विष्णुस्मृतिः/चतुर्दशोऽध्यायः

अथ कोशः । । १४.१ । ।


उग्रान्देवान्समभ्यर्च्य तत्स्नानोदकात्प्रसृतित्रयं पिबेत् । । १४.२ । ।

इदं मया न कृतं इति वदन्स्थापितदेवताभिमुखः । । १४.३ । ।

यस्य पश्येद्द्विसप्ताहात्त्रिसप्ताहादथापि वा ।
रोगोऽग्निर्ज्ञातिमरणं राजातङ्कं अथापि वा । । १४.४ । ।

तं अशुद्धं विजानीयात्तथा शुद्धं विपर्यये ।
दिव्ये च शुद्धं पुरुषं सत्कुर्याद्धार्मिको नृपः । । १४.५ । ।