प्राग्घितीयप्रकरणम्

अथ यदधिकारः (प्राग्घितीयप्रकरणम्)

प्राग्घिताद्यत्॥ लसक_११३३ = पा_४,४.७५॥
तस्मै हितमित्यतः प्राग् यदधिक्रियते॥

तद्वहति रथयुगप्रासङ्गम्॥ लसक_११३४ = पा_४,४.७६॥
रथं वहति रथ्यः। युग्यः। प्रासङ्ग्यः॥

धुरो यड्ढकौ॥ लसक_११३५ = पा_४,४.७७॥
हलि चेति दीर्घे प्राप्ते - .

न भकुर्छुराम्॥ लसक_११३६ = पा_८,२.७९॥
भस्य कुर्छुरोश्चोपधाया इको दीर्घो न स्यात्। धुर्यः। धौरेयः॥

नौवयोधर्मविषमूलमूलसीतातुलाभ्यस्तार्यतुल्यप्राप्यवध्यानाम्यसमसमितसंमितेषु॥ लसक_११३७ = पा_४,४.९१॥
नावा तार्यं नाव्यं जलम्। वयसा तुल्यो वयस्यः। धर्मेण प्राप्यं धर्म्यम्। विषेण वध्यो विष्यः। मूलेन आनाम्यं मूल्यम्। मूलेन समो मूल्यः। सीतया समितं सीत्यं क्षेत्रम्। तुलया संमितम् तुल्यम्॥

तत्र साधुः॥ लसक_११३७ = पा_४,४.९८॥
अग्रे साधुः - अग्र्यः। सामसु साधुः सामन्यः। ये चाभावकर्मणोरिति प्रकृति भावः। कर्मण्यः। शरण्यः॥

सभाया यः॥ लसक_११३९ = पा_४,४.१०५॥
सभ्यः॥

इति यतो ऽवधिः। (प्राग्घितीयाः)॥ ८॥