कर्मकर्तृप्रकिया

 अथ कर्मकर्तृप्रक्रिया


यदा कर्मैव कर्तृत्वेन विवक्षितं तदा सकर्मकाणामप्यकर्मकत्वात्कर्तरि भावे च लकारः॥

कर्मवत्कर्मणा तुल्यक्रियः॥ लसक_७६३ = पा_३,१.८७॥
कर्मस्थया क्रियया तुल्यक्रियः कर्ता कर्मवत्स्यात्। कार्यातिदेशो ऽयम्। तेन यगात्मनेपदचिण्वदिटः स्युः। पच्यते फलम्। भिद्यते काष्ठम्। अभेदि। भावे, भिद्यते काष्ठेन॥

इति कर्मकर्तृप्रक्रिया॥