वादहानिकराणि

प्रपद्य कारणं पूर्वं अन्यद्गुरुतरं यदि ।

प्रतिवाक्यगतं ब्रूयात्साध्यते तद्धि नेतरत् ।। १९१ ।।

यथार्थं उत्तरं दद्यादयच्छन्तं च दापयेत् ।
सामभेदादिभिर्मार्गैर्यावत्सोऽर्थः समुत्थितः ।। १९२ ।।

मोहाद्वा यदि वा शाठ्याद्यन्नोक्तं पूर्ववादिना ।
उत्तरान्तर्गतं चापि तद्ग्राह्यं उभयोरपि ।। १९३ ।।

उपायैश्चोद्यमानस्तु न दद्यादुत्तरं तु यः ।
अतिक्रान्ते सप्तरात्रे जितोऽसौ दातुं अर्हति ।। १९४ ।।

श्रावयित्वा यथाकार्यं त्यजेदन्यद्वदेदसौ ।
अन्यपक्षाश्रयस्तेन कृतो वादी स हीयते ।। १९५ ।।

न मयाभिहितं कार्यं अभियुज्य परं वदेत् ।
विब्रुवंश्च भवेदेवं हीनं तं अपि निर्दिशेत् ।। १९६ ।।

लेखयित्वा तु यो वाक्यंं हीनं वाप्यधिकं पुनः ।
वदेद्वादी स हीयेत नाभियोगं तु सोऽर्हति ।। १९७ ।।

सभ्याश्च साक्षिणश्चैव क्रिया ज्ञेया मनीषिभिः ।
तां क्रियां द्वेष्टि यो मोहात्क्रियाद्वेषी स उच्यते ।। १९८ ।।

आह्वानादनुपस्थानात्सद्य एव प्रहीयते ।। १९९ ।।

ब्रूहीत्युक्तोऽपि न ब्रूयात्सद्यो बन्धनं अर्हति ।
द्वितीयेऽहनि दुर्बुद्धेर्विद्यात्तस्य पराजयम् ।। २०० ।।

व्याजेनैव तु यत्रासौ दीर्घकालं अभीप्सति ।
सापदेशं तु तद्विद्याद्वादहानिकरं स्मृतम् ।। २०१ ।।

अन्यवादी पणान्पञ्च क्रियाद्वेषी पणान्दश ।
नोपस्थाता दश द्वौ च षोडशैव निरुत्तरः ।
आहूतप्रपलायी च पणान्ग्राह्यस्तु विंशतिम् ।। २०२ ।।

त्रिराहूतं अनायान्तं आहूतप्रपलायिनम् ।
पञ्चरात्रं अतिक्रान्तं विनयेत्तं महीपतिः ।। २०३ ।।

श्रावितव्यवहाराणां एकं यत्र प्रभेदयेत् ।
वादिनं लोभयेच्चैव हीनं तं इति निर्दिशेत् ।। २०४ ।।

भयं करोति भेदं वा भीषणं वा निरोधनम् ।
एतानि वादिनोरर्थस्य व्यवहारे स हीयते ।। २०५ ।।

दोषानुरूपं संग्राह्यः पुनर्वादो न विद्यते ।
उभयोर्लिखिते वाच्ये प्रारब्धे कार्यनिश्चये ।
अयुक्तं तत्र यो ब्रूयात्तस्मादर्थात्स हीयते ।। २०६ ।।

साक्षिणो यस्तु निर्दिश्य कामतो न विवादयेत् ।
स वादी हीयते तस्मात्त्रिंशद्रात्रात्परेण तु ।। २०७ ।।

पलायनानुत्तरत्वादन्यपक्षाश्रयेण च ।
हीनस्य गृह्यते वादो न स्ववाक्यजितस्य तु ।। २०८ ।।

यो हीनवाक्येन जितस्तस्योद्धारं विदुर्बुधाः ।
स्ववाक्यहीनो यस्तु स्यात्तस्योद्धारो न विद्यते ।। २०९ ।।

आवेद्य प्रगृहीतार्थाः प्रशमं यान्ति ये मिथः ।
सर्वे द्विगुणदण्ड्याः स्युः विप्रलम्भान्नृपस्य ते ।। २१० ।।