स्तेयम्

प्रच्छन्नं वा प्रकाशं वा निशायां अथ वा दिवा ।

यत्परद्रव्यहरणं स्तेयं तत्परिकीर्तितम् ।। ८१० ।।

अन्यहस्तात्परिभ्रष्टं अकामादुद्धृतं भुवि ।
चौरेण वा परिक्षिप्तं लोप्त्रं यत्नात्परीक्षयेत् ।। ८११ ।।

तुलामानप्रतिमान प्रतिरूपकलक्षितैः ।
चरन्नलक्षितैर्वापि प्राप्नुयात्पूर्वसाहसम् ।। ८१२ ।।

गृहे तु मुषितं राजा चौरग्राहांस्तु दापयेत् ।
आरक्षकांश्च दिक्पालान्यदि चौरो न लभ्यते ।। ८१३ ।।

ग्रामान्तरे हृतं द्रव्यं ग्रामाध्यक्षं प्रदापयेत् ।
विवीते स्वामिना देयं चौरोद्धर्ता विवीतके ।। ८१४ ।।

स्वदेशे यस्य यत्किंचिद्धृतं देयं नृपेण तु ।
गृह्णीयात्तत्स्वयं नष्टं प्राप्तं अन्विष्य पार्थिवः ।। ८१५ ।।

चौरैर्हृतं प्रयत्नेन स्वरूपं प्रतिपादयेत् ।
तदभावे तु मूल्यं स्यादन्यथा किल्विषी नृपः ।। ८१६ ।।

लब्धेऽपि चौरे यदि तु मोषस्तस्मान्न लभ्यते ।
दद्यात्तं अथ वा चौरं दापयेत्तु यथेष्टतः ।। ८१७ ।।

तस्मिंश्चेद्दाप्यमानानां भवेद्दोषे तु संशयः ।
मुषितः शपथं दाप्यो बन्धुभिर्वा विशोधयेत् ।। ८१८ ।।

यस्मादपहृताल्लब्धं द्रव्यात्स्वल्पं तु स्वामिना ।
तच्शेषं आप्नुयात्तस्मात्प्रत्यये स्वामिना कृते ।। ८१९ ।।

स्वदेशघातिनो ये स्युस्तथा मार्गनिरोधकाः ।
तेषां सर्वस्वं आदाय राजा शूले निवेशयेत् ।। ८२० ।।

अचोराद्दापितं द्रव्यं चौरान्वेषणतत्परैः ।
उपलब्धे लभेरंस्ते द्विगुणं तत्र दापयेत् ।। ८२१ ।।

येन येन परद्रोहं करोत्यङ्गेन तस्करः ।
छिन्द्यादङ्गं नृपस्तस्य न करोति यथा पुनः ।। ८२२ः१ ।।

त्रपुषे वारुके द्वे तु पञ्चाम्रं पञ्चदाडिमम् ।
खर्जूरबदरादीनां मुष्टिं गृह्णन्न दुष्यति ।। ८२२ः२ ।।

मानवाः सद्य एवाहुः सहोढानां प्रवासनम् ।
गौतमानां अनिष्टं यत्प्राण्युच्छेदद्विगर्हितम् ।। ८२३ ।।

सहोढं असहोढं वा तत्त्वागमितसाहसम् ।
प्रगृह्याच्छिन्नं आवेद्य सर्वस्वैर्विप्रयोजयेत् ।। ८२४ ।।

अयःसन्दानगुप्तास्तु मन्दभक्ता बलान्विताः ।
कुर्युः कर्माणि नृपतेरामृत्योरिति कौशिकः ।। ८२५ ।।

परदेशाद्धृतं द्रव्यं वैदेश्येन यदा भवेत् ।
गृहीत्वा तस्य तद्द्रव्यं अदण्डं तं विसर्जयेत् ।। ८२६ ।।

चोराणां भक्तदा ये स्युस्तथाग्न्युदकदायकाः ।
क्रेतारश्चैव भाण्डानां प्रतिग्राहिण एव च ।
समदण्डाः स्मृता ह्येते ये च प्रच्छादयन्ति तान् ।। ८२७ ।।

अविद्वान्याजको वा स्यात्प्रवक्ता चानवस्थितः ।
तौ उभौ चोरदण्डेन विनीय स्थापयेत्पथि ।। ८२८ ।।