरुः । धन्व शरासनम् । द्युवा सूर्यः । प्रतिदीव्यन्त्यस्मिन् प्रतिदिवा दिवसः ।

1-155 सप्यशूभ्यां तुट् च ॥ सप्त । अष्ट ।

1-156 नञि जहातेः ॥ अहः ।

1-157 श्वन्नुक्षन्पूषन्प्लीहन्क्लेदन्स्नेहन्मूर्धन्मज्जन्नर्यमन्विश्वप्सन्परिज्जन्मातरिश्वन्मघवन्निति ॥ एते त्रयोदश कनिप्रत्ययान्ता निपात्यन्ते । श्वयतीति श्वा । उक्षा पूषा । प्लिह गतौ । इकारस्य दीर्घत्वम् । प्लेहतीति प्लीहा कुक्षिव्याधिः । क्लिदू आर्द्रीभावे । क्लिद्यति क्लेदा चन्द्रः । स्निह्यतेर्गुणः । स्निह्यतीति स्नेहा सुहृच्चन्द्रश्च । मुह्यन्त्यस्मिन्नाहते । मूर्धा । मुहेरुपधाया दीर्घो धोऽन्तादेशो रमागमश्च । मज्जत्यस्थिषु मज्जा अस्थिसारः । अर्यपूर्वो माङ् अर्यमा । विश्वं प्साति विश्वप्साग्निः । परिजायते परिज्मा चन्द्रोऽग्निश्च । जनेरुपधालोपो मश्चान्तादेशः । मातरि अन्तरिक्षे श्वयतीति मातरिश्वा । धातोरिकारलोपः । मह पूजायाम् । हस्य घो वुगागमश्च मघवा इन्द्रः ॥

इत्युणादिषु प्रथमः पादः ॥