विष्णुस्मृतिः/षट्पञ्चाषत्तमोऽध्यायः

अथाथः सर्ववेदपवित्राणि भवन्ति । । ५६.१ । ।


येषां जप्यैश्च होमैश्च द्विजातयः पापेभ्यः पूयन्ते । । ५६.२ । ।

अघमर्षणं । । ५६.३ । ।

देवकृतं । । ५६.४ । ।

शुद्धवत्यः । । ५६.५ । ।

तरत्समन्दीयं । । ५६.६ । ।

कूश्माण्ड्यः । । ५६.७ । ।

पावमान्यः । । ५६.८ । ।

दुर्गासावित्री । । ५६.९ । ।

अतीषङ्गाः । । ५६.१० । ।

पदस्तोमाः । । ५६.११ । ।

समानि व्याहृतयः । । ५६.१२ । ।

भारुण्डाणि । । ५६.१३ । ।

चन्द्रसाम । । ५६.१४ । ।

पुरुषव्रते सामनी । । ५६.१५ । ।

अब्लिङ्गं । । ५६.१६ । ।

बार्हस्पत्यं । । ५६.१७ । ।

गोसूक्तं । । ५६.१८ । ।

अश्वसूक्तं । । ५६.१९ । ।

सामनी चन्द्रसूक्ते च । । ५६.२० । ।

शतरुद्रियं । । ५६.२१ । ।

अथर्वशिरः । । ५६.२२ । ।

त्रिसुपर्णं । । ५६.२३ । ।

महाव्रतं । । ५६.२४ । ।

नारायणीयं । । ५६.२५ । ।

पुरुषसूक्तं च । । ५६.२६ । ।

त्रीण्याज्यदोहानि रथन्तरं च अग्निव्रतं वामदेव्यं बृहच्च ।
एतानि गीतानि पुनाति जन्तून्जातिस्मरत्वं लभते यदीच्छेत् । । ५६.२७ । ।