केवलसमासः

 अथ समासाः


अथ केवलसमासः॥ १॥

तत्रादौ केवलसमासः। समासः पञ्चधा। तत्र समसनं समासः। स च विशेषसंज्ञाविनिर्मुक्तः केवलसमासः प्रथमः॥ १॥ प्रायेण पूर्वपदार्थप्रधानोऽव्ययीभावो द्वितीयः॥ २॥ प्रायेणोत्तरपदार्थप्रधानस्तत्पुरुषस्तृतीयः॥ तत्पुरुषभेदः कर्मधारयः। कर्मधारयभेदो द्विगुः॥ ३॥ प्रायेणान्यपदार्थप्रधानो बहुव्रीहिश्चतुर्थः॥ ४॥ प्रायेणोभयपदार्थप्रधानो द्वन्द्वः पञ्चमः॥ ५॥

समर्थः पदविधिः॥ लसक_९०७ = पा_२,१.१॥
पदसंबन्धी यो विधिः स समर्थाश्रितो बोध्यः॥

प्राक्कडारात्समासः॥ लसक_९०८ = पा_२,१.३॥
कडाराः कर्मधारय इत्यतः प्राक् समास इत्यधिक्रियते॥

सह सुपा॥ लसक_९०९ = पा_२,१.४॥
सुप् सुपा सह वा समस्यते॥ समासत्वात्प्रातिपदिकत्वेन सुपो लुक्। परार्थाभिधानं वृत्तिः। कृत्तद्धितसमासैकशेषसनाद्यन्तधातुरूपाः पञ्च वृत्तयः। वृत्त्यर्थावबोधकं वाक्यं विग्रहः। सच लौकिकोऽलौकिकश्चेति द्विधा। तत्र पूर्वं भूत इति लौकिकः "पूर्व अम् भूत सु" इत्यलौकिकः। भूतपूर्वः। भूतपूर्वे चरडिति निर्देशात्पूर्वनिपातः। (इवेन समासो विभक्त्यलोपश्च)। वागर्थौ इव वागर्थाविव॥

इति केवलसमासः॥ १॥