विष्णुस्मृतिः/सप्तनवतितमोऽध्यायः

ऊरुस्थोत्तानचरणः सव्ये करे करं इतरं न्यस्य तालुस्थाचलजिह्वो दन्तैर्दन्तानसंस्पृशन्स्वं नासिकाग्रं पश्यन्दिशश्चानवलोकयन्विभीः प्रशान्तात्मा चतुर्विंशत्या तत्त्वैर्व्यतीतं चिन्तयेत् । । ९७.१ । ।


नित्यं अतीन्द्रियं अगुणं शब्दस्पर्शरूपरसगन्धातीतं सर्वज्ञं अतिस्थूलं । । ९७.२ । ।
सर्वगं अतिसूक्ष्मं । । ९७.३ । ।

सर्वतःपाणिपादं सर्वतोऽक्षिशिरोमुखं सर्वतः सर्वेन्द्रियशक्तिं । । ९७.४ । ।

एवं ध्यायेत् । । ९७.५ । ।

ध्याननिरतस्य च संवत्सरेण योगाविर्भावो भवति । । ९७.६ । ।

अथ निराकारे लक्षबन्धं कर्तुं न शक्नोति, तदा पृथिव्यप्तेजोवाय्वाकाशमनोबुद्ध्यात्माव्यक्तपुरुषाणां पूर्वं पूर्वं ध्यात्वा तत्र लब्धलक्षः तत्परित्यज्यापरं अपरं ध्यायेत् । । ९७.७ । ।

एवं पुरुषध्यानं आरभेत । । ९७.८ । ।

तत्राप्यसमर्थः स्वहृदयपद्मस्य अवाङ्मुखस्य मध्ये दीपवत्पुरुषं ध्यायेत् । । ९७.९ । ।

तत्राप्यसमर्थो भगवन्तं वासुदेवं किरीटिनं कुण्डलिनं अङ्गदिनं श्रीवत्साङ्कं वनमालाविभूषितोरस्कं सौम्यरूपं चतुर्भुजं शङ्खचक्रगदापद्मधरं चरणमध्यगतभुवं ध्यायेत् । । ९७.१० । ।

यद्ध्यायति तदाप्नोतीति ध्यानगुह्यं । । ९७.११ । ।

तस्मात्सर्वं एव क्षरं त्यक्त्वा अक्षरं एव ध्यायेत् । । ९७.१२ । ।

न च पुरुषं विना किंचिदप्यक्षरं अस्ति । । ९७.१३ । ।

तं प्राप्य मुक्तो भवति । । ९७.१४ । ।

पुरं आक्रम्य सकलं शेते यस्मान्महाप्रभुः ।
तस्मात्पुरुष इत्येवं प्रोच्यते तत्त्वचिन्तकैः । । ९७.१५ । ।

प्राग्रात्रापररात्रेषु योगी नित्यं अतन्द्रितः ।
ध्यायेत पुरुषं विष्णुं निर्गुणं पञ्चविंशकम् । । ९७.१६ । ।

तत्त्वात्मानं अगम्यं च सर्वतत्त्वविवर्जितम् ।
अशक्तं सर्वभृच्चैव निर्गुणं गुणभोक्तृ च । । ९७.१७ । ।

बहिरन्तश्च भूतानां अचरं चरं एव च ।
सूक्ष्मत्वात्तदविज्ञेयं दूरस्थं चान्तिके च तत् । । ९७.१८ । ।

अविभक्तं च भूतेन विभक्तं इव च स्थितम् ।
भूतभव्यभवद्रूपं ग्रसिष्णु प्रभविष्णु च । । ९७.१९ । ।

ज्योतिषां अपि तज्ज्योतिस्तमसः परं उच्यते ।
ज्ञानं ज्ञेयं ज्ञानगम्यं हृदि सर्वस्य धिष्ठितम् । । ९७.२० । ।

इति क्षेत्रं तथा ज्ञानं ज्ञेयं चोक्तं समासतः ।
मद्भक्त एतद्विज्ञाय मद्भावायोपपद्यते । । ९७.२१ । ।