विष्णुस्मृतिः/नवाशीतितमोऽध्यायः

मासः कार्त्तिकोऽग्निदैवत्यः । । ८९.१ । ।


अग्निश्च सर्वदेवानां मुखं । । ८९.२ । ।

तस्मात्तु कार्त्तिकं मासं बहिःस्नायी गायत्रीजपनिरतः सकृदेव हविष्याशी संवत्सरकृतात्पापात्पूतो भवति । । ८९.३ । ।

कार्त्तिकं सकलं मासं नित्यस्नायी जितेन्द्रियः ।
जपन्हविष्यभुग्दान्तः सर्वपापैः प्रमुच्यते । । ८९.४ । ।