दायविभागः

सकलं द्रव्यजातं यद्भागैर्गृह्णन्ति तत्समैः ।

पितरो भ्रातरश्चैव विभागो धर्म्य उच्यते ।। ८३८ ।।

पैतामहं समानं स्यात्पितुः पुत्रस्य चोभयोः ।
स्वयं चोपार्जिते पित्रा न पुत्रः स्वाम्यं अर्हति ।। ८३९ ।।

पैतामहं च पित्र्यं च यच्चान्यत्स्वयं अर्जितम् ।
दायादानां विभागे तु सर्वं एतद्विभज्यते ।। ८४० ।।

दृश्यमानं विभज्येत गृहं क्षेत्रं चतुष्पदम् ।
गूढद्रव्याभिशङ्कायां प्रत्ययस्तत्र कीर्तितः ।। ८४१ ।।

गृहोपस्करवाह्याश्च दोह्याभरणकर्मिणः ।
दृश्यमाना विभज्यन्ते कोशं गूढेऽब्रवीद्भृगुः ।। ८४२ ।।

जीवद्विभागे तु पिता नैकं पुत्रं विशेषयेत् ।
निर्भाजयेन्न चैवैकं अकस्मात्कारणं विना ।। ८४३ ।।

संप्राप्तव्यवहाराणां विभागश्च विधीयते ।
पुंसां च षोडशे वर्षे जायते व्यवहारिता ।। ८४४ ।।

अप्राप्तव्यवहाराणां च धनं व्ययविवर्जितम् ।
न्यसेयुर्बन्धुमित्रेषु प्रोषितानां तथैव च ।। ८४५ः१ ।।

प्रोषितस्य तु यो भागो रक्षेयुः सर्व एव तम् ।
बालपुत्रे मृते रिक्थं रक्ष्यं तत्तन्तुबन्धुभिः ।
पौगण्डाः परतस्तं तु विभजेरन्यथांशतः ।। ८४५ः२ ।।

भ्रात्रा पितृव्यमातृभ्यां कुटुम्बार्थं ऋणं कृतम् ।
विभागकाले देयं तद् रिक्थिभिः सर्वं एव तु ।। ८४६ ।।

तदृणं धनिने देयं नान्यथैव प्रदापयेत् ।
भावितं चेत्प्रमाणेन विरोधात्परतो यदा ।। ८४७ ।।

धर्मार्थं प्रीतिदत्तं च यदृणं स्यान्नियोजितम् ।
तद्दृश्यमानं विभजेन्न दानं पैतृकाद्धनात् ।। ८४८ ।।

पित्र्यं पित्र्यर्णसंशुद्धं आत्मीयं चात्मना कृतम् ।
ऋणं एवंविधं शोध्यं विभागे बन्धुभिः सह ।। ८४९ ।।

ऋणं प्रीतिप्रदानं च दत्त्वा शेषं विभाजयेत् ।। ८५० ।।

द्व्यंशहरोऽर्धहरो वा पुत्रवित्तार्जनात्पिता ।
मातापि पितरि प्रेते पुत्रतुल्यांशभागिनी ।। ८५१ ।।

यथा यथा विभागाप्तं धनं यागार्थतां इयात् ।
तथा तथा विधातव्यं विद्वद्भिर्भागगौरवम् ।। ८५२ ।।

लोके रिक्थविभागेऽपि न कश्चित्प्रभुतां इयात् ।
भोग एव तु कर्तव्यो न दानं न च विक्रयः ।। ८५३ ।।

विभक्ता अविभक्ता वा दायादाः स्थावरे समाः ।
एको ह्यनीशः सर्वत्र दानाधमनविक्रये ।। ८५४ ।।

अविभक्तेऽनुजे प्रेते तत्सुतं रिक्थभागिनम् ।
कुर्वीत जीवनं येन लब्धं नैव पितामहात् ।। ८५५ ।।

लभेतांशं स पित्र्यं तु पितृव्यात्तस्य वा सुतात् ।
स एवांशस्तु सर्वेषा भ्रातॄणां न्यायतो भवेत् ।
लभेत तत्सुतो वापि निवृत्तिः परतो भवेत् ।। ८५६ ।।

उत्पन्ने चौरसे पुत्रे चतुर्थांशहराः सुताः ।
सवर्णा असवर्णास्तु ग्रासाच्छादनभाजनाः ।। ८५७ ।।

कन्यकानां त्वदत्तानां चतुर्तो भाग इष्यते ।
पुत्राणां तु त्रयो भागाः साम्यं त्वल्पधने स्मृतम् ।। ८५८ ।।

क्षेत्रिकस्य मतेनापि फलं उत्पादयेत्तु यः ।
तस्येह भागिनौ तौ तु न फलं हि विनैकतः ।। ८५९ ।।

क्लीबं विहाय पतितं या पुनर्लभते पतिम् ।
तस्यां पौनर्भवो जातो व्यक्तं उत्पादकस्य सः ।। ८६० ।।

न मूत्रं फेनिलं यस्य विष्ठा चाप्सु निमज्जति ।
मेढ्रश्चोन्मादशुक्राभ्यां हीनः क्लीबः स उच्यते ।। ८६१ ।।

अक्रमोढासुतश्चैव सगोत्राद्यस्तु जायते ।
प्रव्रज्यावसितश्चैव न रिक्थं तेषु चार्हति ।। ८६२ ।।

अक्रमोढासुतस्त्वृक्थी सवर्णश्च यदा पितुः ।
असवर्णप्रसूतश्च क्रमोढायां च यो भवेत् ।। ८६३ ।।

प्रतिलोमप्रसूता या तस्याः पुत्रो न रिक्थभाक् ।
ग्रासाच्छादनं अत्यन्तं देयं तद्बन्धुभिर्मतम् ।। ८६४ ।।

बन्धूनां अप्यभावे तु पितृद्रव्यं तदाप्नुयात् ।
अपित्र्यं द्रविणं प्राप्तं दापनीया न बान्धवाः ।। ८६५ ।।