विष्णुस्मृतिः/चतुस्सप्ततितमोऽध्यायः

अथ श्राद्धेप्सुः पूर्वेद्युर्ब्राह्मणानामन्त्रयेत् । । ७३.१ । ।


द्वितीयेऽह्नि शुक्लपक्षस्य पूर्वाह्णे कृष्णपक्षस्यापराह्णे विप्रान्सुस्नातान्स्वाचान्तान्यथाभूयो वयःक्रमेण कुशोत्तरेष्वासनेषूपवेशयेत् । । ७३.२ । ।

द्वौ दैवे प्राङ्मुखौ त्रींश्च पित्र्ये उदङ्मुखान् । । ७३.३ । ।

एकैकं उभयत्र वेति । । ७३.४ । ।

आमश्राद्धेषु काम्येषु च प्रथमपञ्चकेनाग्निं हुत्वा । । ७३.५ । ।

पशुश्राद्धेषु मध्यमपञ्चकेन । । ७३.६ । ।

अमावास्यासूत्तमपञ्चकेन । । ७३.७ । ।

आग्रहायण्या ऊर्ध्वं कृष्णाष्टकासु च क्रमेणैव प्रथममध्यमोत्तमपञ्चकैः । । ७३.८ । ।

अन्वष्टकासु च । । ७३.९ । ।

ततो ब्राह्मणानुज्ञातः पितॄनावाहयेत् । । ७३.१० । ।

अपयन्त्वसुरा इति द्वाभ्यां तिलैः यातुधानानां विसर्जनं कृत्वा । । ७३.११ । ।

एत पितरः सर्वांस्तानग्र आ मे यन्त्वेतद्वः पितर इत्यावाहनं कृत्वा, कुशतिलमिश्रेण गन्धोदकेन यास्तिष्ठन्त्यमृता वागिति यन्मे मातेति च पाद्यं निवेद्य, अर्घ्यं कृत्वा निवेद्य चानुलेपनं कृत्वा कुशतिलवस्त्रपुष्पालंकारधूपदीपैर्यथाशक्त्या विप्रान्समभ्यर्च्य घृतप्लुतं अन्नं आदाय आदित्या रुद्रा वसव इति वीक्ष्य, अग्नौ करवाणीत्युक्त्वा तच्च विप्रैः कुर्वित्युक्ते आहुतित्रयं दद्यात् । । ७३.१२ । ।

ये मामकाः पितर एतद्वः पितरोऽयं यज्ञ इति च हविरनुमन्त्रणं कृत्वा यथोपपन्नेषु पात्रेषु विशेषाद्रजतमयेष्वन्नं नमो विश्वेभ्यो देवेभ्य इत्यन्नं आदौ प्राङ्मुखयोर्निवेदयेत् । । ७३.१३ । ।

पित्रे पितामहाय प्रपितामहाय च नामगोत्राभ्यां उदङ्मुखेषु । । ७३.१४ । ।

तददत्सु ब्राह्मणेषु यन्मे प्रकामादहोरात्रैर्यद्वः क्रव्यादिति जपेत् । । ७३.१५ । ।

इतिहासपुराणधर्मशास्त्राणि चेति । । ७३.१६ । ।

उच्छिष्टसंनिधौ दक्षिनाग्रेषु कुशेषु पृथिवी दर्विरक्षिता इत्येकं पिण्डं पित्रे निदध्यात् । । ७३.१७ । ।

अन्तरिक्षं दर्विरक्षिता इत्य्द्वितीयं पिण्डं पितामहाय । । ७३.१८ । ।

द्यौर्दर्विरक्षिता इति तृतीयं प्रपितामहाय । । ७३.१९ । ।

ये अत्र पितरः प्रेता इति वासो देयं । । ७३.२० । ।

वीरान्नः पितरो धत्त इत्यन्नं । । ७३.२१ । ।

अत्र पितरो मादयध्वं यथाभागं इति दर्भमूले करावघर्षणं । । ७३.२२ । ।

ऊर्जं वहन्तीरित्यनेन सोदकेन प्रदक्षिणं पिण्डानां विकिरणं कृत्वा अर्घपुष्पधूपालेपनान्नादिभक्ष्यभोज्यानि निवेदयेत् । । ७३.२३ । ।

उदकपात्रं मधुघृततिलैः संयुक्तं च । । ७३.२४ । ।

भुक्तवत्सु ब्राह्मणेषु तृप्तिं आगतेषु, मा मे क्षेष्थेत्यन्नं सतृणं अभ्युक्ष्यान्नविकिरं उच्छिष्टाग्रतः कृत्वा, तृप्ता भवन्तः संपन्नं इति च पृष्ट्वा उदङ्मुखेष्वाचमनं आदौ दत्त्वा, ततः प्राङ्मुखेषु दत्त्वा, ततश्च सुप्रोक्षितं इति श्राद्धदेशं संप्रोक्ष्य, दर्भपाणिः सर्वं कुर्यात् । । ७३.२५ । ।

ततः प्राङ्मुखाग्रतो यन्मे राम इति प्रदक्षिणं कृत्वा प्रत्येत्य च, यथाशक्तिदक्षिणाभिः समभ्यर्च्य, अभिरमन्तु भवन्त इत्युक्त्वा, तैरुक्तेऽभिरताः स्म इति, देवाश्च पितरश्चेत्यभिजपेत् । । ७३.२६ । ।

अक्षय्योदकं च नामगोत्राभ्यां दत्त्वा विश्वे देवाः प्रीयन्तां इति प्राङ्मुखेभ्यस्ततः प्राञ्जलिरिदं तन्मनाः सुमना याचेत । । ७३.२७ । ।

दातारो नोऽभिवर्धन्तां वेदाः संततिरेव च ।
श्रद्धा च नो मा व्यगमद्बहु देयं च नोऽस्त्विति । । ७३.२८ । ।

तथास्त्विति ब्रूयुः । । ७३.२९ । ।

अन्नं च नो बहु भवेदतिथींश्च लभेमहि ।
याचितारश्च नः सन्तु मा च याचिष्म कंचन । । ७३.३० । ।

इत्येताभ्यां आशिषः प्रतिगृह्य । । ७३.३१ । ।

वाजे वाज इत्य्च ततो ब्राह्मणांश्च विसर्जयेत् ।
पूजयित्वा यथान्यायं अनुव्रज्याभिवाद्य च । । ७३.३२ । ।