याज्ञवल्क्यस्मृतिःव्यवहाराध्यायःअस्वामिविक्रयप्रकरणम्

 

स्वं लभेतान्यविक्रीतं क्रेतुर्दोषोऽप्रकाशिते ।
हीनाद्रहो हीनमूल्ये वेलाहीने च तस्करः । । २.१६८ । ।


नष्टापहृतं आसाद्य हर्तारं ग्राहयेन्नरम् ।
देशकालातिपत्तौ च गृहीत्वा स्वयं अर्पयेत् । । २.१६९ । ।


विक्रेतुर्दर्शनाच्छुद्धिः स्वामी द्रव्यं नृपो दमम् ।
क्रेता मूल्यं अवाप्नोति तस्माद्यस्तस्य विक्रयी । । २.१७० । ।


आगमेनोपभोगेन नष्टं भाव्यं अतोऽन्यथा ।
पञ्चबन्धो दमस्तस्य राज्ञे तेनाविभाविते । । २.१७१ । ।


हृतं प्रनष्टं यो द्रव्यं परहस्तादवाप्नुयात् ।
अनिवेद्य नृपे दण्ड्यः स तु षण्णवतिं पणान् । । २.१७२ । ।


शौल्किकैः स्थानपालैर्वा नष्टापहृतं आहृतम् ।
अर्वाक्संवत्सरात्स्वामी हरेत परतो नृपः । । २.१७३ । ।


पणानेकशफे दद्याच्चतुरः पञ्च मानुषे ।
महिषोष्ट्रगवां द्वौ द्वौ पादं पादं अजाविके । । २.१७४ । ।