विभक्त्यर्थाः (कारकप्रकरणम्)

 अथ विभक्तयर्थाः

प्रातिपदिकार्थलिङ्गपरिमाणवचनमात्रे प्रथमा॥ लसक_८९१ = पा_२,३.४६॥
नियतोपस्थितिकः प्रातिपदिकार्थः। मात्रशब्दस्य प्रत्येकं योगः। प्रातिपदिकार्थमात्रे लिङ्गमात्राद्याधिक्ये परिमाणमात्रे संख्यामात्रे च प्रथमा स्यात्। प्रातिपदिकार्थमात्रे - उच्चैः। नीचैः। कृष्णः। श्रीः। ज्ञानम्। लिङ्गमात्रे - तटः, तटी, तटम्। परिमाणमात्रे - द्रोणो व्रीहिः। वचनं संख्या। एकः, द्वौ, बहवः॥

सम्बोधने च॥ लसक_८९२ = पा_२,३.४७॥
प्रथमा स्यात्। हे राम।
&न्ब्स्प्॑&न्ब्स्प्॑&न्ब्स्प्॑िति प्रथमा।

कर्तुरीप्सिततमं कर्म॥ लसक_८९३ = पा_१,४.४९॥
कर्तुः क्रियया आप्तुमिष्टतमं कारकं कर्मसंज्ञं स्यात्॥

कर्मणि द्वितीया॥ लसक_८९४ = पा_२,३.२॥
अनुक्ते कर्मणि द्वितीया स्यात्। हरिं भजति। अभिहिते तु कर्मादौ प्रथमा - हरिः सेव्यते। लक्ष्म्या सेवितः॥

अकथितं च॥ लसक_८९५ = पा_१,४.५१॥
अपादानादिविशेषैरविवक्षितं कारकं कर्मसंज्ञं स्यात्।
&न्ब्स्प्॑दुह्याच्पच्दण्ड् रुधिप्रच्छिचिब्रूशासुजिमथ्मुषाम्।
&न्ब्स्प्॑कर्मयुक् स्यादकथितं तथा स्यान्नीहृकृष्वहाम्॥ १॥
गां दोग्धि पयः। बलिं याचते वसुधाम्। तण्डुलानोदनं पचति। गर्गान् शतं दण्डयति। व्रजमवरुणद्धि गाम्। माणवकं पन्थानं पृच्छति। वृक्षमवचिनोति फलानि। माणवकं धर्मं ब्रूते शास्ति वा। शतं जयति देवदत्तम्। सुधां क्षीरनिधिं मथ्नाति। देवदत्तं शतं मुष्णाति। ग्राममजां नयति हरति कर्षति वहति वा। अर्थनिबन्धनेयं संज्ञा। बलिं भिक्षते वसुधाम्। माणवकं धर्मं भाषते अभिवत्ते वक्तीत्यादि॥
&न्ब्स्प्॑&न्ब्स्प्॑&न्ब्स्प्॑िति द्वितीया।

स्वतन्त्रः कर्ता॥ लसक_८९६ = पा_१,४.५४॥
क्रियायां स्वातन्त्र्येण विवक्षितोर्ऽथः कर्ता स्यात्॥

साधकतमं करणम्॥ लसक_८९७ = पा_१,४.४२॥
क्रियासिद्धौ प्रकृष्टोपकारकं करणसंज्ञं स्यात्॥

कर्तृकरणयोस्तृतीया॥ लसक_८९८ = पा_२,३.२८॥
अनभिहिते कर्तरि करणे च तृतीया स्यात्। रामेण बाणेन हतो वाली//
&न्ब्स्प्॑&न्ब्स्प्॑&न्ब्स्प्॑िति तृतीया।

कर्मणा यमभिप्रैति स सम्प्रदानम्॥ लसक_८९९ = पा_१,४.३२॥
दानस्य कर्मणा यमभिप्रैति स सम्प्रदानसंज्ञः स्यात्॥

चतुर्थी सम्प्रदाने॥ लसक_९०० = पा_२,३.१३॥
विप्राय गां ददाति॥

नमस्स्वस्तिस्वाहास्वधालंवषड्योगाच्च॥ लसक_९०१ = पा_२,३.१६॥
एभिर्योगे चतुर्थी। हरये नमः। प्रजाभ्यः स्वस्ति। अग्नये स्वाहा। पितृभ्यः स्वधा। अलमिति पर्याप्त्यर्थग्रहणम्। तेन दैत्येभ्यो हरिरलं प्रभुः समर्थः शक्त इत्यादि॥
&न्ब्स्प्॑&न्ब्स्प्॑&न्ब्स्प्॑िति चतुर्थी।

ध्रुवमपाये ऽपादानम्॥ लसक_९०२ = पा_१,४.२४॥
अपायो विश्लेषस्तस्मिन्साध्ये यद् ध्रुवमवधिभूतं कारकं तदपादानं स्यात्॥

अपादाने पञ्चमी॥ लसक_९०३ = पा_२,३.२८॥
ग्रामादायाति। धावतो ऽश्वात्पततीत्यादि॥
&न्ब्स्प्॑&न्ब्स्प्॑&न्ब्स्प्॑िति पञ्चमी।

षष्ठी शेषे॥ लसक_९०४ = पा_२,३.५०॥
कारकप्रातिपदिकार्थव्यतिरिक्तः स्वस्वामिभावादिः संबन्धः शेषस्तत्र षष्ठी। राज्ञः पुरुषः। कर्मादीनापि संबन्धमात्रविवक्षायां षष्ठ्येव। सतां गतम्। सर्पिषो जानीते। मातुः स्मरति। एधोदकस्योपस्कुरुते। भजे शम्भोश्चरणयोः॥
&न्ब्स्प्॑&न्ब्स्प्॑&न्ब्स्प्॑िति षष्ठी।

आधारो ऽधिकरणम्॥ लसक_९०५ = पा_१,४.४५॥
कर्तृकर्मद्वारा तन्निष्ठक्रियाया आधारः कारकमधिकरणं स्यात्॥

सप्तम्यधिकरणे च॥ लसक_९०६ = पा_२,३.३६॥
अधिकरणे सप्तमी स्यात्, चकाराद्दूरान्तिकार्थेभ्यः। औपश्लेषिको वैषयिको &८२१७॑ भिव्यापकश्चेत्याधारस्त्रिधा। कटे आस्ते। स्थाल्यां पचति। मोक्षे इच्छास्ति। सर्वस्मिन्नात्मास्ति। वनस्य दूरे अन्तिके वा॥
&न्ब्स्प्॑&न्ब्स्प्॑&न्ब्स्प्॑िति सप्तमी।
इति विभक्त्यर्थाः॥