पिङ्गलछन्दःसूत्रम्/अष्टमोऽध्यायः

अत्रानुक्तं गाथा । ८.१ ।

द्विकौ ग्लौ । ८.२ ।

मिश्रौ च । ८.३ ।

पृथग्लामिश्राः । ८.४ ।

वसवस्त्रिकाः । ८.५ ।

लर्धे । ८.६ ।

सैकेग् । ८.७ ।

प्रतिलोमगुणं द्विर्लाद्यम् । ८.८ ।

ततोग्येकं जह्यात् । ८.९ ।

द्विरर्धे । ८.१० ।

रूपं शुन्यम् । ८.११ ।

द्विः शून्ये । ८.१२ ।

तावदर्धे तद्गुणितम् । ८.१३ ।

द्विर्द्व्यूनम् । ८.१४ ।

तदन्तानाम् । ८.१५ ।

एकोनेद्धा । ८.१६ ।

परेपूर्णं परे पूर्णमिति।। । ८.१७ ।