पिङ्गलछन्दःसूत्रम्/तृतीयोऽध्यायः
<poem>
पादः । ३.१ ।
इयादिपूरणः । ३.२ ।
गायत्र्या वसवः । ३.३ ।
जगत्या आदित्याः । ३.४ ।
विराजो दिशः । ३.५ ।
त्रिष्टुभो रुद्राः । ३.६ ।
एकद्वित्रिचतुष्पादुक्तपादम् । ३.७ ।
आद्यं चतुष्पादृतुभिः । ३.८ ।
क्वचित् त्रिपादृषिभिः । ३.९ ।
सा पादनिचृत् । ३.१० ।
षट्कसप्तकयोर्मध्येऽष्टावतिपादनिचृत् । ३.११ ।
द्वौ नवकौ षट्कश्च नागी।३.१२
विपरीता वाराही । ३.१३ ।
षट्कसप्तकाष्टकैर्वर्धमाना । ३.१३ ।
विपरीता प्रतिष्ठा । ३.१५ ।
तृतीयं द्विपाज्जागतगायत्राभ्याम् । ३.१६ ।
त्रिपात्त्रैष्टुभैः । ३.१७ ।
उष्णिग्गायत्रौ जागतश्च । ३.१८ ।
ककुम्मध्ये चेदन्त्यः । ३.१९ ।
पुरउष्णिक् पुरः ।। । ३.२० ।
परोष्णिक् परः । ३.२१ ।
चतुष्पादृषिभिः । ३.२२ ।
अनुष्टुप् गायत्रैः । ३.२३ ।
त्रिपात्क्वचिज्जागताभ्यां च । ३.२४ ।
मध्येऽन्ते च । ३.२५ ।
बृहती जागतस्त्रयश्च गायत्राः । ३.२६ ।
पथ्या पूर्वश्चेत्तृतीयः । ३.२७ ।
न्यङ्कुसारिणी द्वितीयः । ३.२८ ।
स्कन्धोग्रीवी क्रौष्टुकेः । ३.२९ ।
रोबृहती यास्कस्य । ३.३० ।
उपरिष्टाद्बृहत्यन्ते । ३.३१ ।
पुरस्ताद्बृहती पुरः । ३.३२ ।
क्वचिन्नवकाश्चत्वारः । ३.३३ ।
वैराजौ गायत्रौ च । ३.३४ ।
त्रिभिर्जागतैर्महाबृहती । ३.३५ ।
सतोबृहती ताण्डिनः । ३.३६ ।
पंक्तिर्जागतौ गायत्रौ च । ३.३७ ।
पूर्वौ चेदयुजौ सतः पंक्तिः । ३.३८ ।
विपरीतौ च॥ । ३.३९ ।
आस्तारपंक्तिः परतः । ३.४० ।
प्रस्तारपंक्तिः पुरतः । ३.४१ ।
विष्टारपंक्तिरन्तः । ३.४२ ।
संस्तारपंक्तिर्बहिः । ३.४३ ।
अक्षरपंक्तिः पञ्चकाश्चत्वारः । ३.४४ ।
द्वावप्यल्पशः । ३.४५ ।
पदपंक्तिः पञ्च । ३.४६ ।
चतुष्क षट्कौ त्रयश्च । ३.४७ ।
पथ्या पञ्चभिर्गायत्रैः । ३.४८ ।
जगती षड्भिः । ३.४९ ।
एकेन त्रिष्टुप् ज्योतिष्मती । ३.५० ।
तथा जगती । ३.५१ ।
पुरस्ताज्ज्योतिः प्रथमेन । ३.५२ ।
मध्येज्योतिर्मध्यमेन । ३.५३ ।
उपरिष्टाज्ज्योतिरन्त्येन । ३.५४ ।
एकस्मिन्पञ्चके छन्दः शङ्कुमती । ३.५५ ।
षट्के ककुद्मती । ३.५६ ।
त्रिपादनिष्ठ मध्या पिपीलिक मध्या । ३.५७ ।
विपरीता यवमध्या । ३.५८ ।
ऊनाधिकेनैकेन निचृद्भुरिजौ । ३.५९ ।
द्वाभ्यां विराट् स्वराजौ । ३.६० ।
आदितः सन्दिग्धे॥ । ३.६१ ।
देवतादितश्च । ३.६२ ।
अग्निः सविता सोमो बृहस्पतिर्मित्रावरुणाविन्द्रो विश्वेदेवा देवताः । ३.६३ ।
स्वराः षड्ज ऋषभ गान्धार मध्यम पञ्चम धैवत निषादाः । ३.६४ ।
सित सारङ्ग पिशङ्ग कृष्ण नील लोहित गौरा वर्णाः । ३.६५ ।
आग्निवेश्य काश्यप गौतमांगिरस भार्गव कौशिक वासिष्ठानि गोत्राणि । ३.६६ ।
श्यामान्यतिच्छन्दांसि । ३.६७ ।
रोचनाभाः कृतयः । ३.६८ ।
अनुक्तानां कामतो वर्णा इति।। । ३.६९ ।