दिव्यानि तेषां च विवादपदविषयिणी व्यवस्था

न कश्चिदभियोक्तारं दिव्येषु विनियोजयेत् ।

अभियुक्ताय दातव्यं दिव्यं दिव्यविशारदैः ।। ४११ ।।

पार्थिवैः शङ्कितानां तु तुलादीनि नियोजयेत् ।
आत्मशुद्धिविधाने च न शिरस्तत्र कल्पयेत् ।। ४१२ ।।

लोकापवाददुष्टानां शङ्कितानां च दस्युभिः ।
तुलादीनि नियोज्यानि न शिरस्तत्र वै भृगुः ।। ४१३ ।।

न शङ्कासु शिरः कोशे कल्पयेत्तु कदाचन ।
अशिरांसि च दिव्यानि राजभृत्येषु दापयेत् ।। ४१४ ।।

शङ्काविश्वाससंधाने विभागे रिक्थिनां सदा ।
क्रियासमूहकर्तृत्वे कोशं एव प्रदापयेत् ।। ४१५ ।।

दत्तस्यापह्नवो यत्र प्रमाणं तत्र कल्पयेत् ।
स्तेयसाहसयोर्दिव्यं स्वल्पेऽप्यर्थे प्रदापयेत् ।। ४१६ ।।

सर्वद्रव्यप्रमाणं तु ज्ञात्वा हेम प्रकल्पयेत् ।
हेमप्रमाणयुक्तं तु तदा दिव्यं नियोजयेत् ।। ४१७ ।।

ज्ञात्वा संख्यां सुवर्णानां शतनाशे विषं स्मृतम् ।
अशीतेस्तु विनाशे वै दद्याच्चैव हुताशनम् ।। ४१८ ।।

षष्ट्या नाशे जलं देयं चत्वारिंशति वै घटम् ।
विंशद्दशविनाशे वै कोशपानं विधीयते ।। ४१९ ।।

पञ्चाधिकस्य वा नाशे तदर्धार्धस्य तन्दुलाः ।
तदर्धार्धस्य नाशे तु स्पृशेत्पुत्रादिमस्तकम् ।। ४२० ।।

तदर्धार्धस्य नाशे तु लौकिकाश्च क्रियाः स्मृताः ।
एवं विचारयन्राजा धर्मार्थाभ्यां न हीयते ।। ४२१ ।।