यङन्तप्रक्रिया

 अथ यङन्तप्रक्रिया


धातोरेकाचो हलादेः क्रियासमभिहारे यङ्॥ लसक_७१४ = पा_३,१.२२॥
पौनःपुन्ये भृशार्थे च द्योत्ये धातोरेकाचो हलादेर्यङ् स्यात्॥

गुणो यङ्लुकोः॥ लसक_७१५ = पा_७,४.८२॥
अभ्यासस्य गुणो यङि यङ्लुकि च परतः। ङिदन्तत्वादात्मनेपदम्। पुनः पुनरतिशयेन वा भवति बोभूयते। बोभूयाञ्चक्रे। अबोभूयिष्ट॥

नित्यं कौटिल्ये गतौ॥ लसक_७१६ = पा_३,१.२३॥
गत्यर्थात्कौटिल्य एव यङ् स्यान्न तु क्रियासमभिहारे॥

दीर्घो ऽकितः॥ लसक_७१७ = पा_७,४.८३॥
अकितो ऽभ्यासस्य दीर्घो यङ्यङ्लुकोः। कुटिलं व्रजति वाव्रज्यते॥

यस्य हलः॥ लसक_७१८ = पा_६,४.४९॥
यस्येति संघातग्रहणम्। हलः परस्य यशब्दस्य लोप आर्धधातुके। आदेः परस्य। अतो लोपः। वाव्रजाञ्चक्रे। वाव्रजिता॥

रीगृदुपधस्य च॥ लसक_७१९ = पा_७,४.९०॥
ऋदुपधस्य धातोरभ्यासस्य रीगागमो यङ्यङ्लुकोः। वरीवृत्यते। वरीवृताञ्चक्रे। वरीवर्तिता॥

क्षुभ्नादिषु च॥ लसक_७२० = पा_८,४.३९॥
णत्वं न। नरीनृत्यते। जरीगृह्यते॥

इति यङन्त प्रक्रिया॥a