विष्णुस्मृतिः/एकत्रिंशत्तमोऽध्यायः

त्रयः पुरुषस्यातिगुरवो भवन्ति । । ३१.१ । ।


माता पिता आचार्यश्च । । ३१.२ । ।

तेषां नित्यं एव शुश्रूषुणा भवितव्यं । । ३१.३ । ।

यत्ते ब्रूयुस्तत्कुर्यात् । । ३१.४ । ।

तेषां प्रियहितं आचरेत् । । ३१.५ । ।

न तैरननुज्ञातः किंचिदपि कुर्यात् । । ३१.६ । ।

एत एव त्रयो वेदा एत एव त्रयः सुराः ।
एत एव त्रयो लोका एत एव त्रयोऽग्नयः । । ३१.७ । ।

पिता गार्हप्त्योऽग्निः दक्षिनाग्निर्माता गुरुराहवनीयः । । ३१.८ । ।

सर्वे तस्यादृता धर्मा यस्यैते त्रय आदृताः ।
अनादृत्यास्तु यस्यैते सर्वास्तस्याफलाः क्रियाः । । ३१.९ । ।

इमं लोकं मातृभक्त्या पितृभक्त्या तु मध्यमम् ।
गुरुशुश्रूषया त्वेव ब्रह्मलोकं समाश्नुते । । ३१.१० । ।