छयतोरधिकारप्रकरणम्

 अथ छयतोरधिकारः


प्राक् क्रीताच्छः॥ लसक_११४० = पा_५,१.१॥
तेन क्रीतमित्यतः प्राक् छो ऽधिक्रियते॥

उगवादिभ्यो यत्॥ लसक_११४१ = पा_५,१.२॥
प्राक् क्रीतादित्येव। उवर्णान्ताद्गवादिभ्यश्च यत् स्यात्। छस्यापवादः। शङ्कवे हितं शङ्कव्यं दारु। गव्यम्। (नाभि नभं च)। नभ्यो ऽक्षः। नभ्यमञ्जनम्॥
तस्मै हितम्॥ लसक_११४२ = पा_५,१.५॥
वत्सेभ्यो हितो वत्सीयो गोधुक्॥

शरीरावयवाद्यत्॥ लसक_११४३ = पा_५,१.६॥
दन्त्यम्। कण्ठ्यम्। नस्यम्॥

आत्मन्विश्वजनभोगोत्तरपदात्खः॥ लसक_११४४ = पा_५,१.९॥

आत्माध्वानौ खे॥ लसक_११४५ = पा_६,४.१६९॥
एतौ खे प्रकृत्या स्तः। आत्मने हितम् आत्मनीनम्। विश्वजनीनम्। मातृभोगीणः॥

इति छयतोरवधिः। (प्राक्क्रीतीयाः)॥ ९॥