भ्‍वादिगण:

भ्‍वादिगण: -  दशक्रियागणा: सन्ति ।  तेषु भ्‍वादिगण: प्रथम: गण: अस्ति ।  अस्‍य नाम भ्‍वादिगण इति अभवत् भू धातो: गणस्‍य प्रथमधातुत्‍वात् ।  दशगणेषु धातूनाम् आहत्‍य संख्या 1970मिति अस्ति । यासु 1035 तु केवलं भ्‍वादिगणे सन्ति ।
     भ्‍वादिगणीय धातुषु धातु-प्रत्‍ययो: मध्‍ये शप् (अ) विकरणं लगति (कर्तरि शप्)।  मूलप्रत्‍ययै: (ति त: अन्ति) सह् शप् (अ) इति मिलित्‍वा 'अति, अत:, अन्ति' इति भवन्ति ।
     धातो: अन्तिमं स्‍वरं 'इ ई, उ उू, ऋ ऋृ, तथा च उपधाया: (अन्तिमवर्णस्‍य पूर्वतनम्) इकार, उकार, ऋकारस्‍य च गुणादेश: (ए, ओ, अर्) भवति ।  अन्तिमस्‍य गुणस्‍य एकारस्‍य 'अय्' इति  ओकारस्‍य च 'अव्' इति भवति ।  यथा -
भू + अ + ति = भवति,
नि + अ + ति = नयति
हृ + अ + ति = हरति आदि
   लट्, लोट्, लड्., विधिलिड्. चादे: संक्षिप्‍तरूपाणि अधोविधि चलन्ति ।

परस्‍मैपदम्  

लट् लकार:
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुष:अतिअत:अन्ति
मध्‍यमपुरुष:असिअथ:अथ
उत्‍तमपुरुष:आमिआव:आम:

लड्. लकार:
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुष:अत्अताम्अन्
मध्‍यमपुरुष:अ:अतम्अत
उत्‍तमपुरुष:अम्आवआम

 लोट् लकार:
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुष:अतुअताम्अन्‍तु
मध्‍यमपुरुष:अतम्अत
उत्‍तमपुरुष:आनिआवआम

विधिलिड्. लकार:
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुष:एत्एताम्एयु:
मध्‍यमपुरुष:ए:एतम्एत
उत्‍तमपुरुष:एयम्एवएम

 आत्‍मनेपदीयम्

लट् लकार:
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुष:अतेएतेअन्‍ते
मध्‍यमपुरुष:असेएथेअध्‍वे
उत्‍तमपुरुष:आवहेआमहे

 लड्. लकार:
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुष:अतएताम्अन्‍त
मध्‍यमपुरुष:अथा:एथाम्अध्‍वम्
उत्‍तमपुरुष:आवहिआमहि

लोट् लकार:
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुष:अताम्एताम्अन्‍ताम्
मध्‍यमपुरुष:अस्‍वएथाम्अध्‍वम्
उत्‍तमपुरुष:आवहैआमहै

 विधिलिड्. लकार:
एकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुष:एतएताम्एरन्
मध्‍यमपुरुष:एथा:एयाथाम्एध्‍वम्
उत्‍तमपुरुष:एयएवहिएमहि

       एवं विधा सर्वाणि भ्‍वादिगणीयधातुरूपाणि चलन्ति ।  अग्रे वयं मुख्‍यधातूनां रूपाणि सर्वेषु लकारेषु पश्‍याम: ।

इति