कण्ड्वादिः

 अथ कण्ड्वादयः॥


कण्ड्वादिभ्यो यक्॥ लसक_७३३ = पा_३,१.२७॥
एभ्यो धातुभ्यो नित्यं यक् स्यात्स्वार्थे। कण्डूञ् गात्रविघर्षणे॥ १॥ कण्डूयति। कण्डूयत इत्यादि॥

इति कण्ड्वादयः॥