विष्णुस्मृतिः/षड्षष्ठितमोऽध्यायः

न नक्तं गृहीतेनोदकेन देवपितृकर्म कुर्यात् । । ६६.१ । ।


चदनमृगमददारुकर्पूरकुङ्कुमजातीफलवर्जं अनुलेपनं न दद्यात् । । ६६.२ । ।

न वासो नीलीरक्तं । । ६६.३ । ।

न मणिसुवर्णयोः प्रतिरूपं अलंकरणं । । ६६.४ । ।

नोग्रघन्धि । । ६६.५ । ।

नागन्धि । । ६६.६ । ।

न कण्टकिजं । । ६६.७ । ।

कण्टकिजं अपि शुक्लं सुगन्धिकं तु दद्यात् । । ६६.८ । ।

रक्तं अपि कुङ्कुमं जलजं च दद्यात् । । ६६.९ । ।

न धूपार्थे जीवजातं । । ६६.१० । ।

न घृततैलं विना किंचन दीपार्थे । । ६६.११ । ।

नाभक्ष्यं नैवेद्यार्थे । । ६६.१२ । ।

न भक्ष्ये अप्यजामहिषीक्षीरे । । ६६.१३ । ।

पञ्चनखमत्स्यवराहमांसानि च । । ६६.१४ । ।

प्रयतश्च शुचिर्भूत्वा सर्वं एव निवेदयेत् ।
तन्मनाः सुमना भूत्वा त्वराक्रोधविवर्जितः । । ६६.१६ । ।