चुरादिप्रकरणम्

 अथ चुरादयः


चुर स्तेये॥ १॥

सत्यापपाशरूपवीणातूलश्लोकसेनालोमत्वचवर्मवर्णचूर्ण चुरादिभ्यो णिच्॥ लसक_६९७ = पा_२,१.२५॥
एभ्यो णिच् स्यात्। चूर्णान्तेभ्यः ऽप्रातिपदिकाद्धात्वर्थे&८२१७॑ इत्येव सिद्धे तेषामिह ग्रहणं प्रपञ्चार्थम्। चुरादिभ्यस्तु स्वार्थे। पुगन्तेति गुणः। सनाद्यन्ता इति धातुत्वम्। तिप्शबादि। गुणायादेशौ। चोरयति॥

णिचश्च॥ लसक_६९८ = पा_१,३.७४॥
णिजन्तादात्मनेपदं स्यात्कर्तृगामिनि क्रियाफले। चोरयते। चोरयामास। चोरयिता। चोर्यात्, चोरयिषीष्ट। णिश्रीति चङ्। णौ चङीति ह्रस्वः। चङीति द्वित्वम्। हलादिः शेषः। दीर्घो लघोरित्यभ्यासस्य दीर्घः। अचूचुरत्, अचूचुरत॥ कथ वाक्यप्रबन्धे॥ २॥ अल्लोपः॥

अचः परस्मिन्पूर्वविधौ॥ लसक_६९९ = पा_१,१.५७॥
अल्विध्यर्थमिदम्। परनिमित्तो ऽजादेशः स्थानिवत् स्यात्स्थानि भूतादचः पूर्वत्वेन दृष्टस्य विधौ कर्तव्ये। इति स्थानिवत्वान्नोपधावृद्धिः। कथयति। अग्लोपित्वाद्दीर्घसन्वद्भावौ न। अचकथत्॥ गण संख्याने॥ ३॥ गणयति॥

ई च गणः॥ लसक_७०० = पा_७,४.९७॥
गणयतेरभ्यासस्य ई स्याच्चङ्परे णौ चादत्। अजीगणत्, अजगणत्॥

इति चुरादयः॥