अच्सन्धिप्रकरणम्

 अथाच्सन्धिः


इको यणचि॥ लसक_१५ = पा_६,१.७७॥
इकः स्थाने यण् स्यादचि संहितायां विषये। सुधी उपास्य इति स्थिते॥

तस्मिन्निति निर्दिष्टे पूर्वस्य॥ लसक_१६ = पा_१,१.६६॥
सप्तमीनिर्देशेन विधीयमानं कार्यं वर्णान्तरेणाव्यवहतिस्य पूर्वस्य बोध्यम्॥

स्थाने ऽन्तरतमः॥ लसक_१७ = पा_१,१.५०॥
प्रसङ्गे सति सदृशतम आदेशः स्यात्। सुध्य् उपास्य इति जाते॥

अनचि च॥ लसक_१८ = पा_८,४.४७॥
अचः परस्य यरो द्वे वा स्तो न त्वचि। इति धकारस्य द्वित्वेन सुध्ध्य् उपास्य इति जाते॥

झलां जश् झशि॥ लसक_१९ = पा_८,४.५३॥
स्पष्टम्। इति पूर्वधकारस्य दकारः॥

संयोगान्तस्य लोपः॥ लसक_२० = पा_८,२.२३॥
संयोगान्तं यत्पदं तदन्तस्य लोपः स्यात्॥

अलो ऽन्त्यस्य॥ लसक_२१ = पा_१,१.५२॥
षष्ठीनिर्दिष्टाऽन्त्यस्याल आदेशः स्यात्। इति यलोपे प्राप्ते - (यणः प्रतिषेधो वाच्यः)। सुद्ध्युपास्यः। मद्धरिः। धात्रशः। लाकृतिः॥

एचो ऽयवायावः॥ लसक_२२ = पा_६,१.७८॥ एचः क्रमादय् अव् आय् आव् एते स्युरचि॥

यथासंख्यमनुदेशः समानाम्॥ लसक_२३ = पा_१,३.१०॥
समसंबन्धी विधिर्यथासंख्यं स्यात्। हरये। विष्णवे। नायकः। पावकः॥

वान्तो यि प्रत्यये॥ लसक_२४ = पा_६,१.७९॥
यकारादौ प्रत्यये परे ओदौतोरव् आव् एतौ स्तः। गव्यम्। नाव्यम्। (अध्वपरमाणे चि)। गव्यूतिः॥

अदेङ् गुणः॥ लसक_२५ = पा_१,१.२॥
अत् एङ् च गुणसंज्ञः स्यात्॥

तपरस्तत्कालस्य॥ लसक_२६ = पा_१,१.७०॥
तः परो यस्मात्स च तात्परश्चोच्चार्यमाणसमकालस्यैव संज्ञा स्यात्॥

आद्गुणः॥ लसक_२७ = पा_६,१.८७॥
अवर्णादचि परे पूर्वपरयोरेको गुण आदेशः स्यात्। उपेन्द्रः। गङ्गोदकम्॥

उपदेशे ऽजनुनासिक इत्॥ लसक_२८ = पा_१,३.२॥
उपदेशे ऽनुनासिको ऽजित्संज्ञः स्यात्। प्रतिज्ञानुनासिक्याः पाणिनीयाः। लण्सूत्रस्थावर्णेन सहोच्चार्यमाणो रेफो रलयोः संज्ञा॥

उरण् रपरः॥ लसक_२९ = पा_१,१.५१॥
ऋ इति त्रिंशतः संज्ञेत्युक्तम्। तत्स्थाने यो ऽण् स रपरः सन्नेव प्रवर्तते। कृष्णर्द्धिः। तवल्कारः॥

लोपः शाकल्यस्य॥ लसक_३० = पा_८,३.१९॥
अवर्णपूर्वयोः पदान्तयोर्यवयोर्लोपो वाशि परे॥

पूर्वत्रासिद्धम्॥ लसक_३१ = पा_८,२.१॥
सपादसप्ताध्यायीं प्रति त्रिपाद्यसिद्धा, त्रिपाद्यामपि पूर्वं प्रति परं शास्त्रमसिद्धम्। हर इह, हरयिह। विष्ण इह, विष्णविह॥

वृद्धिरादैच्॥ लसक_३२ = पा_१,१.१॥
आदैच्च वृद्धिसंज्ञः स्यात्॥

वृद्धिरेचि॥ लसक_३३ = पा_६,१.८८॥
आदेचि परे वृद्धिरेकादेशः स्यात्। गुणापवादः। कृष्णैकत्वम्। गङ्गौघः। देवैश्वर्यम्। कृष्णौत्कण्ठ्यम्॥

एत्येधत्यूठ्सु॥ लसक_३४ = पा_६,१.८९॥
अवर्णादेजाद्योरेत्येधत्योरूठि च परे वृद्धिरेकादेशः स्यात्। उपैति। उपैधते। प्रष्ठौहः। एजाद्योः किम् ? उपेतः। मा भवान्प्रेदिधत्। (अक्षादूहन्यामुपिसंख्यानम्)। अक्षौहणी सेना। (प्रादूहोढोढ्येषैष्येषु)। प्रौहः। प्रौढः। प्रौढिः। प्रैषः। प्रैष्यः। (ऋते च तृतीयासमासे)। सुखेन ऋतः सुखार्तः। तृतीयेति किम् ? परमर्तः। (प्रवत्सतरकम्बलवसनार्णदशानामृणे)। प्रार्णम्, वत्सतर्राणम्, इत्यादि॥

उपसर्गाः क्रियायोगे॥ लसक_३५ = पा_१,४.५९॥
प्रादयः क्रियायोगे उपसर्गसंज्ञाः स्युः। प्र परा अप सम् अनु अव निस् निर दुस् दुर वि आङ् नि अधि अपि अति सु उत् अभि प्रति पर उपि - एते प्रादयः॥

भूवादयो धातवः॥ लसक_३६ = पा_१,३.१॥
क्रियावाचिनो भ्वादयो धातुसंज्ञाः स्युः॥

उपसर्गादृति धातौ॥ लसक_३७ = पा_६,१.९१॥
अवर्णान्तादुपसर्गाद्दकारादौ धातौ परे वृद्धिरेकादेशः स्यात्। प्रार्च्छति॥

एङि पररूपम्॥ लसक_३८ = पा_६,१.९४॥
आदुपसर्गादेङादौ धातौ पररूपमेकादेशः स्यात्। प्रेजते। उपोषति॥

अचो ऽन्त्यादि टि॥ लसक_३९ = पा_१,१.६४॥
अचां मध्ये यो ऽन्त्यः स आदिर्यस्य तट् टिसंज्ञं स्यात्। (शकन्ध्वादिषु पररूपं वाच्यम्)। तच्च टेः। शकन्धुः। कर्कन्धुः मनीषा। आकृतिगणो ऽयम्। मार्त्तण्डः॥

ओमाङोश्च॥ लसक_४० = पा_६,१.९५॥
ओमि आङि चात्परे पररूपमेकादेशः स्यात्। शिवायोंं नमः। शिव एहि॥

अन्तादिवच्च॥ लसक_४१ = पा_६,१.८५॥
यो ऽयमेकादेशः स पूर्वस्यान्तवत्परस्यादिवत्। शिवेहि॥

अकः सवर्णे दीर्घः॥ लसक_४२ = पा_६,१.१०१॥
अकः सवर्णे ऽचि परे पूर्वपरयोर्दीर्घ एकादेशः स्यात्। दैत्यारः। श्रीशिः। विष्णूदयः। होतॄकारः॥

एङः पदान्तादति॥ लसक_४३ = पा_६,१.१०९॥
पदान्तादेङोऽति परे पूर्वरूपमेकादेशः स्यात्। हरेऽव। विष्णो ऽव॥

सर्वत्र विभाषाः गोः॥ लसक_४४ = पा_६,१.१२२॥
लोके वेदे चैङन्तस्य गोरति वा प्रकृतिभावः पदान्ते। गोअग्रम्, गो ऽग्रम्। एङन्तस्य किम् ? चित्रग्वग्रम्। पदान्ते किम्? गोः॥

अनेकाल् शित्सर्वस्य॥ लसक_४५ = पा_१,१.५५॥
इति प्राप्ते॥

ङिच्च॥ लसक_४६ = पा_१,१.५३॥
ङिदनेकालप्यन्त्यस्ययैव स्यात्॥

अवङ् स्फोटायनस्य॥ लसक_४७ = पा_६,१.१३३॥
पदान्ते एङन्तस्य गोरवङ् वाचि। गवाग्रम्, गो ऽग्रम्। पदान्ते किम् ? गवि॥

इन्द्रे च॥ लसक_४८ = पा_६,१.१२४॥
गोरवङ् स्यादिन्द्रे। गवेन्द्रः॥

दूराद्धूते च॥ लसक_४९ = पा_८,२.८४॥
दूरात्सम्बोधने वाक्यस्य टेः प्लुतो वा॥

प्लुतप्रगृह्या अचि नित्यम्॥ लसक_५० = पा_६,१.१२५॥
एते ऽचि प्रकृत्या स्युः। आगच्छ कृष्ण ३ अत्र गौश्चरति॥

ईदूदेद् द्विवचनं प्रगृह्यम्॥ लसक_५१ = पा_१,१.११॥
ईदूदेदन्तं द्विवचनं प्रगृह्यं स्यात्। हरी एतौ। विष्णू इमौ। गङ्गे अमू॥

अदसो मात्॥ लसक_५२ = पा_१,१.१२॥
अस्मात्परावीदूतौ प्रगृह्यौ स्तः। अमी ईशाः। रामकृष्णावमू आसाते। मात्किम् ? अमुके ऽत्र॥

चादयो ऽसत्वे॥ लसक_५३ = पा_१,४.५७॥
अद्रव्यार्थाश्चादयो निपाताः स्युः॥

प्रादयः॥ लसक_५४ = पा_१,४.५८॥
एते ऽपि तथा॥

निपात एकाजनाङ्॥ लसक_५५ = पा_१,१.१४॥
एको ऽज् निपात आङ्वर्जः प्रगृह्यः स्यात्। इ इन्द्रः। उ उमेशः। ऽवाक्यस्मरणयोरङित्॑ आ एवं नु मन्यसे। आ एवं किल तत्। अन्यत्र ङित् ॑ आ ईषदुष्णम् ओष्णम्॥

ओत्॥ लसक_५६ = पा_१,१.१५॥
ओदन्तो निपातः प्रगृह्यः स्यात्। अहो ईशाः॥

सम्बुद्धौ शाकल्यस्येतावनार्षे॥ लसक_५७ = पा_१,१.१६॥
सम्बुद्धिनिमित्तक ओकारो वा प्रगृह्यो ऽवैदिके इतौ परे। विष्णो इति, विष्ण इति, विष्णविति॥

मय उञो वो वा॥ लसक_५८ = पा_८,३.३३॥
मयः परस्य उञो वो वाचि। किम्वुक्तम्, किमु उक्तम्॥

इको ऽसवर्णे शाकल्यस्य ह्रस्वश्च॥ लसक_५९ = पा_६,१.१२७॥
पदान्ता इको ह्रस्वा वा स्युरसवर्णे ऽचि। ह्रस्वविधिसामर्थ्यान्न स्वरसन्धिः। चक्रि अत्र, चक्रय्त्र। पदान्ता इति किम् ? गौर्यौ -.

अचो रहाभ्यां द्वे॥ लसक_६० = पा_८,४.४६॥
अचः पराभ्यां रेफहकाराभ्यां परस्य यरो द्वे वा स्तः। गौर्य्यौ। (न समासे)। वाप्यश्वः॥

ऋत्यकः॥ लसक_६१ = पा_६,१.१२८॥
ऋति परे पदान्ता अकः प्राग्वद्वा। ब्रह्म ऋषिः, ब्रह्मर्षिः। पदान्ताः किम् ? आर्छत्॥

इत्यच्सन्धिः