विष्णुस्मृतिः/त्रिचत्वारिंशत्तमोऽध्यायः

अथ नरकाः । । ४३.१ । ।


तामिस्रं । । ४३.२ । ।

अन्धतामिस्रं । । ४३.३ । ।

रौरवं । । ४३.४ । ।

महारौरवं । । ४३.५ । ।

कालसूत्रं । । ४३.६ । ।

महानरकं । । ४३.७ । ।

संजीवनं । । ४३.८ । ।

अवीचि । । ४३.९ । ।

तपनं । । ४३.१० । ।

संप्रतापनं । । ४३.११ । ।

संघातकं । । ४३.१२ । ।

काकोलं । । ४३.१३ । ।

कुड्मलं । । ४३.१४ । ।

पूतिमृत्तिकं । । ४३.१५ । ।

लोहशङ्कुः । । ४३.१६ । ।

ऋबीसं । । ४३.१७ । ।

विषमपन्थाः । । ४३.१८ । ।

कण्टकशाल्मलिः । । ४३.१९ । ।

दीपनदी । । ४३.२० । ।

असिपत्रवनं । । ४३.२१ । ।

लोहचारकं इति । । ४३.२२ । ।

एतेष्वकृतप्रायश्चित्ता अतिपातकिनः पर्यायेण कल्पं पच्यन्ते । । ४३.२३ । ।

महापातकिनो मन्वन्तरं । । ४३.२४ । ।

अनुपातकिनश्च । । ४३.२५ । ।
उपपातकिनश्चतुर्युगं । । ४३.२६ । ।

कृतसंकरीकरणाश्च संवत्सरसहस्रं । । ४३.२७ । ।

कृतजातिभ्रंशकरणाश्च । । ४३.२८ । ।

कृतापात्रीकरणाश्च । । ४३.२९ । ।

कृतमलिनीकरणाश्च । । ४३.३० । ।

प्रकीर्णपातकिनश्च बहून्वर्षपूगान् । । ४३.३१ । ।

कृतपातकिनः पापाः प्राणत्यागादनन्तरम् ।
याम्यं पन्थानं आसाद्य दुःखं अश्नन्ति दारुणम् । । ४३.३२ । ।

यमस्य पुरुषैर्घोरैः कृष्यमाणा यतस्ततः ।
सकृच्छ्रेणानुकारेण नीयमानाश्च ते यथा । । ४३.३३ । ।

श्वभिः शृगालैः क्रव्यादैः काककङ्कबकादिभिः ।
अग्नितुण्डैर्भक्ष्यमाणा भुजङ्गैर्वृश्चिकैस्तथा । । ४३.३४ । ।

अग्निना दह्यमानाश्च तुद्यमानाश्च कण्टकैः ।
क्रकचैः पाट्यमानाश्च पीड्यमानाश्च तृष्णया । । ४३.३५ । ।

क्षुधया व्यथमानाश्च घोरैर्व्याघ्रगणैस्तथा ।
पूयशोणितगन्धेन मूर्छमानाः पदे पदे । । ४३.३६ । ।

परान्नपानं लिप्सन्तस्ताद्यमानाश्च किंकरैः ।
काककङ्कबकादीनां भीमानां सदृशाननैः । । ४३.३७ । ।

क्वचित्तैलेन क्वाथ्यन्ते ताड्यन्ते मुसलैः क्वचित् ।
आयसीषु च वट्यन्ते शिलासु च तथा क्वचित् । । ४३.३८ । ।

क्वचिद्वान्तं अथाश्नन्ति क्वचित्पूयं असृक्क्वचित् ।
क्वचिद्विष्ठां क्वचिन्मांसं पूयगन्धि सुदारुणम् । । ४३.३९ । ।

अन्धकारेषु तिष्ठन्ति दारुणेषु तथा क्वचित् ।
क्रिमिभिर्भक्ष्यमाणाश्च वह्नितुण्डैः सुदारुणैः । । ४३.४० । ।

क्वचिच्छीतेन बाध्यन्ते क्वचित्चामेध्यमध्यगाः ।
परस्परं अथाश्नन्ति क्वचित्प्रेताः सुदारुणाः । । ४३.४१ । ।

क्वचिद्भूतेन ताड्यन्ते लम्बमानास्तथा क्वचित् ।
क्वचित्क्षिप्यन्ति बानौघैरुत्कृत्यन्ते तथा क्वचित् । । ४३.४२ । ।

कण्टेषु दत्तपादाश्च भुजङ्गाभोगवेष्टिताः ।
पीड्यमानास्तथा यन्त्रैः कृष्यमाणाश्च जानुभिः । । ४३.४३ । ।

भग्नपृष्ठशिरोग्रीवाः सूचीकण्ठाः सुदारुणाः ।
कूटागारप्रमाणैश्च शरीरैर्यातनाक्षमैः । । ४३.४४ । ।

एवं पातकिनः पापं अनुभूय सुदुःखिताः ।
तिर्यग्योनौ प्रपद्यन्ते दुःखानि विविधानि च । । ४३.४५ । ।