साक्षिणः

न कालहरणं कार्यं राज्ञा साक्षिप्रभाषणे ।

महान्दोषो भवेत्कालाद्धर्मव्यावृत्तिलक्षणः ।। ३३९ ।।

उपस्थितान्परीक्षेत साक्षिणो नृपतिः स्वयम् ।
साक्षिभिर्भाषितं वाक्यं सभ्यैः सह परीक्षयेत् ।। ३४० ।।

सम्यक्क्रियापरिज्ञाने देयः कालस्तु साक्षिणाम् ।
संदिग्धं यत्र साक्ष्यं स्यात्सद्यः स्पष्टं विवादयेत् ।। ३४१ ।।

सभान्तः साक्षिणः सर्वानर्थिप्रत्यर्थिसंनिधौ ।
प्राङ्विवाको नियुञ्जीत विधिनानेन सान्त्वयन् ।। ३४२ ।।

यद्द्वयोरनयोर्वेत्थ कार्येऽस्मिंश्चेष्टितं मिथः ।
तद्ब्रूत सर्वं सत्येन युष्माकं ह्यत्र साक्षिता ।। ३४३ ।।

देवब्राह्मनसान्निध्ये साक्ष्यं पृच्छेदृतं द्विजान् ।
उदङ्मुखान्प्राङ्मुखान्वा पूर्वाह्णे वै शुचिः शुचीन् ।। ३४४ ।।

आहूय साक्षिणः पृच्छेन्नियम्य शपथैर्भृशम् ।
समस्तान्विदिताचारान्विज्ञातार्थान्पृथक्पृथक् ।। ३४५ ।।

अर्थिप्रत्यर्थिसांनिध्यादनुभूतं तु यद्भवेत् ।
तद्ग्राह्यं साक्षिणो वाक्यं अन्यथा न बृहस्पतिः ।। ३४६ ।।

प्रख्यातकुलशीलाश्च लोभमोहविवर्जिताः ।
आप्ताः शुद्धा विशिष्टा ये तेषां साक्ष्यं असंशयम् ।। ३४७ ।।

विभाव्यो वादिना यादृक्सदृशैरेव भावयेत् ।
नोत्कृष्टश्चावकृष्टस्तु साक्षिभिर्भावयेत्सदा ।। ३४८ ।।

लिङ्गिनः श्रेणिपूगाश्च वणिग्व्रातास्तथापरे ।
समूहस्थाश्च ये चान्ये वर्गास्तानब्रवीद्भृगुः ।। ३४९ ।।

दासचारणमल्लानां हस्त्यश्वायुधजीविनाम् ।
प्रत्येकैकं समूहानां नायका वर्गिणस्तथा ।
तेषां वादः स्ववर्गेषु वर्गिणस्तेषु साक्षिणः ।। ३५० ।।

स्त्रीणां साक्ष्यं स्त्रियः कुर्युर्द्विजानां सदृशा द्विजाः ।
शूद्राश्च सन्तः शूद्राणां अन्त्यानां अन्त्ययोनयः ।। ३५१ ।।

अशक्य आगमो यत्र विदेशप्रतिवासिनाम् ।
त्रैविद्यप्रहितं तत्र लेख्यसाक्ष्यं प्रवादयेत् ।। ३५२ ।।

अभ्यन्तरस्तु निक्षेपे साक्ष्यं एकोऽपि वाच्यते ।
अर्थिना प्रहितः साक्षी भवत्येकोऽपि दूतकः ।। ३५३ ।।

संस्कृतं येन यत्पण्यं तत्तेनैव विभावयेत् ।
एक एव प्रमाणं स विवादे तत्र कीर्तितः ।। ३५४ ।।

लेखकः प्राङ्विवाकश्च सभ्याश्चैवानुपूर्वशः ।
नृपे पश्यति यत्कार्यं साक्षिणः समुदाहृताः ।। ३५५ ।।

अन्ये पुनरनिर्दिष्टाः साक्षिणः समुदाहृताः ।
ग्रामश्च प्राङ्विवाकश्च राजा च व्यवहारिणाम् ।। ३५६ ।।

कार्येष्वभ्यन्तरो यश्च अर्थिना प्रहितश्च यः ।
कुल्याः कुलविवादेषु भवेयुस्तेऽपि साक्षिणः ।। ३५७ ।।

रिक्थभागविवादे तु संदेहे समुपस्थिते ।
कुल्यानां वचनं तत्र प्रमाणं तद्विपर्यये ।। ३५८ ।।

साक्षिणां लिखितानां तु निर्दिष्टानां च वादिना ।
तेषां एकोऽन्यथावादी भेदात्सर्वे न साक्षिणः ।। ३५९ ।।

अन्येन हि कृतः साक्षी नैवान्यस्तं विवादयेत् ।
तदभावे नियुक्तो वा बान्धवो वा विवादयेत् ।। ३६० ।।

तद्वृत्तिजीविनो ये च तत्सेवाहितकारिणः ।
तद्बन्धुसुहृदो भृत्या आप्तास्ते तु न साक्षिणः ।। ३६१ ।।

मातृष्वसृसुताश्चैव सोदर्यासुतमातुलाः ।
एते सनाभयस्तूक्ताः साक्ष्यं तेषु न योजयेत् ।। ३६२ ।।

कुल्याः संबन्धिनश्चैव विवाह्यो भगिनीपतिः ।
पिता बन्धुः पितृव्यश्च श्वशुरो गुरवस्तथा ।। ३६३ ।।

नगरग्रामदेशेषु नियुक्ता ये पदेषु च ।
वल्लभाश्च न पृच्छेयुर्भक्तास्ते राजपूरुषाः ।। ३६४ ।।

ऋणादिषु परीक्षेत साक्षिणः स्थिरकर्मसु ।
साहसात्ययिके चैव परीक्षा कुत्रचित्स्मृता ।। ३६५ ।।

व्याघातेषु नृपाज्ञायाः संग्रहे साहसेषु च ।
स्तेयपारुष्ययोश्चैव न परीक्षेत साक्षिणः ।। ३६६ ।।

अन्तर्वेश्मनि रात्रौ च बहिर्ग्रामाच्च यद्भवेत् ।
एतेष्वेवाभियोगश्चेन्न परीक्षेत साक्षिणः ।। ३६७ ।।

न साक्ष्यं साक्षिभिर्वाच्यं अपृष्टैरर्थिना सदा ।
न साक्ष्यं तेषु विद्येत स्वयं आत्मनि योजयेत् ।। ३६८ ।।

लेख्यारूढश्चोत्तरश्च साक्षी मार्गद्वयान्वितः ।। ३६९ ।।

अथ स्वहस्तेनारूढस्तिष्ठंश्चैकः स एव तु ।
न चेत्प्रत्यभिजानीयात्तत्स्वहस्तैः प्रसाधयेत् ।। ३७० ।।

अर्थिना स्वयं आनीतो यो लेख्ये संनिवेश्यते ।
स साक्षी लिखितो नाम स्मारितः पत्रकादृते ।। ३७१ ।।

यस्तु कार्यप्रसिद्ध्यर्थं दृष्ट्वा कार्यं पुनः पुनः ।
स्मार्यते ह्यर्थिना साक्षी स स्मारित इहोच्यते ।। ३७२ ।।

प्रयोजनार्थं आनीतः प्रसङ्गादागतश्च यः ।
द्वौ साक्षिणौ त्वलिखितौ पूर्वपक्षस्य साधकौ ।। ३७३ ।।

अर्थिना स्वार्थसिद्द्यर्थं प्रत्यर्थिवचनं स्फुटम् ।
यः श्रावितः स्थितो गूढो गूढसाक्षी स उच्यते ।। ३७४ ।।

साक्षिणां अपि यः साक्ष्यं उपर्युपरि भाषते ।
श्रवणाच्छ्रावणाद्वापि स साक्ष्युत्तरसंज्ञितः ।। ३७५ ।।

उल्लप्यं यस्य विश्रम्भात्कार्यं वा विनिवेदितम् ।
गूढचारी स विज्ञेयः कार्यं अध्यगतस्तथा ।। ३७६ ।।

अर्थी यत्र विपन्नः स्यात्तत्र साक्षी मृतान्तरः ।
प्रत्यर्थी च मृतो यत्र तत्राप्येवं प्रकल्प्यते ।। ३७७ ।।