विष्णुस्मृतिः/चतुस्त्रिंशत्तमोऽध्यायः

मातृगमनं दुहितृगमनं स्नुषागमनं इत्यतिपातकानि । । ३४.१ । ।


अतिपातकिनस्त्वेते प्रविशेयुर्हुताशनम् ।
न ह्यन्या निष्कृतिस्तेषां विद्यते हि कथंचन । । ३४.२ । ।