विष्णुस्मृतिः/शततमोऽध्यायः

धर्मशास्त्रं इदं श्रेष्ठं स्वयं देवेन भाषितम् ।

ये द्विजा धारयिष्यन्ति तेषां स्वर्गे गतिः परा । । १००.१ । ।

इदं पवित्रं मङ्गल्यं स्वर्ग्यं आयुष्यं एव च ।
ज्ञानं चैव यशस्यं च धनसौभाग्यवर्धनम् । । १००.२ । ।

अध्येतव्यं धारणीयं श्राव्यं श्रोतव्यं एव च ।
श्राद्धेषु श्रावणीयं च भूतिकामैर्नरैः सदा । । १००.३ । ।

य इदं पठते नित्यं भूतिकामो नरः सदा ।
इदं रहस्यं परमं कथितं च धरे तव । । १००.४ । ।

मया प्रसन्नेन जगद्धितार्थं सौभाग्यं एतत्परमं यशस्यम् ।
दुःस्वप्ननाशं बहुपुण्ययुक्तं शिवालयं शाश्वतधर्मशास्त्रम् । । १००.५ । ।