अव्ययीभावसमासः

 अथाव्ययीभावः


अव्ययीभावः॥ लसक_९१० = पा_२,१.५॥
अधिकारोऽयं प्राक् तत्पुरुषात्॥

अव्ययं विभक्तिसमीपसमृद्धिव्यृद्ध्यर्थाभावात्ययासंप्रतिशब्दप्रादुर्भावपश्चाद्यथानुपूर्व्ययौगपद्यसादृश्यसम्पत्तिसाकल्यान्तवचनेषु॥ लसक_९११ = पा_२,१.६॥
विभक्त्यर्थादिषु वर्तमानमव्ययं सुबन्तेन सह नित्यं समस्यते सोऽव्ययीभावः। प्रायेणाविग्रहो नित्यसमासः, प्रायेणास्वपदविग्रहो वा। विभक्तौ, हरि ङि अधि इति स्थिते॥

प्रथमानिर्दिष्टं समास उपसर्जनम्॥ लसक_९१२ = पा_१,२.४३॥
समासशास्त्रे प्रथमानिर्दिष्टमुपसर्जनसंज्ञं स्यात्॥

उपसर्जनं पूर्वम्॥ लसक_९१३ = पा_२,२.३०॥
समासे उपसर्जनं प्राक्प्रयोज्यम्। इत्यधेः प्राक् प्रयोगः। सुपो लुक्। एकदेशविकृतस्यानन्यत्वात्प्रातिपदिकसंज्ञायां स्वाद्युत्पत्तिः। अव्ययीभावश्चेत्यव्ययत्वात्सुपो लुक्। अधिहरि॥

अव्ययीभावश्च॥ लसक_९१४ = पा_२,४.१८॥
अयं नपुंसकं स्यात्॥

नाव्ययीभावादतोऽम्त्वपञ्चम्याः॥ लसक_९१५ = पा_२,४.८३॥
अदन्तादव्ययीभावात्सुपो न लुक्, तस्य पञ्चमीं विना अमादेशश्च स्यात्॥ गाः पातीति गोपास्तस्मिन्नित्यधिगोपम्॥

तृतीयासप्तम्योर्बहुलम्॥ लसक_९१६ = पा_२,४.५४॥
अदन्तादव्ययीभावात्तृतीयासप्तम्योर्बहुलमम्भावः स्यात्। अधिगोपम्, अधिगोपेन, अधिगोपे वा। कृष्णस्य समीपम् उपकृष्णम्। मद्राणां समृद्धिः सुमद्रम्। यवनानां व्यृद्धिर्दुर्यवनम्। मक्षिकाणामभावो निर्मक्षिकम्। हिमस्यात्ययोऽतिहिमम्। निद्रा संप्रति न युज्यत इत्यतिनिद्रम्। हरिशब्दस्य प्रकाश इतिहरि। विष्णोः पश्चादनुविष्णु। योग्यतावीप्सापदार्थानतिवृत्तिसादृश्यानि यथार्थाः। रूपस्य योग्यमनुरूपम्। अर्थमर्थं प्रति प्रत्यर्थम्। शक्तिमनतिक्रम्य यथाशक्ति॥

अव्ययीभावे चाकाले॥ लसक_९१७ = पा_६,३.८१॥
सहस्य सः स्यादव्ययीभावे न तु काले। हरेः सादृश्यं सहरि। ज्येष्ठस्यानुपूर्व्येणेत्यनुज्येष्ठम्। चक्रेण युगपत् सचक्रम्। सदृशः सख्या ससखि। क्षत्राणां संपत्तिः सक्षत्रम्। तृणमप्यपरित्यज्य सतृणमत्ति। अग्निग्रन्थपर्यन्तमधीते साग्नि॥

नदीभिश्च॥ लसक_९१८ = पा_२,१.२०॥
नदीभिः सह संख्या समस्यते। (समाहारे चायमिष्यते)। पञ्चगङ्गम्। द्वियमुनम्॥

तद्धिताः॥ लसक_९१९ = पा_४,१.७६॥
आपञ्चमसमाप्तेरधिकारोऽयम्॥

अव्ययीभावे शरत्प्रभृतिभ्यः॥ लसक_९२० = पा_५,४.१०७॥
शरदादिभ्यष्टच् स्यात्समासान्तोऽव्ययीभावे। शरदः समीपमुपशरदम्। प्रतिविपाशम्। (जराया जरश्च)। उपजरसमित्यादि॥

अनश्च॥ लसक_९२१ = पा_५,४.१०८॥
अन्नन्तादव्ययीभावाट्टच् स्यात्॥

नस्तद्धिते॥ लसक_९२२ = पा_६,४.१४४॥
नान्तस्य भस्य टेर्लोपस्तद्धिते। उपराजम्। अध्यात्मम्॥

नपुंसकादन्यतरस्याम्॥ लसक_९२३ = पा_५,४.१०९॥
अन्नन्तं यत् क्लीबं तदन्तादव्ययीभावाट्टज्वा स्यात्। उपचर्मम्। उपचर्म॥

झयः॥ लसक_९२४ = पा_५,४.१११॥
झयन्तादव्ययीभावाट्टज्वा स्यात्। उपसमिधम्। उपसमित्॥

इत्यव्ययीभावः॥ २॥