याज्ञवल्क्यस्मृतिःव्यवहाराध्यायःद्यूतसमाह्वयप्रकरणम्

ग्लहे शतिकवृद्धेस्तु सभिकः पञ्चकं शतम् ।

गृह्णीयाद्धूर्तकितवादितराद्दशकं शतम् । । २.१९९ । ।


स सम्यक्पालितो दद्याद्राज्ञे भागं यथाकृतम् ।
जितं उद्ग्राहयेज्जेत्रे दद्यात्सत्यं वचः क्षमी । । २.२०० । ।


प्राप्ते नृपतिना भागे प्रसिद्धे धूर्तमण्डले ।
जितं ससभिके स्थाने दापयेदन्यथा न तु । । २.२०१ । ।


द्रष्टारो व्यवहाराणां साक्षिणश्च त एव हि ।
राज्ञा सचिह्नं निर्वास्याः कूटाक्षोपधिदेविनः । । २.२०२ । ।


द्यूतं एकमुखं कार्यं तस्करज्ञानकारणात् ।
एष एव विधिर्ज्ञेयः प्राणिद्यूते समाह्वये । । २.२०३ । ।