लकारार्थप्रकिया

 अथ लकारार्थप्रक्रिया


अभिज्ञावचने ऌट्॥ लसक_७६४ = पा_३,१.११२॥
स्मृतिबोधिन्युपपदे भूतानद्यतने धातोरॢट्। लङोऽपवादः॥ वस निवासे॥ स्मरसि कृष्ण गोकुले वत्स्यामः। एवं बुध्यसे, चेतयसे, इत्यादिप्रयोगे ऽपि॥

न यदि॥ लसक_७६५ = पा_३,१.११३॥
यद्योगे उक्तं न। अभिजानासि कृष्ण यद्वने अभुञ्ज्महि॥

लट् स्मे॥ लसक_७६६ = पा_३,२.११८॥
लिटो ऽपवादः। यजति स्म युधिष्ठिरः॥

वर्तमानसमीप्ये वर्तमानवद्वा॥ लसक_७६७ = पा_३,३.१३१॥
वर्तमाने ये प्रत्यया उक्तास्ते वर्तमानसामीप्ये भूते भविष्यति च वा स्युः। कदागतो ऽसि। अयमागच्छामि, अयमागमं वा। कदा गमिष्यसि। एष गच्छामि, गमिष्यामि वा॥

हेतुहेतुमतोर्लिङ्॥ लसक_७६८ = पा_३,३.१५६॥
वा स्यात्। कृष्णं नमेच्चेत्सुखं यायात्। कृष्णं नंस्यति चेत्सुखं यास्यति। (भविष्यत्येवेष्यते)। नेह। हन्तीति पलायते॥ विधिनिमन्त्रणेति लिङ्। विधिः प्रेरणं भृत्यादेर्निकृष्टस्य प्रवर्तनम्। यजेत॥ निमन्त्रणं नियोगकरणम्, आवश्यके श्राद्धभोजनादौ दौहित्रादेः प्रवर्तनम्। इह भुञ्जीत॥ आमन्त्रणं कामचारानुज्ञा। इहासीत॥ अधीष्टं सत्कारपूर्वको व्यापारः। पुत्रमध्यापयेद् भवान्॥ संप्रश्नः संप्रधारणम्। किं भो वेदमधीयीय उत तर्कम्॥ प्रार्थनं याच्ञा। भो भोजनं लभेय। एवं लोट्॥

इति लकारार्थप्रक्रिया॥