विष्णुस्मृतिः/पञ्चमोऽध्यायः

अथ महापातकिनो ब्राह्मणवर्जं सर्वे वध्याः । । ५.१ । ।


न शारीरो ब्राह्मणस्य दण्डः । । ५.२ । ।

स्वदेशात्ब्राह्मणं कृताङ्कं विवासयेत् । । ५.३ । ।

तस्य च ब्रह्महत्यायां अशिरस्कं पुरुषं ललाटे कुर्यात् । । ५.४ । ।

सुराध्वजं सुरापाने । । ५.५ । ।

श्वपदं स्तेये । । ५.६ । ।

भगं गुरुतल्पगमने । । ५.७ । ।

अन्यत्रापि वध्यकर्मणि तिष्ठन्तं समग्रधनं अक्षतं विवासयेत् । । ५.८ । ।

कूटशासनकर्तॄंश्च राजा हन्यात् । । ५.९ । ।

कूटलेख्यकारांश्च । । ५.१० । ।

गरदाग्निदप्रसह्यतस्करान्स्त्रीबालपुरुषघातिनश्च । । ५.११ । ।

ये च धान्यं दशभ्यः कुम्भेभ्योऽधिकं अपहरेयुः । । ५.१२ । ।

धरिममेयानां शतादभ्यधिकं । । ५.१३ । ।

ये चाकुलीना राज्यं अभिकामयेयुः । । ५.१४ । ।

सेतुभेदकांश्च । । ५.१५ । ।

प्रसह्य तस्कराणां चावकाशभक्तप्रदांश्च । । ५.१६ । ।

अन्यत्र राजाशक्तेः । । ५.१७ । ।

स्त्रियं अशक्तभर्तृकां तदतिक्रमणीं च । । ५.१८ । ।

हीनवर्णोऽधिकवर्णस्य येनाङ्गेनापराधं कुर्यात्तदेवास्य शातयेत् । । ५.१९ । ।

एकासनोपवेशी कट्यां कृताङ्को निर्वास्यः । । ५.२० । ।

निष्ठीव्यौष्ठद्वयविहीनः कार्यः । । ५.२१ । ।

अवशर्धयिता च गुदहीनः । । ५.२२ । ।

आक्रोशयिता च विजिह्वः । । ५.२३ । ।

दर्पेण धर्मोपदेशकारिणां राजा तप्तं आसेचयेत्तैलं आस्ये । । ५.२४ । ।

द्रोहेण च नामजातिग्रहणे दशाङ्गुलोऽस्य शङ्कुर्निखेयः । । ५.२५ । ।

श्रुतदेशजातिकर्मणां अन्यथावादी कार्शापणशतद्वयं दण्ड्यः । । ५.२६ । ।

काणखञ्जादीनां तथ्यवाद्यपि कार्शापणद्वयं । । ५.२७ । ।

गुरूनाक्षिपन्कार्शापणशतद्वयं । । ५.२८ । ।

परस्य पतनीयाक्षेपे कृते तूत्तमसाहसं । । ५.२९ । ।

उपपातकयुक्ते मध्यमं । । ५.३० । ।

त्रैविद्यवृद्धानां क्षेपे जातिपूगानां च । । ५.३१ । ।

ग्रामदेशयोश्च प्रथमसाहसं । । ५.३२ । ।

न्यङ्गतायुक्ते क्षेपे कार्शापणशतं । । ५.३३ । ।

मातृयुक्ते तूत्तमं । । ५.३४ । ।

समवर्णाक्रोशने द्वादश पणान्दण्ड्यः । । ५.३५ । ।

हीनवर्णाकृओशने षट् । । ५.३६ । ।

यथाकालं उत्तमवर्णाक्षेपे तत्प्रमाणो दण्डः । । ५.३७ । ।

त्रयो वा कार्षापणाः । । ५.३८ । ।

शुक्तवाक्याभिधाने त्वेवं एव । । ५.३९ । ।

पारजायी सवर्णागमने तूत्तमसाहसं दण्ड्यः । । ५.४० । ।

हीनवर्णागमने मध्यमं । । ५.४१ । ।

गोगमने च । । ५.४२ । ।

अन्त्यागमने वध्यः । । ५.४३ । ।

पशुगमने कार्षापणशतं दण्ड्यः । । ५.४४ । ।

दोषं अनाख्याय कन्यां प्रयच्छंश्च । । ५.४५ । ।

तां च बिभृयात् । । ५.४६ । ।

अदुष्टां दुष्टां इति ब्रुवन्नुत्तमसाहसं । । ५.४७ । ।

गजाश्वोष्ट्रगोघाती त्वेककरपादः कार्यः । । ५.४८ । ।

विमांसविक्रयी च । । ५.४९ । ।

ग्राम्यपशुघाती कार्षापणशतं दण्ड्यः । । ५.५० । ।

पशुस्वामिने तन्मूल्यं दद्यात् । । ५.५१ । ।

आरण्यपशुघाती पञ्चाशतं कार्षापणान् । । ५.५२ । ।

पक्षिघाती मत्स्यघाती च दश कार्षापणान् । । ५.५३ । ।

कीटोपघाती च कार्षापणं । । ५.५४ । ।

फलोपगमद्रुमच्छेदी तूत्तमसाहसं । । ५.५५ । ।

पुष्पोपगमद्रुमच्छेदी मध्यमं । । ५.५६ । ।

वल्लीगुल्मलताच्छेदी कार्षापणशतं । । ५.५७ । ।

तृणच्छेद्येकं । । ५.५८ । ।

सर्वे च तत्स्वामिनां तदुत्पत्तिं । । ५.५९ । ।

हस्तेनोद्गूरयिता दशकार्षापणं । । ५.६० । ।

पादेन विंशतिं । । ५.६१ । ।

काष्ठेन प्रथमसाहसं । । ५.६२ । ।

पाषाणेन मध्यमं । । ५.६३ । ।

शस्त्रेणोत्तमं । । ५.६४ । ।

पादकेशांशुककरलुञ्चने दश पणान् । । ५.६५ । ।

शोणितेन विना दुःखं उत्पादयिता द्वात्रिंशत्पणान् । । ५.६६ । ।

सह शोणितेन चतुःषष्टिं । । ५.६७ । ।

करपाददन्तभङ्गे कर्णनासाविकर्तने मध्यमं । । ५.६८ । ।

चेष्टाभोजनवाग्रोधे प्रहारदाने च । । ५.६९ । ।

नेत्रकंधराबाहुसक्थ्यंसभङ्गे चोत्तमं । । ५.७० । ।

उभयनेत्रभेदिनं राजा यावज्जीवं बन्धनान्न मुञ्चेत् । । ५.७१ । ।

तादृशं एव वा कुर्यात् । । ५.७२ । ।

एकं बहूनां निघ्नतां प्रत्येकं उक्ताद्दण्डाद्द्विगुणः । । ५.७३ । ।

उत्क्रोशन्तं अनभिधावतां तत्समीपवर्तिनां संसरतां च । । ५.७४ । ।

सर्वे च पुरुषपीडाकरास्तदुत्थानव्ययं दद्युः । । ५.७५ । ।

ग्राम्यपशुपीडाकराश्च । । ५.७६ । ।

गोऽश्वोष्ट्रगजापहार्येककरपादः कार्यः । । ५.७७ । ।

अजाव्यपहार्येककरश्च । । ५.७८ । ।

धान्यापहार्येकादशगुणं दण्ड्यः । । ५.७९ । ।

सस्यापहारी च । । ५.८० । ।

सुवर्णरजतवस्त्राणां पञ्चाशतस्त्वभ्यधिकं अपहरन्विकरः । । ५.८१ । ।

तदूनं एकादशगुणं दण्ड्यः । । ५.८२ । ।

सूत्रकार्पासगोमयगुडदधिक्षीरतक्रतृणलवणमृद्भस्मपक्षिमत्स्यघृततैलमांसमधुवैदलवेणुमृन्मयलोहभाण्डानां अपहर्ता मूल्यात्त्रिगुणं दण्ड्यः । । ५.८३ । ।

पक्वान्नानां च । । ५.८४ । ।

पुष्पहरितगुल्मवल्लीलतापर्णानां अपहरणे पञ्चकृष्णलं । । ५.८५ । ।

शाकमूलफलानां च । । ५.८६ । ।

रत्नापहार्युत्तमसाहसं । । ५.८७ । ।

अनुक्तद्रव्याणां अपहर्ता मूल्यसमं । । ५.८८ । ।

स्तेनाः सर्वं अपहृतं धनिकस्य दाप्याः । । ५.८९ । ।

ततस्तेषां अभिहितदण्डप्रयोगः । । ५.९० । ।

येषां देयः पन्थास्तेषां अपथदायी कार्षापणपञ्चविंशतिं दण्ड्यः । । ५.९१ । ।

आसनार्हस्यासनं अददच्च । । ५.९२ । ।

पूजार्हं अपूजयंश्च । । ५.९३ । ।

प्रातिवेश्यब्राह्मणनिमन्त्रणातिक्रमणे च । । ५.९४ । ।
निमन्त्रयित्वा भोजनादायिनश्च । । ५.९५ । ।

निमन्त्रितस्तथेत्युक्त्वा चाभुञ्जानः सुवर्णमाषकं । । ५.९६ । ।

निकेतयितुश्च द्विगुणं अन्नं । । ५.९७ । ।

अभक्ष्येण ब्राह्मणस्य दूषयिता षोडश सुवर्णान् । । ५.९८ । ।

जात्यपहारिणा शतं । । ५.९९ । ।

सुरया वध्यः । । ५.१०० । ।

क्षत्रियं दूषयितुस्तदर्धं । । ५.१०१ । ।

वैश्यं दूषयितुस्तदर्धं अपि । । ५.१०२ । ।

शूद्रं दूषयितुः प्रथमसाहसं । । ५.१०३ । ।

अस्पृश्यः कामकारेण स्पृशन्स्पृश्यं त्रैवर्णिकं वध्यः । । ५.१०४ । ।

रजस्वलां शिफाभिस्ताडयेत् । । ५.१०५ । ।

पथ्युद्यानोदकसमीपेऽप्यशुचिकारी पणशतं । । ५.१०६ । ।

तच्चापास्यात् । । ५.१०७ । ।

गृहभूकुड्याद्युपभेत्ता मध्यमसाहसं । । ५.१०८ । ।

तच्च योजयेत् । । ५.१०९ । ।

गृहे पीडाकरं द्रव्यं प्रक्षिपन्पणशतं । । ५.११० । ।

साधारणापलापी च । । ५.१११ । ।

प्रेषितस्याप्रदाता च । । ५.११२ । ।

पितृपुत्राचार्ययाज्यर्त्विजां अन्योन्यापतितत्यागी च । । ५.११३ । ।

न च तान्जह्यात् । । ५.११४ । ।

शूद्रप्रव्रजितानां दैवे पित्र्ये भोजकाश्च । । ५.११५ । ।

अयोग्यकर्मकारी च । । ५.११६ । ।

समुद्रगृहभेदकश्च । । ५.११७ । ।

अनियुक्तः शपथकारी । । ५.११८ । ।

पशूनां पुंस्त्वोपघातकारी । । ५.११९ । ।

पितापुत्रविरोधे साक्षिणां दशपणो दण्डः । । ५.१२० । ।

यस्तयोश्चान्तरे स्यात्तस्योत्तमसाहसः । । ५.१२१ । ।

तुलामानकूटकर्तुश्च । । ५.१२२ । ।

तदकूटे कूटवादिनश्च । । ५.१२३ । ।

द्रव्याणां प्रतिरूपविक्रयिकस्य च । । ५.१२४ । ।

संभूय वणिजां पण्यं अनर्घेणावरुन्धतां । । ५.१२५ । ।

प्रत्येकं विक्रीणतां च । । ५.१२६ । ।

गृहीतमूल्यं यः पण्यं क्रेतुर्नैव दद्यात्, तस्यासौ सोदयं दाप्यः । । ५.१२७ । ।

राज्ञा च पणशतं दण्ड्यः । । ५.१२८ । ।

क्रीतं अक्रीणतो या हानिः सा क्रेतुरेव स्यात् । । ५.१२९ । ।

राजनिषिद्धं विक्रीणतस्तदपहारः । । ५.१३० । ।

तरिकः स्थलजं शुल्कं गृह्णन्दशपणान्दण्ड्यः । । ५.१३१ । ।

ब्रह्मचारिवानप्रस्थभिक्षुगुर्विणीतीर्थानुसारिणां नाविकः शौल्किकः शुल्कं आददानश्च । । ५.१३२ । ।

तच्च तेषां दद्यात् । । ५.१३३ । ।

द्यूते कूटाक्षदेविनां करच्छेदः । । ५.१३४ । ।

उपधिदेविनां संदंशच्छेदः । । ५.१३५ । ।

ग्रन्थिभेदकानां च । । ५.१३६ । ।

उत्क्षेपकानां च करच्छेदः । । ५.१३७ । ।

दिवा पशूनां वृकाद्युपघाते पाले त्वनायति पालदोषः । । ५.१३८ । ।

विनष्टपशुमूल्यं च स्वामिने दद्यात् । । ५.१३९ । ।

अननुज्ञातां दुहन्पञ्चविंशतिं कार्षापणान् । । ५.१४० । ।

महिषी चेत्सस्यनाशं कुर्यात्, तत्पालस्त्वष्टौ माषान्दण्ड्यः । । ५.१४१ । ।

अपालायाः स्वामी । । ५.१४२ । ।

अश्वस्तूष्ट्रो गर्दभो वा । । ५.१४३ । ।

गौश्चेत्तदर्धं । । ५.१४४ । ।

तदर्धं अजाविकं । । ५.१४५ । ।

भक्षयित्वोपविष्टेषु द्विगुणं । । ५.१४६ । ।

सर्वत्र स्वामिने विनष्टसस्यमूल्यं च । । ५.१४७ । ।

पथि ग्रामे विवीतान्ते न दोषः । । ५.१४८ । ।

अनावृते च । । ५.१४९ । ।

अल्पकालं । । ५.१५० । ।

उत्सृष्टवृषभसूतिकानां च । । ५.१५१ । ।

यस्तूत्तमवर्णान्दास्ये नियोजयेत्तस्योत्तमसाहसो दण्डः । । ५.१५२ । ।

त्यक्तप्रव्रज्यो राज्ञो दास्यं कुर्यात् । । ५.१५३ । ।

भृतकश्चापूर्णे काले भृतिं त्यजन्सकलं एव मूल्यं दद्यात् । । ५.१५४ । ।

जाज्ञे च पणशतं दद्यात् । । ५.१५५ । ।

तद्दोषेण यद्विनश्येत्तत्स्वामिने । । ५.१५६ । ।

अन्यत्र दैवोपघातात् । । ५.१५७ । ।

स्वामी चेत्भृतकं अपूर्णे काले जह्यात्, तस्य सर्वं एव मूल्यं दद्यात् । । ५.१५८ । ।

पणशतं च राजनि । । ५.१५९ । ।

अन्यत्र भृतकदोशात् । । ५.१६० । ।

यः कन्यां पूर्वदत्तां अन्यस्मै दद्यात्, स चौरवच्छास्यः । । ५.१६१ । ।

वरदोषं विना । । ५.१६२ । ।

निर्दोषां परित्यजन् । । ५.१६३ । ।

पत्नीं च । । ५.१६४ । ।

अजानानः प्रकाशं यः परद्रव्यं क्रीणीयात्, तत्र तस्य न दोषः । । ५.१६५ । ।

स्वामी द्रव्यं आप्नुयात् । । ५.१६६ । ।

यद्यप्रकाशं हीनमूल्यं च क्रीणीयात्, तदा क्रेता विक्रेता च चौरवच्छास्यौ । । ५.१६७ । ।

गणद्रव्यापहर्ता विवास्यः । । ५.१६८ । ।

तत्संविदं यश्च लङ्घयेत् । । ५.१६९ । ।

निक्षेपापहार्यर्थवृद्धिसहितं धनं धनिकस्य दाप्यः । । ५.१७० । ।

राज्ञा चौरवच्छास्यः । । ५.१७१ । ।

यश्चानिक्षिप्तं निक्षिप्तं इति ब्रूयात् । । ५.१७२ । ।

सीमाभेत्तारं उत्तमसाहसं दण्डयित्वा पुनः सीमां कारयेत् । । ५.१७३ । ।

जातिभ्रंशकरस्याभक्ष्यस्य भक्षयिता विवास्यः । । ५.१७४ । ।

अभक्ष्यस्याविक्रेयस्य विक्रयी देवप्रतिमाभेदकश्चोत्तमसाहसं दण्डनीयः । । ५.१७५ । ।

भिषङ्मिथ्याचरन्नुत्तमेषु पुरुषेषु । । ५.१७६ । ।

मध्यमेषु मध्यमं । । ५.१७७ । ।

तिर्यक्षु प्रथमं । । ५.१७८ । ।

प्रतिश्रुतस्याप्रदायी तद्दापयित्वा प्रथमसाहसं दण्ड्यः । । ५.१७९ । ।

कूटसाक्षिणां सर्वस्वापहारः कार्यः । । ५.१८० । ।

उत्कोचोपजीविनां सभ्यानां च । । ५.१८१ । ।

गोचर्ममात्राधिकां भुवं अन्यस्याधीकृतां तस्मादनिर्मोच्यान्यस्य यः प्रयच्छेत्स वध्यः । । ५.१८२ । ।

ऊनां चेत्षोडश सुवर्णान्दण्ड्यः । । ५.१८३ । ।

एकोऽश्नीयाद्यदुत्पन्नं नरः संवत्सरं फलम् ।
गोचर्ममात्रा सा क्षोणी स्तोका वा यदि वा बहु । । ५.१८४ । ।

ययोर्निक्षिप्त आधिस्तौ विवदेतां यदा नरौ ।
यस्य भुक्तिः फलं तस्य बलात्कारं विना कृता । । ५.१८५ । ।

सागमेन तु भोगेन भुक्तं सम्यग्यदा तु यत् ।
आहर्ता लभते तत्र नापहार्यं तु तत्क्वचित् । । ५.१८६ । ।

पित्रा भुक्तं तु यद्द्रव्यं भुक्त्याचारेण धर्मतः ।
तस्मिन्प्रेते न वाच्योऽसौ भुक्त्या प्राप्तं हि तस्य तत् । । ५.१८७ । ।

त्रिभिरेव तु या भुक्ता पुरुषैर्भूर्यथाविधि ।
लेख्याभावेऽपि तां तत्र चतुर्थः समवाप्नुयात् । । ५.१८८ । ।

नखिनां शृङ्गिणां चैव दंष्ट्रिणां आततायिनाम् ।
हस्त्यश्वानां तथान्येषां वधे हन्ता न दोषभाक् । । ५.१८९ । ।

गुरुं वा बालवृद्धौ वा ब्राह्मणं वा बहुश्रुतम् ।
आततायिनं आयान्तं हन्यादेवाविचारयन् । । ५.१९० । ।

नाततायिवधे दोषो हन्तुर्भवति कश्चन ।
प्रकाशं वाप्रकाशं वा मन्युस्तन्मन्युं ऋच्छति । । ५.१९१ । ।

उद्यतासिविषाग्निं च शापोद्यतकरं तथा ।
आथर्वणेन हन्तारं पिशुनं चैव राजसु । । ५.१९२ । ।

भार्यातिक्रमिणं चैव विद्यात्सप्ताततायिनः ।
यशोवित्तहरानन्यानाहुर्धर्मार्थहारकान् । । ५.१९३ । ।

उद्देशतस्ते कथितो धरे दण्डविधिर्मया ।
सर्वेषां अपराधानां विस्तरादतिविस्तरः । । ५.१९४ । ।

अपराधेषु चान्येसु ज्ञात्वा जातिं धनं वयः ।
दण्डं प्रकल्पयेद्राजा संमन्त्र्य ब्राह्मणैः सह । । ५.१९५ । ।

दण्ड्यं प्रमोचयन्दण्ड्याद्द्विगुणं दण्डं आवहेत् ।
नियुक्तश्चाप्यदण्ड्यानां दण्डकारी नराधमः । । ५.१९६ । ।

यस्य चौरः पुरे नास्ति नान्यस्त्रीगो न दुष्टवाक् ।
न साहसिकदण्डघ्नौ स राजा शक्रलोकभाक् । । ५.१९७ । ।