प्रागिवीयप्रकरणम्

 अथ प्रागिवीयाः


अतिशायने तमबिष्ठनौ॥ लसक_१२२१ = पा_५,३.५५॥
अतिशयविशिष्टार्थवृत्तेः स्वार्थ एतौ स्तः। अयमेषामतिशयेनाढ्यः आढ्यतमः। लघुतमः, लघिष्ठः॥

तिङश्च॥ लसक_१२२२ = पा_५,३.५६॥
तिङन्तादतिशये द्योत्ये तमप् स्यात्॥

तरप्तमपौ घः॥ लसक_१२२३ = पा_१,१.२२॥
एतौ घसंज्ञौ स्तः॥

किमेत्तिङव्ययघादाम्वद्रव्यप्रकर्षे॥ लसक_१२२४ = पा_५,४.११॥
किम एदन्तात्तिङोऽव्ययाच्च यो घस्तदन्तादामुः स्यान्न तु द्रव्यप्रकर्षे। किन्तमाम्। प्राह्णेतमाम्। पचतिमाम्। उच्चैस्तमाम्। द्रव्यप्रकर्षे तु उच्चैस्तमस्तरुः॥

द्विवचनविभज्योपपदे तरबीयसुनौ॥ लसक_१२२५ = पा_५,३.५७॥
द्वयोरेकस्यातिशये विभक्तव्ये चोपपदे सुप्तिङन्तादेतौ स्तः। पूर्वयोरपवादः। अयमनयोरतिशयेन लघुः लघुतरो लघीयान्। उदीच्याः प्राच्येभ्यः पटुतराः पटीयांसः॥

प्रशस्यस्य श्रः॥ लसक_१२२६ = पा_५,३.६०॥
अस्य श्रादेशः स्यादजाद्योः परतः॥

प्रकृत्यैकाच्॥ लसक_१२२७ = पा_६,४.१६३॥
इष्ठादिष्वेकाच् प्रकृत्या स्यात्। श्रेष्ठः, श्रेयान्॥

ज्य च॥ लसक_१२२८ = पा_५,३.६१॥
प्रशस्यस्य ज्यादेशः स्यादिष्ठेयसोः। ज्येष्ठः॥

ज्यादादीयसः॥ लसक_१२२९ = पा_६,४.१६०॥
आदेः परस्य। ज्यायान्॥

बहोर्लोपो भू च बहोः॥ लसक_१२३० = पा_६,४.१५८॥
बहोः परयोरिमेयसोर्लोपः स्याद्बहोश्च भूरादेशः। भूमा। भूयान्॥

इष्ठस्य यिट् च॥ लसक_१२३१ = पा_६,४.१५९॥
बहोः परस्य इष्ठस्य लोपः स्याद् यिडागमश्च। भूयिष्ठः॥

विन्मतोर्लुक्॥ लसक_१२३२ = पा_५,३.६५॥
विनो मतुपश्च लुक् स्यादिष्ठेयसोः। अतिशयेन स्रग्वी स्रजिष्ठः। स्रजीयान्। अतिशयेन त्वग्वान् त्वचिष्ठः। त्वचीयान्॥

ईषदसमाप्तौ कल्पब्देश्यदेशीयरः॥ लसक_१२३३ = पा_५,३.६७॥
ईषदूनो विद्वान् विद्वत्कल्पः। विद्वद्देश्यः। विद्वद्देशीयः। पचतिकल्पम्॥

विभाषा सुपो बहुच् पुरस्तात्तु॥ लसक_१२३४ = पा_५,३.६८॥
ईषदसमाप्तिविशिष्टेर्ऽथे सुबन्ताद्बहुज्वा स्यात्स च प्रागेव न तु परतः। ईषदूनः पटुर्बहुपटुः। पटुकल्पः। सुपः किम् ? जयति कल्पम्॥

प्रगिवात्कः॥ लसक_१२३५ = पा_५,३.७०॥
इवे प्रतिकृतावित्यतः प्राक्काधिकारः॥

अव्ययसर्वनाम्नामकच् प्राक् टेः॥ लसक_१२३६ = पा_५,३.७१॥
कापवादः। तिङश्चेत्यनुवर्तते॥

अज्ञाते॥ लसक_१२३७ = पा_५,३.७३॥
कस्यायमश्वो ऽश्वकः/ उच्चकैः/ नीचकैः/ सर्वके। (ओकारसकारभकारादौ सुपि सर्वनाम्नष्टेः प्रागकच्, अन्यत्र सुबन्तस्य)/ युष्मकाभिः। युवकयोः। त्वयका॥

कुत्सिते॥ लसक_१२३८ = पा_५,३.७४॥
कुत्सितो ऽश्वो ऽश्वकः॥

किंयत्तदो निर्धारणे द्वयोरेकस्य डतरच्॥ लसक_१२३९ = पा_५,३.९२॥
अनयोः कतरो वैष्णवः। यतरः। ततरः॥

वा बहूनां जातिपरिप्रश्ने डतमच्॥ लसक_१२४० = पा_५,३.९३॥
जातिपरिप्रश्न इति प्रत्याख्यातमाकरे। बहूनां मध्ये एकस्य निर्धारणे डतमज्वा स्यात्। कतमो भवतां कठः। यतमः। ततमः। वाग्रहणमकजर्थम्। यकः। सकः॥

इति प्रागिवीयाः॥ १५॥