आत्मनेपदप्रकिया

 अथात्मनेपदप्रक्रिया


कर्तरि कर्मव्यतिहारे॥ लसक_७३४ = पा_१,३.१४॥
क्रियाविनिमये द्योत्ये कर्तर्यात्मनेपदम्। व्यतिलुनीते। अन्यस्य योग्यं लवनं करोतीत्यर्थः॥

न गतिहिंसार्थेभ्यः॥ लसक_७३५ = पा_१,३.१५॥
व्यतिगच्छन्ति। व्यतिघ्नन्ति॥

नेर्विशः॥ लसक_७३६ = पा_१,३.१७॥
निविशते॥

परिव्यवेभ्यः क्रियः॥ लसक_७३७ = पा_१,३.१८॥
परिक्रीणीते। विक्रीणीते। अवक्रीणीते॥

विपराभ्यां जेः॥ लसक_७३८ = पा_१,३.१९॥
विजयते। पराजयते॥

समवप्रविभ्यः स्थः॥ लसक_७३९ = पा_१,३.२२॥
संतिष्ठते। अवतिष्ठते। प्रतिष्ठते। वितिष्ठते॥

अपह्नवे ज्ञः॥ लसक_७४० = पा_१,३.४४॥
शतमपजानीते। अपलपतीत्यर्थः॥

अकर्मकाच्च॥ लसक_७४१ = पा_१,३.४५॥
सर्पिषो जानीते। सर्पिषोपायेन प्रवर्तत इत्यर्थः॥

उदश्चरः सकर्मकात्॥ लसक_७४२ = पा_१,३.५३॥
धर्ममुच्चरते। उल्लङ्घ्य गच्छतीत्यर्थः॥

समस्तृतीयायुक्तात्॥ लसक_७४३ = पा_१,३.५४॥
रथेन सञ्चरते॥

दाणश्च सा चेच्चतुर्थ्यर्थे॥ लसक_७४४ = पा_१,३.५५॥
सम्पूर्वाद्दाणस्तृतीयान्तेन युक्तादुक्तं स्यात् तृतीया चेच्चतुर्थ्यर्थे। दास्या संयच्छते कामी॥

पूर्ववत्सनः॥ लसक_७४५ = पा_१,२.६२॥
सनः पूर्वो यो धातुस्तेन तुल्यं सन्नन्तादप्यात्मनेपदं स्यात्। एदिधिष्यते॥

हलन्ताच्च॥ लसक_७४६ = पा_१,२.१०॥
इक्समीपाद्धलः परो झलादिः सन् कित्। निविविक्षते॥

गन्धनावक्षेपणसेवनसाहसिक्यप्रतियत्नप्रकथनोपयोगेषु॥ लसक_७४७ = पा_१,३.३२॥ कृञः
गन्धनं सूचनम्। उत्कुरुते। सूचयतीत्यर्थः। अवक्षेपणं भर्त्सनम्। श्येनो वर्तिकामुत्कुरुते। भर्त्सयतीत्यर्थः। हरिमुपकुरुते। सेवत इत्यर्थः। परदारान् प्रकुरुते। तेषु सहसा प्रवर्तते। एधोदकस्योपस्कुरुते। गुणमाधत्ते। कथाः प्रकुरुते। प्रकथयतीत्यर्थः। शतं प्रकुरुते। धर्मार्थं विनियुङ्क्ते। एषु किम् ? कटं करोति॥

भुजो ऽनवने॥ लसक_७४८ = पा_१,३.६६॥
ओदनं भुङ्क्ते। अनवने किम् ? महीं भुनक्ति॥

इत्यात्मनेपदप्रक्रिया॥