स्वादिप्रकरणम्

 अथ स्वादयः


षुञ् अभिषवे॥ १॥

स्वादिभ्यः श्नुः॥ लसक_६४८ = पा_३,१.७३॥
शपो ऽपवादः। सुनोति। सुनुतः। हुश्नुवोरिति यण्। सुन्वन्ति। सुन्वः, सुनुवः। सुनुते। सुन्वाते। सुन्वते। सुन्वहे, सुनुवहे। सुषाव, सुषुवे। सोता। सुनु। सुनवानि। सुनवै। सुनुयात्। सूयात्॥

स्तुसुधूञ्भ्यः परस्मैपदेषु॥ लसक_६४९ = पा_७,२.७२॥
एभ्यस्सिच इट् स्यात्परस्मैपदेषु। असावीत्, असोष्ट॥ चिञ् चयने॥ २॥ चिनोति, चिनुते॥

विभाषा चेः॥ लसक_६५० = पा_७,३.५८॥
अभ्यासात्परस्य कुत्वं वा स्यात्सनि लिटि च। चिकाय, चिचाय॑ चिक्ये, चिच्ये। अचैषीत्, अचेष्ट॥ स्तृञ् आच्छादने॥ ३॥ स्तृणोति, स्तृणुते॥

शर्पूर्वाः खयः॥ लसक_६५१ = पा_७,४.६१॥
अभ्यासस्य शर्पूर्वाः खयः शिष्यन्ते ऽन्ये हलो लुप्यन्ते। तस्तार। तस्तरतुः। तस्तरे। गुणोर्ऽतीति गुणः। स्तर्यात्॥

ऋतश्च संयोगादेः॥ लसक_६५२ = पा_७,२.४३॥
ऋदन्तात्संयोगादेः परयोः लिङ्सिचोरिड्वा स्यात्तङि। स्तरिषीष्ट, स्तृषीष्ट। अस्तरिष्ट, अस्तृत॥ धूञ् कम्पने॥ ४॥ धूनोति, धूनुते। दुधाव। स्वरतीति वेट्। दुधविथ, दुधोथ॥

श्र्युकः किति॥ लसक_६५३ = पा_७,२.११॥
श्रिञ एकाच उगन्ताच्च गित्कितोरिण् न। परमपि स्वरत्यादिविकल्पं बाधित्वा पुरस्तात्प्रतिषेध काण्डारम्भ सामर्थ्यादनेन निषेधे प्राप्ते क्रादिनियमान्नित्यमिट्। दुधुविव। दुधुवे। अधावीत्, अधविष्ट, अधोष्ट। अधविष्यत्, अधोष्यत्। अधविष्यताम्, अधोष्यताम्। अधविष्यत, अधोष्यत॥

इति स्वादयः॥ ५॥