शैषिकप्रकरणम्

 अथ शैषिकाः


शेषे॥ लसक_१०७१ = पा_४,१.९२॥
अपत्यादिचतुरर्थ्यन्तादन्योर्ऽथः शेषस्तत्राणादयः स्युः। चक्षुषा गृह्यते चाक्षुषं रूपम्। श्रावणः शब्दः। औपनिषदः पुरुषः। दृषदि पिष्टा दार्षदाः सक्तवः। चतुर्भिरुह्यं चातुरं शकटम्। चतुर्दश्यां दृश्यते चातुर्दशं रक्षः। "तस्य विकारः&८२१७॑ इत्यतः प्राक् शेषाधिकारः॥

राष्ट्रावारपाराद्घखौ॥ लसक_१०७२ = पा_४,२.९३॥
आभ्यां क्रमाद् घखौ स्तः शेषे। राष्ट्रे जातादिः राष्ट्रियः/ अवारपारीणः/ (अवारपाराद्विगृहीतादपि विपरीताच्चेति वक्तव्यम्)। अवारीणः/ पारीणः/ पारावारीणः/ इह प्रकृतिविशेषाद् घादयष्ट्युट्युलन्ताः प्रत्यया उच्यन्ते तेषां जातादयोर्ऽथविशेषाः समर्थ विभक्तयश्च वक्ष्यन्ते॥

ग्रामाद्यखञौ॥ लसक_१०७३ = पा_४,२.९४॥
ग्राम्यः। ग्रामीणः॥

नद्यादिभ्यो ढक्॥ लसक_१०७४ = पा_४,२.९७॥
नादेयम्। माहेयम्। वाराणसेयम्॥

दक्षिणापश्चात्पुरसस्त्यक्॥ लसक_१०७५ = पा_४,२.९८॥
दाक्षिणात्यः। पाश्चात्यः। पौरस्त्यः॥

द्युप्रागपागुदक्प्रतीचो यत्॥ लसक_१०७६ = पा_४,२.१०१॥
दिव्यम्। प्राच्यम्। अपाच्यम्। उदीच्यम्। प्रतीच्यम्॥

अव्ययात्त्यप्॥ लसक_१०७७ = पा_४,२.१०४॥
(अमेहक्वतसित्रेभ्य एव)। अमात्यः। इहत्यः। क्वत्यः। ततस्त्यः। तत्रत्यः। (त्यब्नेर्ध्रुव इति वक्तव्यम्)। नित्यः॥

वृद्धिर्यस्याचामादिस्तद्वृद्धम्॥ लसक_१०७८ = पा_१,१.७३॥
यस्य समुदायस्याचां मध्ये आदिर्वृद्धिस्तद्वृद्धसंज्ञं स्यात्॥

त्यदादीनि च॥ लसक_१०७९ = पा_१,१.७४॥
वृद्धसंज्ञानि स्युः॥

वृद्धाच्छः॥ लसक_१०८० = पा_४,२.११४॥
शालीयः। मालीयः। तदीयः। (वा नामधेयस्य वृद्धसंज्ञा वक्तव्या)। देवदत्तीयः, दैवदत्तः॥

गहादिभ्यश्च॥ लसक_१०८१ = पा_४,२.१३८॥
गहीयः॥

युष्मदस्मदोरन्यतरस्यां खञ् च॥ लसक_१०८२ = पा_४,३.१॥
चाच्छः। पक्षे ऽण्। युवयोर्युष्माकं युष्मदीयः, अस्मदीयः॥

तस्मिन्नणि च युष्माकास्माकौ॥ लसक_१०८३ = पा_४,३.२॥
युष्मदस्मदोरेतावादेशौ स्तः खञ्यणि च। यौष्माकीणः। आस्माकीनः। यौष्माकः। आस्माकः॥

तवकममकावेकवचने॥ लसक_१०८४ = पा_४,३.३॥
एकार्थवाचिनोर्युष्मदस्मदोस्तवकममकौ स्तः खञि अणि च। तावकीनः। तावकः। मामकीनः। मामकः। छे तु - .

प्रत्ययोत्तरपदयोश्च ॥ लसक_१०८५ = पा_७,२.९८॥
मपर्यन्तयोरेतयोरेकार्थवाचिनोस्त्वमौ स्तः प्रत्यये उत्तरपदे च परतः। त्वदीयः। मदीयः। त्वत्पुत्रः। मत्पुत्रः॥

मध्यान्मः॥ लसक_१०८६ = पा_४,३.८॥
मध्यमः॥

कालाट्ठञ्॥ लसक_१०८७ = पा_४,३.११॥
कालवाचिभ्यष्ठञ् स्यात्। कालिकम्। मासिकम्। सांवत्सरिकम्। (अव्ययानां भमात्रे टिलोपः)। सायम्प्रातिकः। पौनः पुनिकः॥

प्रावृष एण्यः॥ लसक_१०८८ = पा_४,३.१७॥
प्रावृषेण्यः॥

सायञ्चिरम्प्राह्णेप्रगे ऽव्ययेभ्यष्ट्युट्युलौ तुट् च॥ लसक_१०८९ = पा_४,३.२३॥
सायमित्यादिभ्यश्चतुर्भ्यो ऽव्ययेभ्यश्च कालवाचिभ्यष्ट्युट्युलौ स्तस्तयोस्तुट् च। सायन्तनम्। चिरन्तनम्। प्राह्णे प्रगे अनयोरेदन्तत्वं निपात्यते। प्राह्णेतनम्। प्रगेतनम्। दोषातनम्॥

तत्र जातः॥ लसक_१०९० = पा_४,३.२५॥
सप्तमीसमर्थाज्जात इत्यर्थे ऽणादयो घादयश्च स्युः। स्रुग्घ्ने जातः स्रौग्घ्नः। उत्से जात औत्सः। राष्ट्रे जातो राष्ट्रियः। अवारपारे जातः अवारपारीणः, इत्यादि//

प्रावृषष्ठप्॥ लसक_१०९१ = पा_४,३.२६॥
एण्यापवादः। प्रावृषिकः॥

प्रायभवः॥ लसक_१०९२ = पा_४,३.३९॥
तत्रेत्येव। स्रुग्घ्ने प्रायेण बाहुल्येन भवति स्रौग्घ्नः॥

सम्भूते॥ लसक_१०९३ = पा_४,३.४१॥
स्रुग्घ्ने संभवति स्रौग्घ्नः॥

कोशाड्ढञ्॥ लसक_१०९४ = पा_४,३.४२॥
कौशेयम् वस्त्रम्॥

तत्र भवः॥ लसक_१०९५ = पा_४,३.५३॥
स्रुग्घ्ने भवः स्रौग्घ्नः। औत्सः। राष्ट्रियः॥

दिगादिभ्यो यत्॥ लसक_१०९६ = पा_४,३.५४॥
दिश्यम्। वर्ग्यम्॥

शरीरावयवाच्च॥ लसक_१०९७ = पा_४,३.५५॥
दन्त्यम्। कण्ठ्यम्। (अध्यात्मादेष्ठञिष्यते) अध्यात्मं भवमाध्यात्मिकम्॥

अनुशतिकादीनां च॥ लसक_१०९८ = पा_७,३.२०॥
एषामुभयपदवृद्धिर्ञिति णिति किति च/ आधिदैविकम्/ आधिभौतिकम्/ ऐहलौकिकम्/ पारलोकिकम्/ आकृतिगणो ऽयम्॥

जिह्वामूलाङ्गुलेश्छः॥ लसक_१०९९ = पा_४,३.६२॥
जिह्वामूलीयम्। अङ्गुलीयम्॥

वर्गान्ताच्च॥ लसक_११०० = पा_४,३.६३॥
कवर्गीयम्॥

तत आगतः॥ लसक_११०१ = पा_४,३.७४॥
स्रुग्घ्नादागतः स्रौग्घ्नः॥

ठगायस्थानेभ्यः॥ लसक_११०२ = पा_४,३.७५॥
शुल्कशालाया आगतः शौल्कशालिकः॥

विद्यायोनिसंबन्धेभ्यो वुञ्॥ लसक_११०३ = पा_४,३.७७॥
औपाध्यायकः। पैतामहकः॥

हेतुमनुष्येभ्यो ऽन्यतरस्यां रूप्यः॥ लसक_११०४ = पा_४,३.८१॥
समादागतं समरूप्यम्। पक्षे - गहादित्वाच्छः। समीयम्। विषमीयम्। देवदत्तरूप्यम्। दैवदत्तम्॥

मयट् च॥ लसक_११०५ = पा_४,३.८२॥
सममयम्। देवदत्तमयम्॥

प्रभवति॥ लसक_११०६ = पा_४,३.८३॥
हिमवतः प्रभवति हैमवती गङ्गा॥

तद्गच्छति पथिदूतयोः॥ लसक_११०७ = पा_४,३.८५॥
स्रुग्घ्नं गच्छति स्रौग्ध्नः पन्था दूतो वा॥

अभिनिष्क्रामति द्वारम्॥ लसक_११०८ = पा_४,३.८६॥
स्रुग्घ्नमभिनिष्क्रामति स्रौग्घ्नं कान्यकुब्जद्वारम्॥

अधिकृत्य कृते ग्रन्थे॥ लसक_११०९ = पा_४,३.८७॥
शारीरकमधिकृत्य कृतो ग्रन्थः शारीरकीयः॥

सो ऽस्य निवासः॥ लसक_१११० = पा_४,३.८९॥
स्रुग्घ्नो निवासो ऽस्य स्रौग्घ्नः॥

तेन प्रोक्तम्॥ लसक_११११ = पा_४,३.१०१॥
पाणिनिना प्रोक्तं पाणिनीयम्॥

तस्येदम्॥ लसक_१११२ = पा_४,३.१२०॥
उपगोरिदम् औपगवम्॥

इति शैषिकाः॥ ५॥